________________
-
औपपातिकउपाङ्गसूत्रम्-१० त्वर्थं करोतीति दर्शयन्नाह
चक्षुरिवचक्षुः-श्रुतज्ञानंतद्दयतेयः सचक्षुर्दयः, यथा हि लोके चक्षुर्दत्वावाञ्छितस्थानमार्ग दर्शयन्महोपकारी भवति इत्येवमिहापीति दर्शयन्नाहमार्ग-सम्यग्दर्शनादिकं मोक्षपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तधनान्निरुपद्रवं स्थानं प्रापयन् परमोपकारी भवतीत्येवमिहापीति दर्शयन्नाह-'शरणदयो' निरुपद्रवस्थानदायको, निर्वाणहेतुरित्यर्थ ।
___ यथा हि लोके चक्षुर्गिशरणदानाद्दुस्थानांजीवनं ददात्येवमिहापीति दशर्यन्नाह जीवनं जीवो-भावप्राणधारणम्, अमरणधर्मत्वमित्यर्थ, तंदयत इति जीवदयो, जीवेषु वा दया यस्य स जीवदयः, तथा दीप इव समस्तवस्तुप्रकाशकत्वात् द्वीपो वा संसारसागरान्तर्गताङ्गिवर्गस्य नानाविधदुःखकल्लोलाभिघातदुःस्थितस्याश्वासहेतुत्वात्, तथा त्राणम् अनर्थप्रतिहननंत तुत्वात्राणं, तथा शरणम्-अर्थसम्पादनं तद्धेतुत्वाच्छरणं, तथा 'गइत्ति गम्यतेऽभिगम्यते दुःस्थितैः सुस्थतार्थश्रीयते इति गति, ‘पइट्ठ'त्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा-आधारः संसारगर्ते प्रपततः प्राणिवर्गस्येति।
तथा त्रयस्समुद्राश्चतुर्थो हिमवानेते चत्वारः पृथिव्या अन्ताः-पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः, स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती, वरश्चासौ चातुरन्तचक्रवर्ती च वरचातुरन्त-चक्रवर्ती-सर्वराजातिशायी, धर्मविषये वरचातुरन्तचक्रवर्तीधर्मवरचातुरन्तचक्रवर्ती, सकल-धर्मप्रणेतृणांमध्ये सातिशयत्वादिति, तथा अप्रतिहते-कटादिभिरस्खलितेअविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने केवललक्षणे धारयतीति अप्रतिहतवरज्ञानदर्शनधरः, कथमस्यैते इत्यत आह-यतो 'व्यावृत्तच्छद्मा' निवृत्तज्ञानावरणो निर्मायो वा, एतच्च रागादिजयात्तस्येत्याह-'जिनो' रागादिजेता, रागादिजयश्च रागादिस्वरूपादिज्ञाना दित्यत आह
'जाणए'त्तिज्ञायको-ज्ञाता रागादिभावसम्बन्धिनांस्वरूपकारणफलानामिति, अतएव 'तिण्णो तितीर्णइवतीर्ण, संसारसागरमिति गम्यते, अतएव 'तारकः संसारसागरादुपदेशवर्तिनां भगवानिति, तथा 'मुक्तो' बाह्याभ्यन्तरग्रन्थात् कर्मबन्धनाद्वा, अत एव 'मोचकः' अन्येषामुपदेशवर्तिनां, तथा 'बुद्धे'त्ति बुद्धवान् बोद्धव्यम्, अत एव 'बोधकः' अन्येषामिति, एतावन्ति विशेषणानिभवावस्थामाश्रित्योक्तानि, अथसिद्धावस्थामाश्रित्योच्यते-'सव्वन्नूसव्वदरिसी'त्ति, इह ज्ञान-विशेषावबोधः, दर्शनं च-सामान्यावबोधः। __ सिद्धावस्थायां पुरुषस्य कैश्चित् ज्ञान् नाभ्युपगम्यते प्रकृतिविकारस्य बुद्धेरभावादित्येतन्मतव्यपोहार्थमिदं, तथा शिवं' सर्वोपद्रवरहितत्वाद् 'अचलं स्वाभाविकप्रायोगिकचलनरहितत्वत् 'अरुज' रोगाभावात् 'अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात्, ‘अक्षयम्' अनाशं, साद्यपर्यवसितत्वात्, अक्षयंवा परिपूर्णत्वात, 'अव्याबाधम्' अपीडाकारित्वात्, ‘अपुनरावर्तकं पुनर्भवाभावात्, सिद्धिगतिरिति नामधेयं-प्रशस्तं नाम यस्य तत्सिद्धिगतिनामधेयं, तिष्ठन्त्यस्मिन्निति स्थान-क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि तु लोकाग्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org