SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११२ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ /०-१/९२ 119 11 "द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा ?, ध्ष्टा मानेन केन वा ? ॥” इति । कृतं प्रसङ्गेन, विस्तरार्थिना च धर्मसङ्गहणिटीका निरूपणीया । 'से तेणद्वेण 'मित्याद्युपसंहारमाह, शब्दोऽथशब्दार्थ स चात्र वाक्योपन्यासे अथ 'एतेन' अनन्तरोदितेन कारणेन गौतम ! एवमुच्यते - स्यात् शाश्वती स्यादशाश्वती, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तमी पृथिवी, इह यद् यावत्सम्भवास्पदं तच्चेत्तावन्तं कालं शश्वद्भवति तदा तदपि शाश्वतमुच्यते यथा तन्त्रान्तरेषु ‘आकप्पट्ठाई पुढवी सासया' इत्यादि, ततः संशयः - किमेषा रत्नप्रभा पृथवी सकलकालावस्थायितया शाश्वती उतान्यथा यता तन्त्रान्तरीयैरुच्यत इति ?, ततस्तदपनोदार्थं पृच्छति 'इमा णं भंते इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी कालतः 'कियच्चिरं' कियन्तं कालं यावद्भवति ?, भगवानाह - गौतम ! न कदाचिन्नासीत्, सदैवासीदिति भावः, अनादित्वात्, तता न कदाचिन्न भवति, सर्वदैव वर्त्तमानकालचिन्तायां भवतीति भावः, अत्रापि स एव हेतु:, सदा भावादिति, तता न कदाचिन्न भविष्यति, भविष्यच्चिन्तायां सर्वदैव भविष्यतीति भावः, अपर्यवसितत्वात् । तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति 'भुविं चे' त्यादि, अभूत् भवति भविष्यति च, एवं त्रिकालभावित्वेन 'ध्रुवा' ध्रुवात्वादेव ‘नियता' नियतावस्थाना, धर्मास्तिकायादिवत्, नियतत्वादेव च शाश्वती, शश्वद्भावः प्रलयाभावात्, शास्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पद्मपौण्डरीकह्रद इवान्यतरपुद्गल विचटनेऽप्यन्यतरपुद्गलोपचयभावात्, अक्षया अक्षयत्वादेव च अव्यया, मानुषोत्तराद्बहि समुद्रवत्, अव्ययत्वादेव ‘अवस्थिता’ स्वप्रमाणावस्थिता, सूर्यमण्डलादिवत्, एवं सदाऽवस्थानेन चिन्त्यमाना नित्या जीवस्वरूपवत्, यदिवा ध्रुवादयः शब्दा इन्द्रशकादिवत्पर्यायशब्दा नानादेशजनविनेयानुग्रहार्थमुपन्यस्ता इत्यदोषः, एवमेकैका पृथिवी क्रमेण तावद्वक्तव्या यावदधः सप्तमी । सम्प्रति प्रतिपृथिवीषुविभागतोऽन्तरं विचिन्तयिषुरिदमाह मू. (९३) इमीसे णं भंते! रयणप्पभाए पुढवीए उवरिल्लातो चरिमंतातो हेट्ठिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नत्ते ?, गोयमा ! असिउत्तरं जोयणसतसहस्सं अबाधाए अंतरे पन्नत्ते । इमी से णं भंते! रयण० पु० उवरिल्लातो चरिमंताओ खरस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नत्ते ?, गोयमा ! सोलस जोयणसहस्साइं । इमीसे णं भंते! रयणप्पभाए पुढवीए उवरिल्लातो चरमंताओ रयणस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं केवतियं अबाधाएं अंतरे पन्नत्ते ?, गोयमा ! एक्कं जोयणसहस्सं अबाधाए अंतरे पन्नत्ते ।। इमीसे णं भंते! रयण० पु० उवरिल्लातो चरिमंतातो वइरस्स कण्डस्स उवरिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते ?, गोयमा ! एक्कं जोयणसहस्सं । इमीसे णं रयण० पु० उवरिल्लाओ चरिमंताओ वइरस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं भंते! केवतियं अबाधाएं अंतरे प० ?, गोयमा ! दो जोयणसहस्साइं इमीसे णं अबाधाए अंतरे पन्नत्ते, एवं जाव रिट्ठस्स उवरिल्ले पन्नरस जोयणसहस्साइं, हेट्ठिल्ले चरिमंते सोलस जोयणसहस्साइं इमीसे णं भंते! रयणप्प० पु० उवरिल्लाओ चरिमंता पंकबहुलस्स कंडस्स उवरिल्ले चरिमंते एस णं अबाधाए केवतियं अंतरे पन्नत्ते ?, गोयमा ! सोलस जोयणसहस्साइं अबाधाए अंतरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy