________________
३६६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २५०
प्रज्ञप्तं ?, भगवानाह - गौतम ! पञ्चचत्वारिंशद् योजनशहसहस्राण्यायामविष्कम्भेन, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि त्रिंशत्सहस्राणि द्वे योजनशते एकोनपञ्चाशे किञ्चिद्विशेषाधिके परिक्षेपेण प्रज्ञप्तं ॥ सम्प्रति नामनिमित्तमभिधित्सुराह
'सेकेणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते - मनुष्यक्षेत्रं मनुष्यक्षेत्रं ? इति, भगवानाह - गौतम ! मनुष्यक्षेत्रे त्रिविधा मनुष्याः परिवसन्ति तद्यथा - कर्म्मभूमका अकर्म्मभूमका अन्तरद्वीपकाश्च, अन्यच्च मनुष्याणां जन्म मरणं चात्रैव क्षेत्रे न तद्बहिः, तथाहि - मनुष्या मनुष्यक्षेत्रस्य बहिर्जन्मतो न भूता न भवन्ति न भविष्यन्ति च, तथा यदि नाम केनचिद्देवेन दानवेन विद्याधरेण वा पूर्वानुबद्धवैरनिर्यातनार्थमेवंरूपा बुद्धि क्रियते यथाऽयं मनुष्योऽस्मात् स्थानाद् उत्पाटय मनुष्यक्षेत्रस्य बहिः प्रक्षिप्यतां येनोर्द्धशोषं शुष्यति म्रियते वेति तथाऽपि लोकानुभावादेव सा काचनाऽपि बुद्धिर्भूयः परावर्त्तते यथा संहरणमेव न भवति संहृत्य वा भूयः समानयति तेन संहरणतोऽपि मनुष्यक्षेत्राद्बहिर्मनुष्या मरणमधिकृत्य न भूता न भवन्तन न भविष्यन्तिच, येऽपि जङ्घाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावद्गच्छन्ति तेऽपि तत्र गता न मरणमश्नुवते किन्तु मनुष्य क्षेत्रसमागता एव, तेन मानुषोत्रपर्वतसीमाकं मनुष्याणां सम्बन्धि क्षेत्रं मनुष्यक्षेत्रमिति, तथा चाह--' से एएणट्टेण' मित्यादि गतार्थम् । सम्प्रति मनुष्यक्षेत्रगतसमस्तचन्द्रादिसङ्ख्यापरिमाणमाह - 'ममुस्सखेत्ते णं भंते! कइ चंदा पभासिंसु' इत्यादि पाठसिद्धं ।
मू. (२५१)
पू. (२५२)
बत्तीसं चंदसयं बत्तीसं चैव सूरियाण सयं । सयलं मणुस्सलोयं चरेति एते पभासेंता ।। एक्कारस य सहस्सा छप्पि य सोला महग्गहाणं तु । छच्च सया छन्नउया नक्खत्ता तिन्नि य सहस्सा ॥ मू. (२५३) अडसीइ सयसहस्सा चत्तालीस सहस्स मणुयलोगंमि । सत्त य सता अणूणा तारागणकोडकोडीणं । सोभं सोभेंसु वा ३ ॥
मू. (२५४)
बृ. उक्तं चैवंरूपं परिमाणमन्यत्रापि
"बततीसं चंदसयं बत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोयं चरंति एए पगासिंता ॥ एकारस य सहससा छप्पि य सोला महागहाणं तु । छच्च सया छन्नउया नक्खत्ता तिन्नि य सहस्सा ॥ अट्ठासीयं लक्खा चत्तालीसं च तह सहस्साइं । सत्त साय अणूणा तारागणकोडकोडीणं ॥
॥३॥
तत्र द्वात्रिंशं चन्द्रशतमेवं - द्वौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणोदे द्वादश धातकीषण्डे द्वाचत्वारिंशत्कालोदे द्वासप्ततिरभ्यन्तरपुष्करार्द्धे सर्वसङ्घत्यया द्वात्रिंशं शतं, एवं सूर्याणामपि द्वात्रिंशं शतं परिभावनीयं, नक्षत्रादिपरिमाणमष्टाविंशत्यादिनक्षत्रादीनि द्वात्रिंशेन शतन गुणयित्वा परिभावनीयं । मू. (२५५)
Jain Education International
11911
॥२॥
एसो तारापिंडो सव्वसमासेण मणुयलोगंमि ।
For Private & Personal Use Only
www.jainelibrary.org