SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३२२ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१९० ॥२॥ पन्नरसेक्कासीए साहीए परिहिमज्झबाहल्लं । जोयणदुछक्ककमसो हायंतंतेसु दो कोसा। 'सेण'मित्यादि 'तत्' जम्बूपीठमेकय पद्मवरवेदिकया एकेन वनखण्डेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्तं, वेदिकावनषण्डयोवर्णकः प्राग्वद्वक्तव्यः। तस्यचजम्बूपीठस्य चतुर्दिशि एकैकस्यां दिशि एकैकत्रिसोपानप्रतिरूपकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि, तद्यथा-एकं पूर्वस्यामेकं दक्षिणस्यामेकं पश्चिमायामेकमुत्तरस्याम्। 'तेसिण'मित्यादि, तेषांचत्रिसोपानप्रतिरूपकाणामयमेतद्रूपोवर्णावासः प्रज्ञप्तः, तद्यथा-वज्रमयानेमा भूमेरूर्द्धमुद्गच्छन्तःप्रदेशाइत्यादिजगत्युपरिवाप्यादित्रिसोपानवत्तावद्वक्तव्यं यावन्नानामणिमयान्यवलम्बनानि अवलम्बनवाहाच, तोरणान्यपिप्राग्वद्वाच्यानि ॥ 'तस्सणंजंबूपेढस्सण मित्यादि, जम्बूपीठस्योपरिबहुसमरमणीयो भूमिभागःप्रज्ञप्तः, सच से जहानामए आलिंगपुक्खरेइ वा' इत्यादि विजयाराजधान्युपकारिकालयनवत्तावद्वक्तव्यो यावन्मणीनां स्पर्शवक्तव्यतापरिसमाप्ति, यावच्च बहवोवानमन्तरा देवा देव्यश्चासतेशेरते यावद् विहरन्तीति तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारियोजनानि बाहल्येन सर्वात्मना मणिमयी 'अच्छा जाव पडिरूवा' इति प्राग्वत्। 'तीसेण मित्यादि, तस्य मणिपीठिकायाउपरिबहुमध्यदेशभागे,अत्रमहतीजम्बू: सुदर्शना प्रज्ञप्ता, अष्टौ योजनान्यूर्ध्वमुच्चैस्त्वेन, अर्द्धयोजनमुद्वेधेन, द्वे योजने स्कन्धः षड् योजनानि विडिमा-ऊर्द्धविनिर्गताशाखा बहुमध्यदेशभागेअष्टौयोजनान्यायामविष्कम्भाभ्यांसातिरेकान्यष्टी योजनानि 'सर्वाग्रेण' उद्वेधोच्चैस्त्वपरिमाणमीलनेन, तस्याश्चजम्ब्वा वज्रमयानि मूलानि यस्याः सावज्रमयमूला ‘रययसुपइट्ठियविडिमा' इतिरजता-रजतमयी सुप्रतिष्ठिता विडिमा बहुमध्यदेशभागे ऊर्ध्वं विनिर्गता यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन विशेषणसमासः, 'रिट्ठामयविउल- कंदावेरुलियरुइलखंधा' रिष्ठमयो-रिष्ठरत्नमयः (विपुलः) कन्दो यस्याः सा रिष्ठरत्नमयकन्दा, तथा वैडूर्यरत्नमयो रुचिरो-दीप्यमानः स्कन्धो यस्या सा वैडूर्यरुचिरस्कन्धा, ततः पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायस्वपढमगविसालसाला' सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यात जातरूपं तदात्मकाः प्रथमका-मूलभूता विशालाः शालाः-शाखा यस्याः सा सुजातवरजात-रूपप्रथमकविशालशालाः। __ 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तविंटा' नानामणिरत्लानांनानामणिरत्नामिका विविधा शाखाप्रशाखा यस्याः सा तथा तथा वैडूर्याणि-वैडूर्यरलमयानि पत्राणि यस्याः सा तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि यस्याः सा तथा, ततः पदद्वय २ मीलनेन कर्मधारयः नानामणिरत्नविविधशाखाप्रशाखावैडूर्यपत्रतपनीयपत्रवृन्ताः, अपरे सौवर्णिक्यो मूलशाखाः प्रशाका रजतमय्य इत्युचुः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लवंकुरधरा' जाम्बूनदनामकसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदवो-मनोज्ञाः सुकुमाराः-सुकुमारस्पर्शा येप्रवाला-ईषदुन्मीलितपत्रभावाः पल्लवाः संजातपरिपूर्णप्रथमपत्रभावरूपावराङ्कुराःप्रथममुद्भिधमाना अडरास्तान्धरन्तीति जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लवाडरधराः, कवचित्पाठः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy