SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० १९९ एका पद्मवरवेदिका प्रज्ञप्ता मया शेषैश्च तीर्थकृभिः, सा चोर्ध्वमुच्चैस्त्वेनार्द्धयोजनं-द्वे गव्यूते पञ्च धनुःशतानि विष्कम्भेन 'जगतीसमिया' इति जगत्याः समा-समाना जगतीसमा सैव जगतीसमिका ‘परिक्षेपेण परिरयेणयावान् जगत्या मध्यभागेपरिरयस्तावान् तस्या अपि परिरय इति भावः, “सर्वरत्नमयी' सामस्त्येन रत्नात्मिका 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं पाठतोऽर्थतश्च प्राग्वत्। तीसे णमित्यादि, तस्या णमिति पूर्ववत् पद्मवरवेदिकायाः 'अयं वक्ष्यमाणः ‘एतद्रूपः' एवंस्वरूपः वर्णावासः' वर्ण-श्लाघा यथावस्थितस्वरूपकीर्तनंतस्यावासो-निवासो ग्रन्थपद्धतिरूपोवर्णावासोवर्णकनिवेशइत्यर्थः 'प्रज्ञप्तः' प्रवपितः,तद्यथेत्यादिनातदेवदर्शयति-'वइरामया नेमा' इति नेमा नाम पद्मवरवेदिकाया भूमिभागादूर्द्ध निष्कामन्तः प्रदेशास्ते सर्वे 'वज्रमयाः' वज्ररत्नमयाः, वज्रशब्दस्यदीर्घत्वं प्राकृतत्वात्, एवमन्यत्रापि द्रष्टव्यं, रिष्ठमयानि प्रतिष्ठानानिमूलपादाः वेरुलियमयाखंभा' इतिवैडूर्यरत्नमयाः स्तम्भाः सुवर्णरूप्यमयानिफलकानि लोहिताक्षरलामिकाः सूचयः फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयास्ते सर्वे 'वइरामया संधी' वज्रमयाः सन्धयः-सन्धिमेलाः फलकानां, किमुक्तं भवति? वज्ररत्नापूरिताः फलकानां सन्धयः 'नानामणिमया कलेवरा' इति नानामणिमयानि कलेवराणि-मनुष्यशरीराणि नानामणिमयाः कलेवरसङ्घाटा-मनुष्यशरीरयुग्मानिनानामणिमयानि रूपाणि-रूपकाणिनानामणिमया रूपसङ्घाटाः-रूपयुग्मानि ‘अङ्कामयापक्खा पक्खबाहातो य' इति अङ्को-रलविशेषस्तन्मयाः पक्षास्तदेकदेशाः पक्षबाहवोऽपितदेकदेशभूता एवाङ्कमयाः, आह च मूलटीकाकारः- "अङ्कमयाः पक्षास्तदेकदेशभूताः, एवं पक्षबाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वंसावंसकवेल्लुया य' इति ज्योतीरसं नाम रत्नं तन्मया वंशाः-महान्तः पृष्ठवंशाः 'वंशकवेल्लुयाय' इति महतांपृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमानावंशाः कवेल्लुकानि-प्रतीतानि 'रययामईओपट्टियाओ' इति रजतमय्यः पट्टिका वंशानामुपरि कम्बास्थानीयाः ‘जायरूवमईओ ओहाडणीओ' जातरूपं-सुवर्णविशेषस्तन्मय्यः ‘ओहाडणीओ' अवघाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमान-महाप्रमाणकिलिञ्चस्थानीयाः, 'वइरामईओउवरिपुंछणीओ इति वज्रमय्यो' वज्ररत्नात्मिका अवघाटनीनामुपरिपुञ्छन्यः-निबिडतरच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः, उक्तं च मूलटीकाकारेण___ “ओहाडणी हीरग्गहणं महत् क्षुल्लकंतु पुञ्छनी इति, 'सव्वसेए रययामए सा णं छाणे' इति, सर्वश्वेतं रजतमयं पुञ्छनीनामुपरिकवेल्लुकानामधआच्छादनम् ।। 'साण'मित्यादि, 'सा' एवंस्वरूपा णमिति वाक्यालङ्कारे पद्मवरवेदिका तत्र तत्र प्रदेसे एकैकेन 'हेमजालेन' सर्वात्मना हेममयेन लम्बमानेन दामसमूहेन एकैकेन ‘गवाक्षजालेन' गवाक्षाकृतिरत्नविशेषदामसमूहेन एकैकेन 'किङ्किणीजालेन' किङ्किण्यः-क्षुद्रघण्टिकाः एकैकेन घण्टाजालेन, किङ्किण्यपेक्षया किञ्चिन्महत्यो घण्टा घण्टाः, तथा एकैकेन 'मुक्ताजालेन' मुक्ताफलमयेन दामसमूहेन एकैकेन 'मणिजालेन' मणिमयेन दामसमूहेन एकैकेन 'कनकजालेन' कनकंपीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन 'मणिजालेन' मणिमयेन दामसमूहेन एकैकेन ‘कनकजालेन' कनकंपीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन रत्नजालेन एकैकेन रत्नजालेन एकैकेन (वर) पद्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy