________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ /म० / १४८
योजनशतानि सप्तनवतानि - सप्तनवत्यधिकानि । तेष्वपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु 'आसकण्णाणं’ति अश्वकर्णप्रमुखाणां पञ्चानां चतुर्णां द्वीपानां परिक्षेपो भवति, तद्यथाद्वाविंसतियोजनशतानि त्रयोदशानि - त्रयोदशाधिकानि । ततो भूयऽपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु 'उल्कामुखपरिरयः' उल्कामुखषष्ठद्वीपचतुष्कपरिरयपरिमाणं भवति, तद्यथा - पञ्चविंशतियोजनशतानि एकोनत्रिंशानि - एकोनत्रिंशदधिकानि ।
१७४
ततः पुनरपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु 'घनदन्तद्वीपस्य' (पानां) घनदन्तप्रमुखसप्तमद्वीपचतुष्कस्य परिक्षेपः, तद्यथा - द्वे सहस्र अष्टौ शतानि पञ्चचत्वारिंशानि - पञ्चचत्वारिंशदधिकानि 'विसेसमहिओ' इति किञ्चिद्विशेषाधिकः अधिकृतः परिक्षेपः, पञ्चचत्वारिंशानि किञ्चिद्विशेषाधिकानीति भावार्थ, इदंच पदमन्तेऽभिहितत्वात्सर्वत्राप्यभिसम्बन्धनीयं तेन सर्वत्रापि किञ्चिद्विशेषाधिकमुक्तरूपं परिरयपरिमाणमवसातव्यं ।
तदेवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसङ्ख्ययाऽष्टाविंशति, एवं हिमवत्तुल्यवर्णप्रमाणपद्मह्रदप्रमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु एकोरुकादिनामानोऽक्षूणापान्तरालायमविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा वेदितव्याः, तथा चाह
मू. (१४९)
जस्सय जो विक्खंभो उग्गहो तस्स तत्तिओ चेव । पढमाइयाण परिरतो जाण सेसाण अहिओ उ ।।
मू. (१५०) सेसा जहा एगुरूयदीवस्स जाव सुद्धदंतदीवे देवलोकपरिग्गहा णं ते मणुयगणा पन्नत्ता समणाउसो ! । कहि णं भंते! उत्तरिल्लाणं एगुरूयमणुस्साणं एगुरूयदीवे नामं दीवे प० ?, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासधरपव्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुद्दं तिन्नि जोयणसताइं ओगाहित्ता एवं जहा दाहिणिल्लाण तहा उत्तरिल्लाण भाणितव्वं, नवरं सिहरिस्स वासहरपव्वयस्स विदिसासु, एवं जाव सुद्धदंतदीवेत्ति जाव सेत्तं अंतरदीवका ॥
“कहि णं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पन्नत्ते ? गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ लवणसमुद्द तिन्नि जोयणसयाई ओगाहित्ता तत्थ णं उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पण्णत्ते" इत्यादि सर्वं तदेव, नवरमुत्तरेण विभाषा कर्त्तव्या, सर्वसङ्ख्यया षड्पञ्चाशदन्तरद्वीपाः, उपसंहारमाह- 'सेत्तमंतरदीवगा' ते एतोऽन्तरद्वीपकाः
मू. (१५१) से किं तं अकम्मभूमगमणुस्सा ?, २ तीसविधा पन्नत्ता, तंजहा - पंचहिं हेमवएहिं, एवं जहा पन्नवणापदे जाव पंचहिं उत्तरकुरूहिं, सेत्तं अकम्मभूमगा ।
से किं तं कम्मभूमगा ?, २ पन्नरसविधा पन्नत्ता, तंजहा - पंचहिं भरहेहिं पंचहिं एरवएहिं पंचहिं महाविदेहेहिं, ते समासतो दुविहा पन्नत्ता, तंजहा-आयरिया मिलेच्छा, एवं जहा पन्नवणापदे जाब सेत्तं आयरिया, सेत्तं गब्भवकंतिया, सेत्तं मणुस्सा ॥
वृ. अकर्म्मभूमकाः कर्म्मभूमकाश्च यता प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे तथैव वक्तव्या यावत् ‘सेत्तं चरित्तारिया सेत्तं मणुस्सा' इति पदम्, इह तु ग्रनथगौरवभयान्न लिख्यत इति, उप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org