SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -३, दीव० ३०९ ___ 'अस्थिणं भंते' इत्यादि, सन्ति भदन्त ! अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इति वा महिषा इति वाखराइति वागोटका इतिवा?, इह जात्याआशुगमनशीला अश्वाः शेषा घोटकाः, खरा-गर्दभाः, अजा इति वा एडका इति वा?, भगवानाहहन्त ! सन्ति, न पुनस्तेषां मनुजानां परिभोग्यतया 'हव्वं' शीघ्रमागच्छन्ति ॥ ‘अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु गाव इति वा, गावः-स्त्रीगव्यः, महिष्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा?, हन्त ! सन्ति, न पुनस्तेषां मनुष्याणामुपभोग्यतया हव्यं शीघ्रमागच्छन्ति। 'अत्थिणंभंते इत्यादि, सन्तिभदन्त! उतरकुरुषुकुरुषुसिंहाइतिवा, सिंहः-पञ्चाननः, व्याघ्रा इतिवा, व्याघ्रः-शार्दूलः, वृका इति वा, द्वीपिका इति वा द्वीपिकाः-चित्रकाः, ऋक्षा इति वा,परस्सराइति वा, परो-गण्डः,श्रगालाइतिवा, बिडालाइतिवा, शुनका इतिवा, कालशुनका इति वा, कोकन्तिका इति वा, कोकन्तिकालुङ्कडिकाः, शशका इति वा, चिल्लला इति वा, चिल्लल -आरण्यकः पशुविशेषः ?, भगवानाह-हन्त ! सन्ति, न पुनस्ते परस्परस्या तेषां वा मनुजानां काश्चिदाबाधां वा प्रबाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! । 'अस्थिणंभंते' इत्यादि, सन्ति भदन्त! उत्तरकुरुषु कुरुषुशालय इति वा व्रीहय इति वा गोधूमा इति वा यवा इति वा तिला इति वा इक्षव इति वा?, हन्त ! सन्ति न पुनस्तेषां मनुष्याणां परिभोग्यतया 'हव्वं' शीघ्रमागच्छन्ति ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त! उत्तरकुरुषु कुरुषुस्थाणुरिति वा कण्टक इति वा हीरमिति वा, हीरं-लघु कुत्सितं तृणं, शक्करेति वा, शर्करा- कर्करकः, तृणकचवर इति वा पत्रकचवर इति वा अशुचीति वा, अशुचि-विगन्धंशरीरमलादि, पूतीति वा, पूति-कुथितं स्वस्वभावचलितंत्रिवासरवटकादिवत्, दुरभिगन्धमिति वा, दुरभिगन्धं मृतकलेवरादिवत्, अचोक्ष-अपवित्रमस्थ्यादिवत् ?, भगवानाह-नायमर्थःसमर्थो, व्यपगतस्थाणुकण्टकहीरशर्करातृणकचवरपत्रकचवराशुचिपूतिदुरभिगन्धाचोक्षपरिवर्जिता उत्तरकुरवः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु, गर्तेति वा, गर्ता-महती खड्डा, दरीति व, दरी-मूषिकादिकृता लध्वी खड्डा, घसीति वा, घसी-भूराजि, भृगुरिति वा, भृगुः-प्रपातस्थानं, विषममिति वा, विषमं-दुरारोहावरोहस्थानं, धूलिरिति वा पङ्क इति वा, धूलीपप्रतीतौ, चलणीति, वा, चलनी-चरममात्रस्पर्शी कर्दमः?, भगवानाह-नायमर्थः समर्थ, उत्तरकुरुषु कुरुषु बहुसमरमणीयो भूभागः प्रज्ञप्तो हे श्रमण! हे आयुष्मन् ! । 'अस्थिणंभंते!' इत्यादि, सन्ति भदन्त ! दंसा इति वा मसका इति वा ढकुणा इतिवा, कचित् पिशुगा इति वा इति पाठस्तत्र पिशुकाः-पंचटादयः, यूका इति वा लिक्षा इति वा?, भगवानाह-नायमथ समर्तो, व्यपगतोपद्रवाः खलु उत्तरकुरवः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !। ___'अस्थिणंभंते' इत्यादि, सन्ति भदन्त! उत्तरकुरुषु कुरुषुअहयइतिवाअजगरा इति वा महोरगा इतिवा?, हन्त! सन्ति न पुनस्तेऽन्योऽन्यस्य तेषां वा मनुजानं काञ्चिदाबाधांव्याबाधां वाछविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते व्यालकगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !। 'अस्थिणंभंते' इत्यादि, सन्ति (भदन्त)! उत्तरकुरुषु कुरुषु ग्रहदण्डाइति वा, दण्डाकारव्यवस्थिताग्रहा ग्रहदण्डाः तेचानर्थोपनिपातहेतुतयाप्रतिषेध्यान स्वरूपतः, एवं ग्रहमुशलानीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy