SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३४० जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २०५ तत्थ गतो सोए पडिहम्मति से तेणट्टेणं जाव णिच्चे मनोसिलए एत्थ देवे महिड्डीए जाव से णं तत्थ चउण्हं सामाणिय० जाव विहरति । कहि णं भंते! मणोसिलगस्स वेलंधरणागरायस्स मनोसिला नाम रायहाणी ?, गो० दगसीमस्स आवासपव्वयस्स उत्तरेणं तिरि० अन्नंमि लवणे एत्थ णं मनोसिलिया नाम रायहाणी पन्नत्ता तं चेव पमाणं जाव मनोसिलाए देवे— वृ. 'कति णं भंते!' इत्यादि, कति भदन्त ! वेलन्धरनागराजाः प्रज्ञप्ताः ? भगवानाह - चत्वारो वेलन्धरनागराजाः प्रज्ञप्तास्तद्यथागोस्तूपः शिवकः शङ्खो मनःशिलाकः ॥ 'एएसि णमित्यादि, एतेषां भदन्त ! चतुणी वेलन्धरनागराजानांकति आवासपर्वताः प्रज्ञप्ताः ?, भगवानाह - गौतम ! एकैकस्य एकैकभावेन चत्वार आवासपर्वताः प्रज्ञप्तास्तद्यथा - गोस्तूप उदकभासः शङ्खो दकसीमः ॥ 'कहि णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! अस्मिन् जम्बूद्वीपे यो मन्दरपर्वतस्तस्य पूर्वस्यां दिशि लवणसमुद्रं द्वाचत्वारिंशतं योजनसहस्राण्यवगाह्यात्र गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपो नाम आवासपर्वतः प्रज्ञप्तः, सप्तदश योजनशतानि एकविंशान्यूर्द्धमुच्चैस्त्वेन चत्वारि योजनशतानि त्रिंशदधिकानि क्रोशं चैकमुद्वेधेन, उच्छ्रयापेक्षयाऽवगाहस्य चतुर्भागभावात्, मूले दश योजनशतानि द्वाविंशत्युत्तराणि विष्कम्भतः, मध्ये सप्त योजनशतानि त्रयोविंशत्युत्तराणि, उपरि चत्वारि योजनशतानि चतुर्विशत्युत्तराणि, मूले त्रीणि योजनसहस्राणि द्वे च योजनशते द्वात्रिंशदुत्तरे किञ्चिद्विशेषोने परिक्षेपेण, मध्ये द्वे योजनसहस्र द्वे च योजनशते चतुरशीते किञ्चिद्विशेषाधिके परिक्षेपेण, उपर्येकं योजनसहस्र त्रीणि योजनशतानि एकचत्वारिंशानि किञ्चिद्विशेषोनानि परिक्षेपेण, ततो मूले विस्तीर्णो मध्ये सङित उपरि तनुकः, अत एव गोपुच्छसंस्थानसंस्थितो गोपुच्छस्याप्येवमाकारत्वात्, सर्वात्मना जाम्बूनदमयः, 'अच्छेजाव पडिरूवे' इति प्राग्वत् । 'सेण' मित्यादि, 'सः' गोस्तूपनामा आवासपर्वत एकया पद्मवरवेदिकया एकेन च वनषण्डेन 'सर्वतः’सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपि चानयोर्वेदिकावनषण्डयोर्वर्णकः प्राग्वत् ॥ 'गोथूभस्स ण' मित्यादि, गोस्तूपस्य णमिति पूर्ववद् आवासपर्वतस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहा नामए आलिंगपुक्खरेइ वा' इत्यादि प्राग्वद् यावत्तत्र बहवो नागकुमारा देवा आसते शेरते यावद्विहरन्तीति । 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, स च विजयदेवस्य प्रासादावतंसकसद्दशो वक्तव्यः, स चैवं - सार्द्धानि द्वाषष्टिर्योजनानि उच्चैस्त्वेन, सक्रशान्येकत्रिंशद् योजनान्यायामविष्कम्भाभ्यां प्रासादवर्नमुल्लोचवर्णनं च प्राग्वत् । तस्य च प्रासादावतंसकस्यान्तर्बहुमध्यदेशभागे महत्येका सर्वरत्नमयी मणिपीठिका, सा च योजनायामविष्कम्भप्रमाणा गव्यूतद्वयबाहल्या, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं तच्चैन्द्रसामानिकादिदेवयोग्यैर्भद्रासनैः परिवृतमिति । * 'से केणट्टेणं भंते!' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते गोस्तूप आवासपर्वतो गोस्तूप आवासपर्वतः ? इति भगवानाह - गौतम ! गोस्तूपे आवासपर्वते क्षुल्लासु क्षुल्लिकासु वापीषु यावद्विलपङ्किषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि गोस्तूपप्रभाणि गोस्तूपाकाराणि गोस्तूपवर्णानि गोस्तूपवर्णस्येवाभा - प्रतिभासो येषां तानि गोस्तूपवर्णाभानि, ततस्तानि तदाकारत्वात् For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy