________________
३७८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२८७ आह-'जावंचण'मित्यादि, यावदयं मानुषोत्तरपर्वतस्तावत् ‘अस्सिलोए' इतिअयंमानुषलोक् इति प्रोच्यते न परतः, तथा यावद्वर्षाणि-भरतादीनि क्षेत्राणीति वा वर्षधरपर्वता-हिमवदादय इतिवातावदयं मनुष्यलोक इति प्रोच्यतेन परतः, एतावता किमुक्तं भवति? वर्षाणि वर्षधरपर्वताश्च मनुष्यलोक एव नान्यत्रेति, एवमुत्तरत्रापि भावनीयं, तथा यावदगृहाणीति वा गृहापतनानीति वा तत्र गृहाणिप्रतीतानि गृहापतनानीति-गृहेष्वागमनानि तावदयं मनुष्यलोकः प्रोच्यते, गृहाणि गृहापतनानि वाऽस्मिन्नेव मनुष्यलोके नान्यत्रेति भावः, तथा ग्रामा इति वा नकराणीति वायावत्सन्निवेशा इतिवा, यावत्करणात् खेटकर्बटादिपरिग्रहस्तावदयं मनुष्यलोक इति प्रोच्यते, अत्रापि भावार्थ प्राग्वत्, तथा यावदर्हन्तश्चक्रवर्त्तिनो बलदेवा वासुदेवाश्चारणाजङ्घाचारण-विद्याधराः 'श्रमणाः' साधवः 'श्रमण्यः' संयत्यः श्रावकाः श्राविकाच, तथामनुष्याः प्रकृतिभद्रका इत्यादि यावद्विनीतास्तावदयं मनुष्यलोक इति प्रोच्यते, अर्हदादीनामत्रैव भावो नान्यत्रेति भावार्थ
तथा यावदुदारा बलाहका-मेघाः संस्विद्यन्ते संमूर्च्छन्ति-वर्षा वर्षन्ति, अस्य व्याख्यानं प्राग्वत् तावदयं मनुष्यलोक इति प्रोच्यते, मेघानामपि वर्षुकाणामत्रैव भावो नान्यत्रेति भावार्थ, तथा यावत् 'बादरः' गुरुतरः 'स्तनितशब्दः' गर्जितशब्द इति, 'बादरो विद्युत्कार इति वा' बादरा-अतिबहलतरा विद्युत्तावदयंमनुष्यलोके इतिप्रोच्यते, तथायावदयं बादरोऽग्निगायिकस्तावदयंमनुष्यलोक इतिप्रोच्यते, बादरग्निकायिकस्यापि मनुष्यलोकात्परतोऽसम्भवात, तथा यावदाकरा इति वा, आकरा-हिरण्याकरादयः, नद्य इति वा निधय इति वा तावदयं मनुष्यलोक इतिप्रोच्यते, तेषामपिमनुष्यक्षेत्रादन्यवासम्भवात्, तथायावत्समयाइतिवा, समयः-परमनिरुद्धः कालविशेषो यस्याधोविभागः कर्तुनशक्यते, सचसूचिकदारकस्तरुणो बलवानित्यादिपूर्वोक्तविशेषणविशिष्टो यावनिपुणशिल्पोपगत एकां महतीपटशाटिकां पट्टशाटिकांवा गृहीत्वा शीघ्रं हस्तमात्रमपसारयन् यावता कालेनोपरितनतन्तुगतमुपरितनं पक्ष्म छिनत्ति ततोऽपि मनाक् सूक्ष्मतरो, जघन्ययुक्तासङ्ख्यातकसमयानां समुदायः एकावलिका, सङ्खयेया आवलिका एक उच्छासः सङ्ग्येयाऽऽवलिका निश्वासः उच्छासनिश्वासौसमुदितावेक आनप्राणकालः, किमुक्तं भवति?- हृष्टस्य नीरोगस्य श्रमबुभुक्षादिना निरुपकृषटस्य यावता कालेनैतावुच्छासनिश्वासौ भवतः तावान् काल आनप्राणः, उक्तश्च॥१॥ "हट्ठस्स अणवकल्लस्स, निरुवकिस्स जंतुणो।
__ एगे ऊसासनीसासे, एस पाणुत्ति वुच्चए।" सप्तप्राणा एकः स्तोकः सप्तस्तोकाएको लवः सप्तसप्ततिसङ्ख्यालवाएको मुहूर्तः उक्तञ्च॥१॥ “सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे ।
लवाण सत्तहत्तरिए, एस मुहुत्ते वियाहिए।" अस्मिंश्च मुहूर्ते यद्यावलिकाश्चिन्त्यन्ते तदा तासामेका कोटी सप्तषष्टिलक्षाः सप्तसप्तति सहस्राणि द्वे शते षोडशाधिके, उक्तञ्च॥१॥ “एगा कोडी सत्तहि लक्खा सत्तत्तरी सहस्सा य । दो य सया सोलहिया सोलहिया आवलियाणं मुहत्तंमि॥"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org