________________
२६५
प्रतिपत्तिः - ३/दीव० समभिज्ञाय ‘जेणेव ति यत्रैव विजयो देवस्तत्रैवोपागच्छन्ति, उपागम्य च 'करयलपरिग्गहिय'मित्यादि द्वयोर्हस्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः संपुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां करतलाभ्यांपरिगृहीता-निष्पादिता करतलपरिगृहीताताम्, आवर्तनमावत्तः शिरस्यावतॊयस्याः सा शिरस्यावर्ता, कण्ठेकालउरसिलोमेत्यादिवदलुकसमासः, तामत एव मस्तके कृत्वा जयेन विजयेन वर्धापयन्ति-जय त्वं देव ! विजय त्वं देव ! इत्येवं वर्धापयन्तीत्यर्थः, तत्र जयःपरैरनभिभूयमानता प्रतापवृद्धिश्च, विजयस्तु-परेषामसहमानानामभिमवोत्पादः,जयेन विजयेन च वर्धापयित्वा एवमवादिषुः- ‘एवं खलु देवाणुप्पियाण' मित्यादि पाठसिद्धम्
'तए ण' मित्यादि, 'ततः' एतदवचनान्तरं विजयो देवस्तेषां सामानिकपर्षदुपपत्रकानां-सामानिकानां पर्षदुपपन्नकानां च देवानामन्तिके एनमर्थं श्रुत्वा' आकर्ण्य 'निशम्य' हृदये परिणमय्य ‘हट्टतुट्टचित्तमाणदिए' इति हृष्टतुष्टोऽतीव तुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापनोयथा शोभनमहो! एतैरुपदिष्टमिति, 'तुष्टः' तोषंकृतवान्यथा भव्यमभूयदेतैरित्थमुपदिष्टमिति, तोषवशादेव चित्तमानन्दितं-स्फीतीभूतं 'टुणदु समृद्धो' इति वचनात्, यस्य स चित्तानन्दितः, भार्यादिदर्शनात्पाक्षितो निष्ठान्तस्य परनिपातःमकारःप्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वय २ मीलनेन कर्मधारयः, 'पीइमणे' इति प्रीतिर्मनसि यस्यासौ प्रीतिमना जिनप्रतिमाढर्चनविषयबहुमानपरायणमना इति भावः।
ततः क्रमेणबहुमानोत्कर्षवशात् परमसोमणस्सिए' इतिसोभनमनोयस्यासौसुमनास्तस्य भावः सौमनस्यं परमंच तत् सौमनस्यं च परमसौमनस्यंतत्संजातमस्मिन्निति परमसौमनस्थितः, एतदेव व्यक्तीकुर्वन्नाह-हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पद्-विस्तारयायि हृदयं यस्य सहर्षवशविसर्पद्भुदयः देवशयनीयादम्भुयत्तिष्ठति, अभ्युत्थायचदेवदूष्यं परिधत्ते, परिधाय च उपपातसभातः पूर्वद्वारेण निर्गच्छति, निर्गत्य च यत्रैव प्रदेशे हृदस्तत्रोपागच्छति, उपागत्य हृदमनुप्रदक्षिणीकृत्यपूर्वेणतोरणेन ह्रदमनुप्रविशति ।प्रविश्यचहृदेप्रत्यवरोहति, मध्ये प्रविशतीति भावः, प्रत्यवरुह्य च हृदमवगाहते, अवगाह्य जलमज्ज॑नं करोति, कृत्वा च क्षणमात्रंजलक्रीडां करोति, ततः 'आयते' इत नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेनाऽऽचान्तो-गृहीताचमनचोक्षः-स्वल्पस्यापिशङ्कितमलस्यापनयनात, अतएवपरमशुचिभूतोहदात प्रत्यत्तरति,प्रत्युतीर्य यत्रैव प्रदेशेऽभिषेकसभा तत्रैवोपागच्छति, उपागत्याभिषेकसभामनुप्रदक्षिणीकुर्वन् पूर्वद्वारेणाप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्रैव च मणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः। _ 'तएण'मित्यादि, ततस्तस्य विजयस्य देवस्य सामानिकाः पर्षदुपपन्नकाश्च देवाः 'आभियोगिकान्' अभियोजनमभियोगः,प्रेष्यकर्मणि व्यापार्यमाणत्वमितिभावः, अभियोगे नियुक्ता आभियोगिकास्तान्देवान् ‘शब्दायन्ते' आकारयन्ति, शब्दायित्वाचतानेवमवादिषुः-क्षिप्रमेव' शीघ्रमेव भोदेवानां प्रियाः! विजयस्य देवस्य 'महार्थं' महान् अर्थो-मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थस्तं महर्थं, तथा महान् अर्ध-पूजा यत्र स महाघस्तं, महं-उत्सवमर्हतीति महार्हस्तं 'विपुलं' विस्तीर्णं शक्रभिषेकवद् इन्द्राभिषेकमुपस्थापयत।
'तए णं ते' इत्यादि, ततस्ते आभियोगिका देवाः सामानिकपर्षदुपपन्नकैर्देवैरेवमुक्ताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org