SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुताङ्गसूत्रम् १/१/१ आयाहिणपयाहिणं करेति २ त्ता वंदति २ त्ता नम॑सति २ ता जाव पज्जुवासति, एवं वयासीवृ. 'तेणं कालेण' मित्यादि, – 'तेणं कालेणं तेणं समएणं' ति तस्मिन् काले तस्मिन् समये, कारो वाक्यालङ्कारार्थत्वात् एकारस्य च प्राकृतप्रभवत्वात्, अथ कालसमययोः को विशषः उच्यते, सामान्यो वर्त्तमानावसर्पिणीचतुर्थारकलक्षणः कालो विशिष्टः पुस्तदेकदेशभूतः समय इति, अथवा तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'होत्य'त्ति अभवत्, यद्यपि इदानीमप्यस्ति सा नगरी तथाऽप्यवसर्पिणीकालस्वभावेन हीयमानत्वाद्वस्तुस्व-भावानां वर्णकग्रन्थोक्तस्वरूपा सुधर्मस्वामिकाले नास्तीतिकृत्वाऽतीतकालेन निर्देशः कृतः, 'वण्णओ'त्ति 'ऋद्धित्थिमियसमिद्धे'त्यादि वर्णकोऽस्या अवगन्तव्यः, स चौपपातिकव- द्रष्टव्यः । 'पुन्नभद्दे चेइए' त्ति पूर्णभद्राभिधाने 'चैत्ये' व्यन्तरायतने 'अहापडिरूवं जाव विहरइत्ति - "अज्जसुहम्मे थेरे अहापडिरूवं उग्गहं उग्गहइ अहा० उग्गण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ" तत्र येन प्रकारेण प्रतिरूपः - साधूचितस्वरूपो यथाप्रतिरूपोऽतस्तमवग्रहं - आश्रयमिति 'विहरति' आस्ते, 'जामेव दिसं पाउब्यूया' यस्यादिशः सकाशात् 'प्रादुर्भूता' प्रकटीभूता आगतेत्यर्थः 'तामेव दिसिं पडिगया' तस्यामेव दिशि प्रतिगतेत्यर्थः । ६ 'सत्तुस्सेहे' त्ति सप्तहस्तोत्सेधः सप्तहस्तप्रमाण इत्यर्थः 'जहा गोयमासामी तह' इति यथा गौतमो भगवत्यां वर्णितः तथाऽयमिह वर्णनीयः, कियद्दूरं यावत् ? इत्याह- 'जाव झाणकोट्ठो' त्ति 'झाणकोडोवगए' इत्येतत्पदं यावदित्यर्थः, स चायंवर्णकः- समचउरंससंठाणसंठिए वज्ररिसहनारायसंघयणे'त्ति विशेषणद्वयमपीदमागमसिद्दं 'कणगपुलगनिघसपम्हगोरे' कनकस्य- सुवर्णस्य यः पुलको -लवस्तस्य यो निकषः - कषपट्टे रेखालक्षणः तथा 'पम्ह' त्ति पद्मगर्भस्तद्वद् गौरो यः स तथा, 'उग्गतवे' उप्रम्-अप्रधृशष्य तपो यस्य स तथा 'दित्ततवे' दीप्तं हुताशन इव कर्म्मवनदाहकत्वेन ज्वलत्तेजलसस्तत्तपो यस्य स तथा ' तत्ततवे' तप्तं - तापितं तपो येन स तथा, एवं हि तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूवः संतापितो यतोऽन्यस्यासंस्पृश्यमिव जातमिति, 'महातवे' प्रशस्ततपाः बृहत्तपा वा, 'उराले' भीमः अतिकष्टतपःकारितया पार्श्ववर्त्तिनामल्पसत्तावानां भयजनकत्वादुदारो वा प्रधान इत्यर्थः 'घोरः' निर्घृणः परीषहाद्यरातिविनाशे 'घोरगुणे' अन्यैर्दुरनुचरगुणः 'घोरतवस्सी' घोरैस्तपोभिस्तपस्वी 'घोरबंभचेरवासी' घोरे - अल्पसत्तदुरनुचरत्वेन दारुणे ब्रह्मचर्ये वस्तुं शीलं यस्य स तथा 'उच्छूढसरीरे' उच्छूढम् - उज्झितमिव उज्झितं शरीरं येन तत्प्रतिकर्मत्यागात 'संखित्तविउलतेउलेस्से' संक्षिप्ता शरीरान्तर्वर्त्तिनीत्वाद्विपुला च - विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या - विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा 'उड्डुंजाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कटुकासनः सन्नुपदिश्यते ऊर्ध्वजानुनी यस्य स उर्ध्वजानुः 'अहोसिरो' अधोमुखो नोर्द्धं तिर्यग्वा विक्षिप्तदष्टिरिति भावः 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः स तथा 'विहरइ' त्ति 'संजमेणं तवसा अप्पाणं भावेमाणे विहरइ' इत्येवं दृश्यं, 'जायसङ्के' प्रवृत्तविवक्षितार्थश्रवणवाञ्छः यावत्करणादिदं दृश्यं 'जायसंसए' प्रवृतानिर्द्धारितार्थप्रत्ययः 'जायकोउहल्ले' प्रवृत्तश्रवणैौत्सुक्यः ३ 'उप्पन्नसङ्के' प्रांगभवदुद्भूतश्रवणवाच्छःउत्पन्नश्रद्धत्वात्प्रवृत्तश्रद्धः इत्येवं हेतुफलविवणान्त्र पुनरुक्तता, एवं उप्पन्नसंसए उप्पन्नकोउ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy