SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -१ श्रुतस्कन्धः - १, नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ११ विपाक श्रुत- अङ्गसूत्रम् सटीकं (एकादशम् अङ्गसूत्रम्) (मूलसूत्रम्+अभयदेवसूरिविरचिता वृत्तिः) वृ. श्रुतस्कन्धः - १ त्वा श्रीवर्धमानाय, वर्द्धमानश्रुताध्वने । विपाकश्रुतशास्त्रस्य वृत्तिकेयं विधास्यते ॥ अथ विपाकश्रुतमिति कः शब्दार्थः ?, उच्यते, विपाकः - पुण्यपापरूपकर्मफलं तत्प्रतिपादनपरं श्रुतं - आगमो विपाकश्रुतं, इदं च द्वादशाङ्गस्य प्रवचन पुरुषस्यैकादशम, इह च शिष्टसमयपरिपालनार्थं मङ्गल-सम्बन्धाभिधेयप्रयोजनानि किल वाच्यानि भवन्ति, तत्र चाधिकृत शास्त्रस्यैव सकलकल्याण-कारिसर्ववेदिप्रणीतश्रुतरूपतया भावनन्दीरूपत्वेन मङ्गलस्वरूपत्वात् न ततो भिन्नं मङ्गलमुपदर्शनीयं, अभिधेयं च शुभाशुभकर्मणा विपाकः, स चास्य नामनौवाभिहितः प्रयोजनमपि श्रोतृगतमनन्तरं कर्म्मविपाकवगमरूपं नाम्नैवोक्तमस्य, यत्किल कर्मविपाकावेदकं श्रुतं तत् श्रृण्वतां प्रायः कर्मविपाकावगमो भवत्येवेति, यत्तु निःश्रेयसावाप्तिरूपं परम्परप्रयोजनमस्य तदाप्तप्रणीततयैव प्रतीयते, न ह्याप्ता यत्कथञ्चिन्निः श्रेयसार्थं न भवति तठप्रणयनायोत्सहन्ते आप्तत्वहानेरिति, सम्बन्धोऽप्युयायोपेयभावलक्षणो नाम्नैवास्य प्रतीयते, तथाहि इदं शास्त्रमुपायः कर्म्मविपाकावगमस्तूपेयमिति, यस्तु गुरुपर्वक्रमलक्षणसम्बन्धोऽस्य तत्प्रतिपादनायेदमाह अध्ययनं - १ - मृगापुत्रः मू. (१) 'तेणं कालेणं तेणं समएणं चंपा णामं णयरी होत्था वण्णओ, पुन्नभद्दे चेइए, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मेनामं अनगारे जाइसंपन्ने वण्णओ चउद्दसपुवी चउनाणोवगए पंचहिं अनगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं जाव जेणेव पुण्णभद्दे चेइए अहापडिरूवं जाव विहरइ, परिसा निग्गया धम्मं सोच्चा निसम्म जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, समए अज्जसुहम्मअंतेवासी अज्जजंबूनामं अनगारे सत्तुस्सेहे जहा गोयमसामी अज्जजंबूनामं अनगारे सत्तुस्सेहे जहा गोयमसामी तहा जाव झाणकोट्ठो वगए विहरति, तए णं अज्जजंबूनामे अनगारे जायसड्ढे जाव जेणेव अज्जसुहुमे अनगारे तेणेव उवागए तिक्खुत्तो www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy