SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० ३६१ नाम द्वारं प्रज्ञप्तं, एवं विजयद्वारवक्तव्यता पूर्वानुसारेण वक्तव्या, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे ! वैजयनन्तद्वारप्रश्नसूत्रं सुगमं, भगवानाह-गौतम ! कालोदसमुद्रदक्षिणपर्यन्ते पुष्करवरद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र कालोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं, एवं जम्बूद्वीपगतवैजयन्तद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । जयन्तद्वारप्रश्नसूत्रसुगमं, भगवानाह-गौतम! कालोदसमुद्रपश्चिमपर्यन्तेपुष्करवरद्वीपपश्चिमार्द्धस्य पूर्वतःशीताया महानद्या उपर्यत्रकालोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं, एतदपि जम्बूद्वीपगतजयन्तद्वारवत्, नवंराजधानी अन्यस्मिन् कालोदे समुद्रे ।अपराजितद्वारप्रश्नसूत्रमपि सुगम, भगवानाह-गौतम ! कालोदसमुद्रोत्तरार्द्धपर्यन्ते पुष्करवरद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र कालोदसमुद्रस्यापरिजातं नाम द्वारंप्रज्ञप्तं, तदपिजम्बूद्वीपगतापराजितद्वारवत् नवरं राजधानी अन्यस्मिन् कालोदसमुद्रे ।। सम्प्रति द्वाराणां परस्परमन्तरं प्रतिपिपादयिषुराह 'कालोयस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाहमू. (२२९) बावीस सयसहस्सा बानउति खलु भवे सहस्साई। छच्च सया बायाला दारंतर तिन्नि कोसा य॥ वृ. गौतम ! द्वाविंशतिर्योजनशतसहस्राणि द्विनवति सहस्रणि षड् योजनशतानि षट्चत्वारिंशदधिकानि त्रयश्च क्रोश द्वारस्य द्वारस्य परस्परमबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-चतुर्णामपिद्वाराणामेकत्रपृथुत्वमीलनेऽष्टादशयोजनानि कालोदसमुद्रपरिरयपरिमाणाद् ९१७०६०५ इत्येवंरूपपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम्-एकनवतिर्लक्षाः सप्तति सहस्राणि पञ्च शतानि सप्ताशीत्यधिकानि ९१७०५८७ च, तेषां चतुर्भिर्भागे हते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमाणं २२९२६४६ क्रोशः ३, उक्तञ्च॥१॥ “छायाला छच्च सया बानउय सहस्स लक्ख बावीसं। कोसा य तिनि दारंतरंतु कालोयहिस्स भवे ॥ मू. (२३०) दारस्स य २ अबाहाए अंतरे पन्नत्ते । कालोदस्स णं भंते ! समुदस्स पएसा पुक्खरवरदीव० तहेव, एवं पुक्खरवरदीवस्सविजीवा उद्दाइत्ता २ तहेवभाणियव्वं॥से केणटेणं भंते ! एवं वुच्चति कालोए समुद्दे २?, गोयमा! कालोयस्स णं समुद्दस्स उदके आसले मासले पेसले कालएमासरासिवण्णाभेपगतीए उदगरसेणंपन्नत्ते, कालमहाकाला एत्थदुवे देवामहिड्डिया जाव पलिओवमट्टितीया परिवसंति, से तेणटेणं गोयमा ! जाव निचे ।। कालोए णं भंते ! समुद्दे कति चंदा पभासिंसु वा ३? पुच्छा, गोयमा! कालोए णं समुद्दे बायालीसं चंदा पभासेंसु वा ३ वृ. 'कालोयस्स णं भंते ! समुद्दस्स पएसा' इत्यादि सूत्रचतुष्टयं पूर्ववद्भावनीयम् ।। नामान्वर्थमभिधित्सुराह-'से केणटेण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते कालोदः समुद्रः कालोदः समुद्रः? इति, भगावनाह-गौतम! कालोदस्य समुद्रस्योदकं आसलम् आस्वाद्यम् उदकरसत्वात् मांसलं गुरुधर्मकत्वात् पेशलं आस्वादमनोज्ञत्वात् ‘कालं' कृष्णम्, एतदेवोपमया प्रतिपादयति-माषराशिवर्णाभं, उक्तञ्च-"पगईए उदगरसं कालोए उदगमासरासिनिभं इति, ततः कालमुदकं यस्यासौ कालोदः, तथा कालमहाकालौच तत्र द्वौ देवौ पूर्वार्द्धपश्चिमार्द्धाधिपती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy