________________
३१४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८६
वनखण्डवर्णकश्च जगत्युपरिपद्मवरवेदिकावनषण्डवर्णकवद् वक्तव्यः । ___'तेसिणंजमगपव्वयाण'मित्यादि, यमकपर्वतयोरुपरिप्रत्येकंबहुसमरमणीयोभूमिभागः प्रज्ञप्तः, भूमिभागवर्णनं ‘से जहानामए आलिंगपुक्खरेइ वा' इत्यादि प्राग्वत्तावद्वक्तव्यं यावद् 'वाणमंतरादेवायदेवीओयआसयंतिसयंतिजाव पच्चणुभवमाणाविहरंति ॥ तेसिण'मित्यादि, तयोर्बहुसमरमणीययोभूमिभागयोर्बहुमध्यदेशभागे प्रत्येकं प्रत्येकं प्रासादावतंसकः प्रज्ञप्तः, तौ च प्रासादावतंसकौ द्वाषष्टिर्योजनान्यद्धयोजनं चोर्द्धमुच्चैस्त्वेन, एकत्रिंश योजनानि क्रोशं चैकं विष्कम्भेन, 'अब्भुग्गयमूसियपहसिया इवेत्यादि यावत् पडिरूवा' इति प्रासादावतंसकवर्णनमुल्लोचवर्णनं भूमिमागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णनं विजयदूष्यवर्णनमडशवर्णनं दाभवर्णनं च निरवशेषं प्राग्वद्वक्तव्यं, नवरमत्र मणिपीठिकायाः प्रमाणमायामविष्कम्भ्याभ्यां द्वे योजने, बाहल्येनैकं योजनं, शेषं तथैव।।
'तेसिणंसिंहासणाण'मित्यादि, तयोः सिंहासनयोःप्रत्येकम् 'अवरुत्तरेण तिअपरत्तरस्यां वायव्यामित्यर्थ उत्तरस्यामुत्तरपूर्वस्यां च दिशि, अ एतासु तिसृषु दिक्षु 'यमकयोः' यमकनाम्रोर्यमकपर्वतस्वामिनोर्देवयोः प्रत्येकं प्रत्येकं चतुर्णां सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, एवमनेन क्रमेण सिंहासनपरिवारो वक्तव्यो यथा प्राग्विजयदेवस्य 'तेसिणमित्यादि, तयोःप्रासादावतंसकयोः प्रत्येकमुपर्यष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि इत्याद्यपि प्राग्वत्तावद्वक्तव्यं यावत् 'सयसहस्सपत्तगा' इतिपदम्।।
___सम्प्रति नामनिबन्धनं पिपृच्छिषुरिदमाह-अथ 'केनार्थेन' केन कारणेन एवमुच्यतेयमकपर्वतौ यमकपर्वतौ ? इति, भगवानाह-गौतम ! यमकपर्वतयोः णमिति वाक्यालङ्कारे क्षुल्लकक्षुल्लिकासु वापीपुष्करिणीषु यावद्विबलहतिषु बहूनि यावत्सहस्रपत्राणि 'यमकप्रभाणि' यमका नाम-शकुनिविशेषास्तत्प्रभानि-तदाकाराणि, एतदेव व्याचष्टे-यमकवर्णाभानि यमकवर्णसशवर्णानीत्यर्थः । 'यमकौच' यमकनामानौचतत्र-तयोर्यमकपर्वतयोः स्वामित्वेन द्वौ देवी महर्द्धिकौ यावन्महाभागौ पल्योपमस्थितिको परिवसतः, तौ च तत्र प्रत्येकं चतुर्णां सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां तिसृणामभयन्तरमध्यमबाह्यरूपाणां यथासङ्ख्यमष्दश-द्वादशदेवसहनसङ्ख्याकानांपर्षदांसप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामा- त्मरक्षदेवसहस्राणां 'जमगपव्वयाणं जमगाण य रायहाणीण'मिति स्वस्य स्वस्य यमकपर्वतस्य स्वस्य स्वस्य यमिकाभिधाया राजधान्या अन्येषां च बहूनां वाणमन्तराणां देवानां देवीनांच स्वस्वयमिकाभिधराजधानीवास्तव्यानामाधिपत्यं यावद्विहरतः, यावत्करणात् 'पोरेवच्चं सामित्तं भट्टित्त'मित्यादिपरिग्रहः, ततोयमकाकारयमकवर्णोत्पलादियोगाद्यमकाभिधदेवस्वामिकत्वाच्च तौ यमकपर्वतावित्युच्येते, तथा चाह ।
से एणटेण'मित्यादि । सम्प्रति यमिकाभिधराजधानीस्थानं पृच्छति-'कहि णं भंते' इत्यादि, कर भदन्त! यमकयोर्देवयोः सम्बन्धिन्यौ यमिकेनाम राजधान्यौ प्रज्ञप्तौ?, भगवानाहगौतम! यमकपर्वतयोरुत्तरतोऽन्यस्मिन्नसङ्खयेयतमेजम्बूद्वीपे द्वीपे द्वादशयोजनसहस्राणि अवगाह्यात्रान्तरे यमकयोर्देवयोः सम्बन्धिन्यौ यमिके नाम राजधान्यौ प्रज्ञप्ते, द्वे चाविशेषण विजयराजधानीसशे वक्तव्ये । सम्प्रति हदवक्तव्यतामभिधित्सुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org