SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १७४ 'ते णं चेइयरुक्खा' इत्यादि, ते चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवङ्गछत्रोपगशिरीषसप्तपर्णदधिपर्णलोध्रधवचन्दननीपकुटजकदम्बपनसतालतमालप्रियालप्रियङ्गुपारापतरा जृक्षनन्दिवृक्षैः सर्वतः समन्तात्संपरिक्षिप्ताः ॥ ' तेणं तिलगा' इत्यादि, ते तिलका यावन्नन्दिवृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्राग्वत्तावद्वक्तव्यं यावदनेकशकटरथयानशिबिकास्यन्दमानिकाप्रतिमोचनासुरम्या इति ।। ‘ते णं तिलगा’ इत्यादि, ते तिलका यावन्नन्दिवृक्षा अन्याभिर्बहुभिः पद्मलताभिना - 'गलताभिरशोकतलताभिश्चम्पकलताभिश्चलताभिर्वनलताभिर्वासन्तिकालताभिरतिमुक्तकलताभि कुन्दलताभि श्यामलताभि सर्वतः समन्तात्संपरिक्षिप्ताः, 'ताओ णं पउमलयाओ जाव सामलयाओ निच्चं कुसुमियाओं' इत्यादिलतावर्णनं तावद्वक्तव्यं यावत् 'पडिरूवाओं' इति, व्याख्या चास्य पूर्ववत् । तथा ‘तेसि ण’मित्यादि, तेषां चैत्य वृक्षाणामुपरि अष्टावष्टौ मङ्गलानि बहवः, तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं प्रत्येकं मणि पीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्माम्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमय्यः, अच्छा इत्यादि प्राग्वत् ॥ 'तासि ण' मित्यादि तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं महेन्द्रध्वजः प्रज्ञप्तः, तेच महेन्द्रध्वजा 'अर्द्धाष्टमानि' सार्द्धानि सप्त योजनान्यर्द्धमुच्चैस्तेन, अद्धक्रोशं धनुः सहप्रमाणमुद्वेधेन, अर्द्धक्रोशं धनुः सहस्रप्रमाणं विष्कम्भेन विस्तारेण, “वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपइट्ठिया" इति वज्रमयावज्ररत्नमयाः तथा वृतं- वर्तुलं लष्टं मनोज्ञं संस्थितं-संस्थानं येषां ते वृत्त लष्ट संस्थिताः, सुश्लिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशानया पाषाण प्रतिमेव सुश्लिष्ट परिघृष्टाः मृष्टाः सुकुमारशानया पाषाणप्रतिमेव सुप्रतिष्ठिता मनागप्य चलनान्, 'अनेगवरपंचवण्ण कुडभी सहस्स परिमंडिया भिरामाः' अनेकैर्वरः - प्रधानैः पञ्च वणैः कुडभीस है: - लघुपताका सहैः परिमण्डिताः सन्तोभिरामा अनेकवरपञ्च वर्णकुऽभी सहस्र परिमण्डिताभिरामाः “वाउद्धुयविजयवेजयंती पडागा" छत्ताइछत्तकलिया तुंगा गगनतलमनुलिहंतसिहरा पासाईया जाव पडिवा" इति प्राग्वत् 'तेसिण’मित्यादि, तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत् सर्वं वक्तव्यं यावद्बहवः सहस्रपत्रकहस्तका इति ॥ 'तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येकं 'नन्दा' नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, 'अर्द्धत्रयोदश' सार्द्धानि द्वादश योजनानि आयामेन, षड् योजनानि सक्रोशानि विष्कम्भेन, दश योजनान्युद्वेधेन-उण्डत्वेन, 'अच्छासो सण्हाओ रययमयकूडाओ' इत्यादि वर्णनं जगत्युपरिपुष्करिणीवन्निरवशेषं वक्तव्यं यावत् 'पासाईयाओ उदगरसेणं पन्नत्ताओ' ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पद्मवरवेदिकया प्रत्येकं २ वनषण्डेन च परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां च वर्णनं तोरणवर्णनं च प्राग्वत् । २५२ 'सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्म्मायां षड् (मनो) गुलिकासहस्राणि प्रज्ञप्तानि, तद्यथा-द्वे सहस्रे पूर्वस्यां दिशि द्वे पश्चिमायामेकं सहस्रं दक्षिणस्यामेकमुत्तरस्यामिति, एतासु च फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् ॥ 'सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायां षड् गोमानसिकाः - शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि, तद्यथ- द्वे सहस्र पूर्वस्यां दिशि द्वे पश्चिमायामेकं दक्षिणस्यामेकमुत्तरस्यामिति, ताखपि फलकवर्णनं नागदन्तवर्णनं धूपघटिकावर्णनं च विजयद्वारवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy