SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७६ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दे०/१५४ भागा जंतसयग्घिमुसलमुसंडिपरिवारिया अजोज्झा सयाजया सयागुत्ता अडयालकोट्टरइया अडयालकयवणमाला खेमा सिवा किंकरअमरदंडोवरक्खियालाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्घारियमल्लादमकलावा पंचवण्णसरसमुक्कपुष्फपुंजोवयराकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कघूमवघमघेत गंधुद्धयाभिरामा सुगन्धवरगंधगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणदिया सव्वरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्ककडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरसणिज्जा अभिरूवा पडिरूवा" इति, अस्य व्याख्या-उत्कीर्णमिव उत्कीर्ण अतीव व्यक्तमिति भावः, उत्कीर्णमन्तरं यासां खातपरिखानां ता उत्कीर्णान्तराः किमुक्तं भवति? । खातानां परिखाणांच स्पष्टवैविक्त्योन्मीलनार्थमपान्तराले महती पाली समस्तीति, खातानि चपरिखाश्चखातपरिखाः उत्कीर्णान्तरा विपुलाविस्तीर्णागम्भीरा-अलब्धमध्यभागाः खातपरिखा येषां भवनानां परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखाणां चायं प्रतिविशेषः-परिखा उपरि विशालऽघः सङ्कुचिता, खातं तूभयत्रापि सममिति, 'पागारट्टालककवाडपडिदुवारदेसभागा' इति प्रतिभवनं प्राकारेषु अट्टालककपाटतोरणप्रतिद्वाराणिअट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा-देशविशेषा येषु तानि प्राकाराट्टालककपाटतोरणप्रतिद्वारदेशभागानि, तत्राट्टालकाः-प्राकारस्योपरिभृत्याश्रयविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिता अन्यथा कपाटानामसम्भवात, तोरणानि-प्रतीतानि, तानि च प्रतोलीद्वारेषु, ग्रतिद्वाराणि-मूलद्वारापान्तरालवर्तीनि लघुद्वाराणि। तथा 'जंतसयग्घिमुसलमुसंढिपरिवारिया' इति यन्त्राणि-नानाप्रकाराणि शतघ्नोमहायष्टयो महाशिला वा याः पातिताः सत्यः पुरुषाणां शतानि घ्नन्ति मुशलानि-प्रतीतानि मुषण्ढयः-शस्त्रविशेषास्तैः परिवारितानि-समन्ततो वेष्टितानि अत एवायोध्यानिपरैर्योद्धुमशक्यानि अयोध्यत्वादेव ‘सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि सर्वकालं जयवन्तीति भावः, तथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धृभिःसर्वतःसमन्ततोनिरन्तरंपरिवारिततया परेषामसहमानानांमनागपिप्रवेशासम्भवात् अडयालकोट्टरइया' इति अष्टाचत्वारिंशभेदभिन्नविच्छित्तिकलिताः कोष्ठका अपवरका रचिताः स्वयमेव रचनां प्राप्ता येषु तान्यष्टाचत्वारिंशत्कोष्ठकरचितानि, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, तथाऽष्टाचत्वारिंशभेदमिन्नविच्छित्तयः कृता वनमाला येषु तानि अष्टचत्वारिंशत्कुतवनमालानि, अन्ये त्वभिदधति-अडयालशब्दो देशीवचनात् प्रशंसावाची, ततोऽयमर्थः 'प्रशस्तकोष्टकरचितानिप्रशसतकृतवनमालानीति तथा क्षेमाणि' परकृतोपद्रवरहितानि, 'शिवानि' सदा मङ्गलोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वा उपरक्षितानिसर्वतः समन्ततो रक्षितानि किङ्करामरदम्डोपरक्षितानि, ‘लाउल्लोइयमहिया' इति लाइयं नाम यद्भमेर्गोमयादिना उपलेपनम् ‘उल्लोइयं कुडयानांमालस्य सेटिकादिभि संमृष्टीकरणंलाइयोल्लोइयाभ्यां महितानि-पूजितानि लाइयोल्लोइयमहितानि, तथा गोशीर्षेण-गोशीर्षनामकेन चन्दनेन सरसरक्तचन्दनेन च ददरेण-बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका येषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy