________________
प्रतिपत्तिः -३, नै०-उद्देशकः २
१२३ एश्वर्यमित्यर्थ, ईशंएश्वर्ये' इति वचनात्, ततईशम्-एश्वर्यमात्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयतिईशाख्यः, महांश्चासावीशाख्यश्चमहेशाख्यः, कचित् ‘महासोक्खे' इति पाठः, तत्रमहत् सौख्यंयस्य प्रभूतसवेदोदयवशात्स महासौख्यः, अन्ये पठन्ति-महासक्खे' इतितत्रायं शब्दसंस्कारो-महाश्वाक्षः, इयंचात्र पूर्वाचार्यप्रदर्शिता यस्यासौ महाश्वाक्षः, तथा 'महानुभागे' इति अनुभागो-विशिष्टवैक्रियादिकरणविषयाऽचिन्त्याशक्ति भागोऽचिंता सत्ती' इति वचनात्, महान् अनुभागोयस्य स महानुभागः,अमूनिमहर्द्धिक इत्यादीनि विशेषणानितत्सामर्थ्यातिशतयप्रतिपादकानि यावदिति चप्पुटिकात्रयकरणकालावधिप्रदर्शनपरम्। _ 'इणामेवइणामेवेतिकट्ठ' एवमेव मुधिकया एवमेव मोरकुल्ला मुहायमुहियत्ति नायव्वा' इति वचनाद्अवज्ञयेतिभावः, उक्तञ्चमूलटीकायाम् “इणामेवइणामेवेतिकट्ठएवमेव मुधिकयाऽवज्ञयेति" 'इतिकृत्वे ति हस्तदर्शितचप्पुटिकात्रयकरणसूचकं केवलकल्पं-परिपूर्ण जम्बूद्वीपं त्रिभिरप्सरोनिपातैः, अप्सरोनिपातोनाम चप्पुटिका, तत्र तिसृभिश्चप्पुटिकाभिरितिद्रष्टव्यं, चप्पुटिकाश्च कालोपलक्षणं, ततो यावता कालेन तिम्रश्चप्पुटिकाः पूर्यन्ते तावत्कालमध्य इत्यर्थ, त्रिसप्तकृत्वः-एकविंशतिवारान् अनुपरिवर्त्य-सामस्त्येन परिभ्रम्य 'हव्वं' शीघ्रमागच्छेत् ।
स इत्थम्भूतगमनशक्तियोग्यो देवः तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिनामोदयाप्रशस्तया शीघ्रसंचरणात्वरितयात्वरा संजाताऽस्यामितित्वरिता तया त्वरितया शीघ्रतरमेव तया प्रदेशान्तराक्रमणमिति, चपलेव चपला तया, क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेवचण्डा तया, निरन्तरं शीग्रत्वगुणयोगात्शीघ्रा तयाशीघ्रया, परमोत्कृष्टवेगपरिणामोपेता जवना तया, अन्ये तु जितया विपक्षजेतृत्वेनेति व्याचक्षते, 'छेकया' निपुणया, वातोद्भूतस्य दिगन्तव्यापिनो रजस इवया गति सा उद्धृता तया, अन्ये त्वाहुः-उद्धतया दतिशयेनेति ।
'दिव्यया' दिवि-देवलोके भवा दिव्या तया देवगत्या व्यतिव्रजन् जघन्यतः 'एकाहं वा' एकमहर्यावत्, एवंद्वयहं त्र्यहमुत्कर्षतः षण्मासान्यावद्व्यतिव्रजेत्, तत्रास्त्येतद्यदुत्एककान् कांश्चन नरकान् ‘व्यतिव्रजेत्' उल्लङ्घय परतो गच्छेत्, तथाऽस्त्येतद् यदुत् इत्थंभूतयापि गत्या षण्मासानपि यावनिरन्तरं गच्छन् एककान् कांश्चन् नरकान् ‘न सव्यतिव्रजेत्' नोल्लङ्घय परतो गच्छेत, अतिप्रभूताऽऽयामतया तेषामन्तस्य प्राप्तुमशक्यत्वात्, एतावन्तो महान्तो गौतम ! अस्यां रत्नप्रभायां पृथिव्यां नरकाः प्रज्ञप्ताः, एवमेकैकस्यांपृथिव्यांतावद्वक्तव्यं यावदधःसप्तम्यां, नवरमधःसप्तम्यामेवं वक्तव्यम्-“अत्यंगइयं नरगंवीइवएजाअत्थेगइए नरगेनो वीइवएज्जा" अप्रतिष्ठानाभिधस्यैकस्य नरकस्य लक्षयोजनायामविष्कम्भतयाऽन्तस्य प्राप्तुं शक्यत्वात् शेषाणां च चतुर्णामतिप्रभूतासङ्ख्येययोजनकोटीकोटीप्रमाणत्वेनान्तस्य प्राप्तुमशक्यत्वात् ।
सम्प्रति किंमया नरका इति निरूपणार्थमाह
मू. (९९) इमीसे णं भंते ! रयणप्पभाए पुढवीए नरगा किंमया पन्नत्ता ?, गोयमा ! सव्ववइरामया पन्नत्ता, तत्थ णं नरएसुबहवे जीवा य पोग्गला य अवक्कमति विउक्कमति चयंति उववजंति, सासताणं ते नरगा दबट्टयाए वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपञ्जवेहिं असासया, एवं जाव अहेसत्तमाए॥
वृ. 'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः 'किमयाः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org