SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २७८ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८० षष्ठी “छडिविभत्तीए भन्नइ चउत्थी"इति प्राकृतलक्षणात्, ते चार्हन्तो नामादिरूपा अपि सन्ति ततोभावार्हप्रतिपत्यर्थमाह-'भगवद्यः भगः-समग्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः आदिः-धर्मास्यप्रथमाप्रवृत्तिस्तत्करणंशीलाआदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति तीर्थं तत्करमशीलास्तीर्थकरास्तेभ्यः, स्वयं-अपरोपदेशेन सम्यग्वरबोधिप्राप्तया बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसंबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहाइवकर्मगजान् परतिपुरुषसिंहास्तेभ्यः, तथापुरुषावरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेनेति पुरुषवरपुण्डरीकाणि तेभ्यः, तथा पुरुषा वरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः। तथा लोको-भव्यसत्वलोकस्तस्य सकलकल्याणकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः तथा लोकस्य-भव्यलोकस्य नाथा-योगक्षेमकृतोलोकनाथास्तेभ्यः, तत्रयोगोबीजाधानोभेदपोषणकरणं क्षेमं तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्य पञ्चास्तिकायात्मकस्यवा हितोपदेशेन सम्यकप्ररूपणया वा हिता लोकहितास्तेभ्यः, तथा लोकस्यदेशनायोग्यस्य विशिष्टस्य प्रदीपा-देशनांशुभिर्यथाऽवस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमते व्यसत्वलोकस्य प्रद्योतनं प्रद्योतः प्रद्योतकत्वं-विशिष्टज्ञानशक्तिस्तत्करणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादात्तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसम्पत्समन्विता यद्वशाद् द्वादशाङ्गमारचयन्तीति तेभ्य,: __-तथाऽभयं-विशिष्टमात्मनःस्वास्थ्यंनिश्रेयसधर्मभूमिकानिबन्धनभूतापरमा धृतिरिति भावः, तद्अभयं ददतीत्यभयदास्तेभ्यः, सूत्रेचकप्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव चक्षु-विशिष्ट आत्मधर्मस्तत्वावबोधनिबन्धनं श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव तत्वदर्शनायोगात्, तद्ददातीति चक्षुर्दास्तेभ्यः, तता मार्गो-विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तंददतीतिमार्गदास्तेभ्यः,तथा शरणं-संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वसनस्थानकल्पं तत्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथाबोधि-जिनप्रणीतधर्मप्राप्तिस्तांतत्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपांददतीति बोधिदास्तेभ्यः।तथाधर्म-चारित्ररूपंददतीतिधर्मदास्तेभ्यः कथंधर्मदाः? इत्याह-धर्मंदिशन्तीति धर्मदेशकास्तेभ्यः, तथा धर्मस्य नायकाः-स्वामिनस्तद्वशीकरणात्तत्फलपरिभोगाच्च धर्मनायकास्तेभ्यः, धर्मस्य सारथयइवसम्यकप्रवर्तनयोगेन धर्मसारथयस्तेभ्यः, तथाधर्मएव वरं-प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं २ चक्रमिव चतुरन्तचक्र तेन वर्तितुं शीलं येषां ते धर्मवरचतुरन्तचक्रवर्तिनस्तेभ्यः, तथाऽप्रतिहते-अप्रतिस्खलिते क्षायिकत्वावरे-प्रधाने ज्ञानदर्शने धरन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, तथा छादयति-आवरयतीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तं-अपगतंछद्मयेभ्यस्ते व्यावृत्तछद्मानस्तेभ्यः, तथा रागद्वेषकषायेन्द्रियपरीष-होपसर्गघातिकर्मशत्रून् जितवन्तो जिनाः अन्यान्जापयन्तीति जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णवंस्वयंतीर्णा अन्यांश्च तारयन्तीति तीस्तारकास्तेभ्यः, तथा केवलवेदसा अवगततत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy