SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८३ प्रतिपत्तिः-३, दे० पर्षदिकति देवसहस्राणिप्रज्ञप्तानि?, भगवानाहगौतम! चमरस्यासुरेन्द्रस्यासुरकुमार-राजस्याभ्यन्तरिकायां पर्षदि चतुर्विंशतिर्देवसहस्राणि प्रज्ञप्तानि, मध्यमिकायामष्टाविंशति-र्देवसहस्राणि, बाह्यायां द्वात्रिंशद्देवसहस्राणिप्रज्ञप्तानि। 'चमरस्सणंभंते' ! इत्यादि, चमरस्यभदन्त! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि? मध्यमिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ? बाह्यायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! अभ्यन्तरिकायांपर्षदिअर्द्धतृतीयानिदेवीशतानिप्रज्ञप्तानि, मध्यमिकायांपर्षदित्रीणि देवीशतानि प्रज्ञप्तानि, बाह्यायां पर्षदि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि । ___ 'चमरस्सणंभंते!' इत्यादि, चमरस्य भदन्त! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि देवानां कियन्तं कालं स्थिति प्रज्ञप्ता? मध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थिति प्रज्ञप्ता?, एवं बाह्यपर्षद्विषयमपि प्रश्नसूत्रंवक्तव्यं, तथाऽभ्यन्तरिकायांपर्षदिदेवीनां कियन्तं कालं स्थिति प्रज्ञप्ता?, एवं मध्यमिकाबाह्यपर्षद्विषये अपि प्रश्नसूत्रे वक्तव्ये, भगवानाह-गौ० चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायांपर्षदिदेवानामर्द्धतृतीयानि पल्योपमानि स्थिति प्रज्ञप्ता, मध्यमिकायां पर्षदि देवानां द्वे पल्योपमे स्थिति प्रज्ञप्ता, बाह्यायां पर्षदि देवानां द्वयर्द्ध पल्योपमं स्थिति प्रज्ञप्ता, तथाऽभ्यन्तरिकायां पर्षदि देवीनां द्वयर्द्धपल्योपमं स्थिति प्रज्ञप्ता, मध्यमिकायां प० पल्योपमं स्थिति, प्रज्ञप्ता, बाह्यायां प० अद्धपल्योपमं स्थिति प्रज्ञप्ता, इह भूयान्वाचनाभेदइत यथाऽवस्थितसूत्रे पाठनिर्णयार्थंसुगममपि सूत्रमक्षरसंस्कारमात्रेण विव्रियते सम्प्रत्यभ्यन्तरिकादिव्यपदेशकारणं पिपृच्छिषुरिदमाह-‘से केणटेण'मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते? चमरस्य असुरकुमारराजस्य तिम्रः पर्षदः प्रज्ञप्ताः, तद्यथा समिता चण्डाजाता, अभ्यन्तरा समितामध्यमिका चण्डा बाह्याजाता भगवानाह-गौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरपर्षत्का देवाः 'वाहिता' आहूताः 'हव्वं' शीघ्रमागच्छन्तिनो 'अव्वाहिता' अनाहूताः, अनेन गौरवमाह, मध्यमपर्षद्गा देवाआहूता अपिशीघ्रमागच्छन्ति अनाहूताअपि, मध्यमप्रतिपत्तिविषयत्वात्, बाहयपर्षद्गा देवाअनाहूताःशीग्रमागच्छन्ति, तेषामाकारणलक्षणगौरवानर्हत्वात्, ‘अदुत्तरं च ण'मित्यादि, ‘अथोत्तरम्' अथान्यद् अभ्यन्तरत्वादिविषये कारणं गौतम ! चमरोऽसुरेन्द्रोऽसुरकुमारराजोऽन्यतरेषु ‘उच्चावचेषु' शोभनासोभनेषु ‘कजकोडंबेसु' इति कौटुम्बिकेषु कार्येषु कुटुम्बे भवानि कौटुम्बानि स्वराष्ट्रविषयाणीत्यर्थ तेषु कार्येषु समुत्पन्नेषु अभ्यन्तरिकया पर्षदा सार्द्ध संमतिसंप्रश्नबहुलश्चापि विहरति। सन्मत्याउत्तमयामत्या यः संप्रश्नः-पर्यालोचनंतद्वहुलश्चापि विहरति आस्ते, स्वल्पमपि प्रयोजनंप्रथमतस्तयासह पालोच्य विदघातीतिभावः, मध्यमिकयापर्षदा सार्द्धयदभ्यन्तरिकया पर्षदा सहपर्यालोच्य कर्त्तव्यतया निश्चितं पदं 'तप्रपञ्चयन् विहरति एवमिदमस्माभिपर्यालोचितमिदं कर्त्तव्यमन्यथा दोष इति विस्तारयन्नास्ते, बाह्यया पर्षदा सह यदभ्यन्तरिकया पर्षदा सह पर्यालोचितं मध्यमिकया सह गुणदोषप्रपञ्चकथनतो विस्तारितं पदं तत् । 'प्रचण्डयन्प्रचण्डयन् विहरति' आज्ञाप्रधानः सन्नवश्यं कर्तव्यतया निरूपयन् तिष्ठति, यथेदं युष्माभि कर्तव्यमिदं न कर्त्तव्यमिति, तदेवं या एकान्ते गौरवमेव केवलमर्हति यया च सहोत्तममतित्वात्स्वल्पमपि कार्यं प्रथमतः पर्यालोचयति सा गौरवविषये पर्यालोचनायां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy