________________
प्रतिपत्तिः- १,
२७
आत्मप्रदेशस्पर्शविषयाण्याहारयन्ति उतास्पृष्टानि ?, भगवानाह - स्पृष्टानि नो अस्पृष्टानि, तत्रात्मप्रदेशैः संस्पर्शनमात्मप्रदेशावगाढक्षेत्राद्वहिरपि संभवति ततः प्रश्नयति
'जाई भंते ' इत्यादि, यानि भदन्त ! स्पृष्टान्याहारयन्ति तानि किमवगाढानि - आत्मप्रदेशैः सहैक क्षेत्रावस्थायीनि उतानवगाढानि - आत्मप्रदेशावगाहक्षेत्राद्बहिरवस्थितानि ?, भगवानाह - गौतम ! अवगाढान्याहारयन्ति नानवगाढानि । यानि भदन्त ! अवगाढान्याहारयन्ति तानि किमनन्तरवगाढानि ?, किमुक्तं भवति ? - येष्वात्मप्रदेशेषु यान्यव्यवधानेनावगाढानि तैरात्मप्रदेशैस्तान्येवाहारयन्ति उत परम्परावगाढानि - एकद्वित्राद्यात्मप्रदेशैर्व्यवहितानि ?, भगवानाह - गौतम ! अनन्तरावगाढानि न परम्परावगाढानि । यानि भदन्त ! अनन्तरावगाढान्याहारयन्ति तानि भदन्त ! अनन्तप्रादेशिकानि द्रव्याणि किमणूनि - स्तकान्याहारयन्ति उत बादराणि - प्रभूतप्रदेशोपचितानि ?, भगवानाह - अणून्यप्याहारयन्ति बादराण्यप्याहारयन्ति, इहाणुत्वबादरत्वे तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकत्वबाहुल्यापेक्षया प्रज्ञापनामूलटीकाकारेणापि व्याख्याते इत्यस्माभिरपि तथैवाभिहिते ।
यानि भदन्त ! अणून्यपि आहारयन्ति तानि किमूर्ध्वप्रदशस्थितान्याहारयन्ति अधस्तिर्यग्वा ?, इहोर्ध्वाधस्तिर्यक्त्वं यावति क्षेत्रे सूक्ष्मपृथिवीकायिकोऽवगाढस्तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं, भगवानाह - ऊर्ध्वमप्याहारयन्ति - ऊर्ध्वप्रदेशावगाढान्यप्याहारयन्ति, एवमघोऽपि तिर्यगपि । यानि भदन्त ! ऊर्ध्वस्तिर्यगप्याहारयन्ति तानि किमादावा- हारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति ?, अयमत्राभिप्रायः
सूक्ष्मपृथिवीकायिका ह्यनन्तप्रादेशिकानि द्रव्याण्यन्तर्मुहूर्त कालं यावदुपभोगोचितानि गृह्णन्ति, ततः संशयः - किमुपभोगोचितस्य कालस्यान्तर्मुहूर्तप्रमाणस्यादौप्रथमसमये आहारयन्ति उत मध्ये-मध्यसमयेषु आहोश्चित पर्यवसाने पर्यवसानसमये ?, भगवानाह - गौतम ! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति, किमुक्तं भवति ? - उपभोगोचितकालस्यान्तर्मुहूर्त्तप्रमाणस्यादिमध्यावसानसम- येऽप्याहारयन्तीति । यानि भदन्त ! आदाजाव पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! किं स्वविषयानि – स्वोचिताहारयोग्यान्याहारयन्ति उताविषयानि - स्वोचिताहारा० भगवानाह - गौतम ! स्वविषयाण्याहारयन्ति नो अविषयाणि ।
यानि भदन्त ! स्वविषयाण्याहारयन्ति तानि भदन्त ! किमानुपूर्व्याऽऽहारयन्ति अनानुपूर्व्या ?, आनुपूर्वी नाम यथाऽऽ सन्नं, तद्विपरीताऽनानुपूर्वी, भगवानाह - गौतम ! आनुपूर्व्या, सूत्रे द्वितीया तृतीयार्थे वेदितव्या प्राकृतत्वात्, यथाऽऽचाराङ्गे "अगणि पुट्ठा" इत्यत्र, आहारयन्ति, नो अनानुपूर्व्या ऊर्ध्वमधस्तिर्यग्वा, यथाऽऽसन्नं नातिक्रम्याहारयन्तीति भावः । यानि भदन्त ! आनुपूर्व्याऽऽहारयन्ति तानि भदन्त ! किं 'तिदिसं' ति तिम्रो दिशः समाहृतास्त्रिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पञ्चदिशि षदिशि वा, इह लोकनिष्कुटपर्यन्ते जघन्यपदेऽपि [जीवावगाहक्षेत्रं] त्रिदिग्व्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा, अतनदिश्यारभ्य प्रश्नः कृतः, भगवानाह - गौतम ! 'निव्वाघाएणं छद्दिसि' मित्यादि, व्याघातो नामालोकाकाशे प्रतिस्खलनं व्याघातस्याभावो निर्व्याघातं ' शब्दप्रथादावव्ययं पूर्वपदार्थे नित्यमव्ययीभाव' इत्यव्ययीभावः 'तेन वा तृतीयाया' इति विकल्पेनाम्भावविघानात् पक्षेऽत्राम्भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org