SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० २७९ बुद्धा अन्यांश्च बोधयन्तीति बोधकास्तेभ्यः - -मुक्ताः कृतकृत्या निष्ठितार्थाइतिभावः, अन्यांश्चमोचयन्तीतिमोचकास्तेभ्यः, सर्वज्ञेभ्यः सर्वदर्शिभ्यः, शिवं-सर्वोपद्रवरहितत्वात् 'अचलं' स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात् 'अरुज' शरीरमनसोरभावेनाऽऽधिव्याध्यसम्भवात् अनन्तं-केवलात्मनाऽनन्तत्वात् ‘अक्षयं' विनाशकारणाभावात् 'अव्याबाधं' केनापि विबाधयितुमशक्यत्वात् न पुनरावृत्तिर्यस्मात्तदपुनरावृत्ति, सिध्यन्तिनिष्ठितार्थाः भवन्त्यस्यामिति सिद्धि-लोकान्तक्षेत्रलक्षणा सैवगम्यमानत्वाद् गति सिद्धिगतिर रितिनामगेयं यस्य तत्सिद्धिगतिनामधेयं, तिष्ठत्यस्मिन्नितिस्थानं-व्यवहारतः सिद्धक्षेत्रं निश्चयतो यथाऽवस्थितं स्वस्वरूपं, स्थानस्थानिनोरभेदोपचारात्तु सिद्धिगतिनामधेयं तत्संप्राप्तेभ्यः। ___ एवंप्रणिपातदण्डकं पठित्वा ‘वदइ नमंसई' इति वन्दते-ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति-पश्चात्प्रणिधानादियोगेनेत्येके, अन्ये त्वमिदधति-विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमे कायोत्सर्गासिद्धेरिति वन्दते सामान्येन, नमस्करोत्याशयवृद्धेरुत्थाननमस्कारेणेति, तत्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति, ततो वन्दित्वा नमस्यित्वा यत्रैव सिद्धायतनस्य बहुमध्यदेशभागस्तत्रैवोपागच्छति उपागत्य बहुमध्यदेशभागंदिव्ययोदकधारया अभ्युक्षति' अभिमुखंसिञ्चति,अभ्युक्ष्यसरसेनगोशीर्षचन्दनेन पञ्चाङ्गुलितलं ददाति, दत्वा कचग्राहगृहीतेन करतलप्रभ्रष्टविमुक्तेन दशार्द्धवर्णेन 'कुसुमेन' कुसुमजातेन पुष्पपुओपचारकलितं करोति कृत्वा धूपं ददाति, तद्वा च यत्रैव दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य लोमहस्तकं गृह्णाति, गृहीत्वा तेन द्वारशाखाशालभञ्जिनकाव्यालरूपकाणि च प्रमार्जयति, प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचर्चा पुष्पाधारोपणं धूपदानं करोति।ततो दक्षिणद्वारेण निर्गत्य यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य बहुमध्यदेशभागस्तत्रोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्य च बहुमध्यदेशभागं लोमहस्तकेन प्रमार्जयति, प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षणं सरसेन गोशीर्षचन्दनेन पञ्चाङ्गुलितलं मण्डलमालिखति, कचग्राहगृहीतेन करतलप्रभ्रष्टविमुक्तेन दशार्द्धवर्णेन कुसुमेन पुष्पपुञोपचारकलितं करोति, कृत्वाधूपंददाति, दत्वा च यत्रैवंदाक्षिणात्यस्यमुखमण्डपस्यपश्चिमं द्वारं तत्रोपागच्छति, उपागत्य लोमहस्तपरामर्शनं, तेन च लोमहस्तकेन द्वारशाखाशालभञ्जिकाव्यालरूपकप्रमार्जनं, उदकधारयाऽभ्युक्षमंगोशीर्षचन्दनचर्चा पुष्पाधारोपणंधूपदानं करोति, कृत्वायत्रैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरद्वारं तत्रोपागच्छति, उपागत्य पूर्ववद् द्वारार्चनिकां करोति, कृत्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पूर्वद्वारं तत्रोपागच्छति। ____-उपागत्य पूर्ववत्तत्राप्यचनिकां करोति, कृतवा च दाक्षिणात्यस्य मुखमण्डपस्य यत्रैव दाक्षिणात्यं द्वारंतत्रोपागच्छति, उपागत्य पूर्ववत्तत्र पूजां विधायतेन द्वारेण विनिर्गत्य यत्रैव दाक्षिणात्यः प्रेक्षागृहमण्डपो यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य बहुमध्यदेशभागो यत्रैव वज्रमयोऽक्षपाटको यत्रैव चमणिपीठिका यत्रैवच सिंहासनंतत्रैवोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्याक्षपाटकंमणिपीठिकां सिंहासनंचप्रमार्जयति, प्रमाज्योर्दकधारयाऽभ्युक्ष्य चन्दनचर्चा पुष्पपूजांधूपदानंच करोति, कृत्वा च यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्योत्तरद्वारं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy