________________
प्रतिपत्तिः - ३, ०
तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा उपचिता - निवेशिताः चन्दनकलशामङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि, 'चंदणघडसुकयोतोरणपडिदुवारदेसभागा' इतिचन्दनघटैः–चनद्नकलशैः सुकृतानि शोभितानीति तात्पर्यार्थ यानि तोरणानितानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागं -द्वारदेशभागे येषु तानि चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि । तथा ‘आसत्तोसत्तविपुलवट्टवग्घारियमल्लदामकलावा' इति आ - अवाङ् अधोभूमौ सक्त - आसक्तो भूमौ लग्न इत्यर्थ ऊर्ध्वं सक्त उत्सक्तः उल्लोचतले उपरि संबद्ध इत्यर्थ विपुलोविस्तीर्णो वृत्तो-वर्तुलः ‘वग्घारिय' इति प्रलम्बितो माल्यदामकलापः - पुष्पमालासमूहो येषु तानि आसक्तोत्सक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणासुरभिगन्धेन मुक्तेन - क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण - पूजया कलितानि पञ्चवर्णसुरभिमुक्तपुष्पपुञ्जपचारकलितानि, तथा कालागुरु- प्रसिद्धः प्रवरः - प्रधानः कुन्दुरुष्कः - चीडा तुरुष्कं - सिल्हकं कालागुरुश्च प्रवरकुन्दुरुष्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्कामि तेषां धूपस्य यो मधमधायमानो गन्ध उद्भूत - इतस्ततो विप्रसृतस्तेनाभिरामाणि - रमणीयानि कालागुरुप्रवरुकन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धताभिरामाणि ।
तथा शोभनो गन्धो येषां ते सुगन्धाः ते च ते वरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषां गन्धः स एष्वस्तीति सुगन्धवरगन्धगन्धिकानि 'अतोऽनेकस्वरा' दितीकप्रत्ययः, अत एव गन्धवर्त्तिभूतानि, सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथाऽप्सरोगणानां सङ्घः समुदायस्तेन सम्यग् - रमणीयतया विकीर्णानि व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानामातोद्यानां - वेणुवीणामृदङ्गानां ये शब्दास्तैः संप्रणदितानि - सम्यक श्रोत्रमनोहारितया प्रकर्षेण सर्वकालं नदितानि - शब्दवन्ति दिव्यत्रुटितशब्दसंप्रणदितानि सर्वरत्नमयानि - सर्वात्मना सामस्त्येन रत्नमयानि न त्वेकदेशेन सर्वरत्नमयानि - समस्तरत्नमयानि ।
१७७
- अच्छानि - आकाशस्फटिकवदतिस्वच्छानि श्लक्ष्णानि श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्णदलनिष्पन्नपटवत् लण्हानि-मसृणानि घुण्टितपटवत् 'घट्ठा' इति घृष्ठानीव घृष्टानि खरशानया पाषाणप्रतिमावत्, 'मट्ठा' इति मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमावदेव, अत एव नीरजांसि स्वाभाविकरजोरहितत्वात् 'निर्मलानि' आगन्तुकमलासम्भवात् 'निष्पङ्कानि' कलङ्कविकलानि कर्दमरहितानि वा 'निक्ककच्छाया' इति निष्कङ्कटा - निष्कवचा निरावरणा निरुपघातेति भावार्थ छाया - दीप्तिर्येषां तानि निष्कङकटच्छायानि 'सप्रभाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि ' बहिर्विनिर्गतकिरणजालानि 'सोद्दयोतानि' बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि 'प्रासादीयानि ' प्रसादाय-मनः प्रसत्तये हितानि मनःप्रसत्तिकारीणीति भावः, तथा 'दर्शनीयानि' दर्शनयोग्यानि यानि पश्यतश्चक्षुषी न श्रमं गच्छत इति भावः, ‘अभिरूवा' इति अभि-सर्वेषां द्रष्टणां मनः प्रसादानुकूलतयाऽभिमुखं रूपं येषां तानि अभिरूपाणि- अत्यन्कमनीयानीत्यर्थः अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवमिव रूपं येषां तानि प्रतिरूपाणि । तदेवं भवनस्वरूपमुक्तमिदानीं यत्पृष्टं 'क भदन्त !' भवनवासिनो देवाः परिवसन्ती' ति तत्रोत्तरमाह - 'तत्थ णं बहवे भवणवासी देवा परिवसंति असुरा नागा भेदो भाणियव्वो जाव
9 12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org