________________
२६४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १७९
तुट्टा जाव हरिसवसविसप्पमाणहियया विजयाए रायहाणीए सव्वतो समंता आधावेति परिधावेति तए णं तं विजयं देवं चत्तारि सामानियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ जाव सोलसआयरक्खदेवसाहस्सीओ अन्ने य बहवे विजयरायहाणीवत्थव्वा वाणमंतरा देवा य देवीओ य तेहिं वरकमलपतिट्ठाणेहिं जाव अट्ठसतेणं सोवण्णियाणं कलसाणं तं चैव जाव अट्ठसएणं भोमेज्जाणं कलसाणं सव्वोदगेहिं सव्वमट्टियाहिं सव्वतुवरेहिं सव्वपुष्फेहिं जाव सव्वोसहिसिद्धत्थए हिं सव्विड्डीए जाव निग्घोसनाइयरवेणं महया २ इंदाभिसेएणं अभिसिंचंति २ पत्तेयं २ सिरसावत्तं अंजलिं कड्ड एवं वयासि
जय जय नंदा ! जय जय भद्दा ! जय नंद भद्दं ते अजियं जिनेहि जियं पालयाहि अजितं जिनेहि सत्तुपक्खं जितं पालेहि मित्तपक्खं जियमज्झे वसाहि तं देव! निरुवसग्गं इंदो इव देवाणं चंदो इव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुयाणं बहूणि पलिओवमाइं बहूणि सागरोवमाणि चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं विजयस्स देवस्स विजयाए रायहाणीए अन्नेसिं च बहूणं विजयरायहाणिवत्थव्वाणं वाणमंतराणं देवाणं देवीण य आहेवच्चं जाव आणाईसरसेणावच्चं कारेमाणे पालेमाणे विहराहितिकट्टु महता २ सद्देणं जयजयसद्दं पउंजंति ॥
वृ. 'तेणं कालेणं तेणं समएणं' इत्यादि, तस्मिन् काले तस्मिन् समये विजयो देव उपपातसभायां देवशयनीये देवदूष्यान्तरिते प्रथमतोऽङ्गुलासङ्घयेयभागमात्रयाऽवगाहनया समुत्पन्नः ॥ 'तएण 'मित्यादि, सुगमं नवरमिह भाषामनः पर्याप्तयोः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ' इत्युक्तम् ।
'तए 'मित्यादि, ततस्तस्य विजयस्य देवस्य पञ्चविधया पर्याप्तया पर्याप्तभां गतस्य सतोऽयम्-एतद्रूपः संकल्पः समुदपद्यत, कथम्भूतः ? इत्याह- 'मनोगतः' मनसि गतो - व्यवस्थितो नाद्यापि वचसा प्रकाशितस्वरूप इति भावः, पुनः कथम्भूतः ? इत्याह- 'आध्यात्मिकः' आत्मन्यधि अध्यात्मं तत्र भव आध्यात्मिक आत्मविषय इति भावः, सङ्कल्पश्च द्विधा भवति-कश्चिदध्यात्मिकोsपरश्च चिन्तात्मकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह- 'चिन्तितः ' चिन्ता संजातऽस्मिन्निति चिन्तित्तश्चिन्तात्मक इति भावः, सोऽपि कश्चिदभिलाषात्मको भवति कश्चिदन्यथा, तत्रायमभिलाषात्मकस्तथा चाह-प्रार्थनं प्रार्थो णिजन्तादच प्रार्थ संजातोऽस्मिन्निति प्रार्थितोऽभिलाषात्मक इति भावः, किंस्वरूपः ? इत्याह
'किं मे' इत्यादि, किं 'मे' मम पूर्वं करणीयं किं मे पश्चात्करणीयं, तथा किं मे पूर्वं कर्तु श्रेयः किं मे पश्चात्कर्त्तुं श्रेयः, तथा किं मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय-परिणामसुन्दरतायै सुखाय - शर्म्मणे क्षेमायेति अयमपि भावप्रधानो निर्देशः संगतत्वाय, निःश्रेयसाय-निश्चितकल्याणाय अनुगामिकतायै - परम्परया शुभानुबन्धसुखाय भविष्यतीति
'तए ण' मित्यादि, 'ततः ' एतच्चिन्तासमनन्तरमेव दिव्यानुभावतो विजयस्य देवस्य 'सामानियपरिसोववन्नगा देवा' इति सामानिकाः पर्षदुपपन्नकाश्च - अभ्यन्तरादिपर्षदुपगताः 'इमम्' अनन्तरोक्तम् 'एतद्रूपम्' अनन्तरोदितस्वरूपमाध्यात्मिकं चिन्तितं प्रार्थितं मनोगतं सङ्कल्पं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org