________________
प्रतिपत्तिः -३, नै०-उद्देशकः २
_१२१
परमकृष्णाः प्रज्ञप्ताः, यत ऊर्ध्वं न किमपि भयानकं कृष्णमस्तीति भावः, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तम्याम् ।
गन्धमधिकृत्याह-'इमीसेणंभंते!' इत्यादि, प्रश्नसूत्रंसुगम, भगवानाह-गौतम! तद्यथा नाम-'अहिमृत इतिवा' अहिमृतोनाममृताहिदेहः, एवं सर्वत्र भावनीयं, गोमृत इतिवाअश्वमृत इति वा मारिमृत इति वा हस्तिमृत इति वा सिंहमृत इति वा व्याघ्रमृत इति वा द्वीपः-चित्रकः, सर्वत्र अहिश्चासौ मृतश्च अहिमृत इत्येवं विशेषणसमासः, इह मृतकं सद्यःसंपन्नं न विगन्धि भवति ततआह-'मयकुहियविणट्ठकुणिमवावण्णे'त्यादि, मृतः सन् कुथितः-पूतिभावमुपगतो मृतकुथितः, स वोच्छूनावस्थामात्रगतोऽपि भवति, न च स तथा विगन्धस्तत आह-विनष्ट:उच्छूनावस्थां प्राप्य स्फुटित इति भावः, सोऽपि तथा दुरभिगन्धो न भवति तत आह_'कुणिमवावण्ण'त्ति व्यापन्नं-विशरारुभूतं कुणिमं-मांसं यस्य स तथा, ततो विशेषणसमासः, 'दुरभिगन्धः' इति दुरभि-सर्वेषामभिमुख्येन दुष्टो गन्धो यस्यासौदुरभिगन्धः, अशुचिश्च विलीनो-मनसः कलिमलपरिणामहेतुः “विगय' इति विगतं प्रनष्टं यदभिमुखतया प्राणिनां गतं-गमनं यस्मिन्, तथा बीभत्सया-निन्दया दर्शनीयो बीभत्सादर्शनीयः ततो विशेषणसमासः अशुचिविगतबीभत्सादर्शनीयः “किमिजालाउलसंसत्ते' इति संसक्तः सन् कृमिजालाकुलोजातः कृमिजालाकुलसंसक्तः, मयूरव्यंसकादित्वात्समासः संसक्तशब्दस्य च परनिपातः,
एतावत्युक्ते गौतम आह- 'भवे एयारवे सिया ?' इति, स्याद् भवेद्-भवेयुरेतद्रूपाः-यथोक्तविशेषणविशिष्टा अहिमृतादिरूपा गन्धेनाधिकृता नरकाः, सूत्रे च बहुवचनेऽप्येकवचनं प्राकृतत्वात्, भगवानाह-गौतम! 'नायमर्थसमर्थो' नायमर्थ उपपन्नो, यतोऽस्यां रत्नप्रभायांपृथिव्यांनरकाइति-यथोक्तविशेषणविशिष्टाहिमृतादेरनिष्टतरा एव, तत्रकिञ्चिद्रम्यमपि कस्याप्यनिष्टतरं भवति तत आह-अकान्ततरा एव-स्वरूपतोऽप्यकमनीयतरा एव, अभव्या एवेति भावः, तत्राकान्तमपिकस्यापि प्रियं भवति यथागर्ताशूकरस्याशुचि, ततआह–अप्रियतरा एव न कस्यापि प्रिया इति भावः, अत एवामनोज्ञतरा एवं, अमनापतरा एव गन्धमधिकृत्य प्रज्ञप्ताः, तत्र मनोज्ञं-मनोऽनुकूलमानंयत्पुनःस्वविषयेमनोऽत्यन्तमासक्तंकरोति तन्मनआपम्, एकार्थिका वा एते सर्वे शब्दाः शक्रन्द्रपुरन्दरादिवत् नानादेशजविनेयजनानुग्रहार्थमुपात्ताः, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तम्याम् ॥ स्पर्शमधिकृत्याह-'इमीसे णमित्यादि, प्रश्नसूत्रं सुगम, भगवानाह-गौतम! तद्यथा नाम___ 'असिपत्रमिति वा' असि-खङ्गं तस्य पत्रमसिपत्रंक्षुरप्रमिति वा कदम्बचीरिकापत्रमिति वा, कदम्बचीरिका-तृणविशेषः, सच दर्भादप्यतीवछेदकः, शक्ति-प्रहरणविशेषस्तदग्रमिति वा, कुन्ताग्रमिति वा, तोमराग्रमिति वा, भिण्डिमालः-प्रहरणविशेषस्तदग्रमिति वा, सूचीकलाप इति वा, वृश्चिकदंश इति वा, कपिकच्छूरिति वा, कपिकच्छू:-कण्डूविजनको वल्लीविशेषः, अङ्गार इति वा, अङ्गारो-निघूमाग्नि, ज्वालेति वा, ज्वाला-अनलसंबद्धा, मुर्मुर इति वा, मुर्मुरः-फुम्फुकादौमसृणोऽग्नि, अर्चिरितिवा, अर्चि-अनकविच्छिन्ना ज्वाला, अलातम्-उल्मुकं, शुद्धाग्नि-अयस्पिण्डाद्यनुगतोऽग्निर्विधुदादिर्वा, इतिशब्द सर्वत्रापि उपमाभूतवस्तुस्वरूपपरिसमाप्तिद्योतकः, वाशब्दः परस्परसमुच्चये, इह कस्यापि नरकस्य स्पर्श शरीरावयवच्छेदJain Education International
For Private & Personal Use Only
www.jainelibrary.org