________________
प्रतिपत्तिः-३, दीव०
२३१ चरत्नानि-कर्केतनादीनि येषां भक्तिभि-विच्छित्तिभिश्चित्रा-नानारूपाआश्चर्यवन्तोवानानाविधमणिरलभक्तिविचित्राः 'वाउद्धयविजयवेजयंतीपडागछत्तातिछत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः अभ्युदयस्तत्संसूचिका वैजयन्तीनामानो (नाम्न्यो) याः पताकाः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तप्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्भूतविजयवैयन्तीपताकाछत्रातिच्छत्रकलिताः 'तुङ्गाः' उच्चा उच्चैस्त्वेन चतुर्योजनप्रमाणत्वात्
अत एव 'गगनतलमणुलिहन्तसिहरा' इति, गगनतलम्-अम्बरम् अनुलिखन्तिअभिलक्ष्यन्ति शिखराणि येषां ते गगनतलानुलिखच्छिखराः, तथा जालानि-जालकानि यानि भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररलाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, तथा पञ्जराद् उन्मीलिता इव-बहिष्कृता इव, यथा हि किल किमपि वस्तु वशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तविनष्टच्छायं भवति एवं तेऽपि प्रासादावतंसका इतिभावः, तथा मणिकनकानि-मणिकनकमय्यःस्तृपिकाः-शिखराणियेषां तेमणिकनकस्तूपिकाः, तथा विकसितानि यानिशतपत्राणि पुण्डरीकाणिच द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि भित्यादिषु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिषु तैश्चित्रा-नानारूपा आश्चर्यभूता विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्राः अन्तर्बहिश्च 'श्लक्ष्णाः' मसृणाः, तथा तपनीयंसुवर्ण विशेष स्तन्मय्या वालुकायाः प्रस्तटं-प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत्। तेसिण'मित्यादि, तेषांचप्रासादावतंसकानाम् ‘उल्लोकाः' उपरितनभागाः पद्मलता-भक्तिचित्रा अशोकलताभक्तिचित्राश्चम्पकलताभक्तिचित्रातलताभक्तिचित्रा वनलता- भक्तिचित्रा वासन्तिकलताभक्तिचित्राः सर्वात्मना तपनीयमयाः ‘अच्छा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् 'तेसि णमित्यादि, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, ‘से जहा नामए आलिंगपुक्खरे इ वा' इत्यादि समस्तं भूमिवर्णनं मणीनां वर्णपञ्चकसुर-भिगन्धशुभस्पर्शवर्णनं प्राग्वत्।
तेसि ण'मित्यादि, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानामयमेतद्रूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-रजतमयाः सिंहा तैरुपशोभितानि सिंहासनानि ‘सौवर्णिकाः' सुवर्णमयाः पादाः तपनीयमयानि चक्कलानि-पादानामधःप्रदेशाः भवन्ति [मुक्तानानामणिमयानि पादानामधःप्रदेशाः] प्रयुक्ता, नानामणिमयानि पादशीर्षकाणि' पादानामुपरितनाअवयवविशेषा जाम्बूनदमयानि गात्राणि ईषदच्छाः 'वज्रमयाः वज्रलापूरिताः ‘सन्धयः' गात्राणां सन्धिमेला नानामणिमयं 'वेचं वयूतं वानमित्यर्थ, आह च चूर्णिकृत
___ "वेच्चे वाणक्कतेण"मित्यादि, तानिचसिंहासनानि ईहामृगऋषभतुरगनरमकरव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्राणि 'ससारसारोवचियविविहमणिरयमपादपीढा' इति, सारसारैः-प्रधानप्रधानैर्विविधैर्मणिरत्नैरुपचितैः पादीठैः सह यानि तानि तथा, प्राकृतत्वाच्च उपचितशब्दस्यान्तरुपन्यासः, 'अच्छरमउयमसूरगनवतयकुसन्तलित्तकेसरपञ्चत्थुयाभिरामा' इति, आस्तरक-आच्छादनं मृदु येषां मसूरकाणां तानि आस्तरकमृदूनि, विशेषणस्य परनिपातः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org