SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मूलं- ९ मू. (९) तेणं कालेणं तेणं समएणं कोणिए राया भंभसारपुत्ते बाहिरियाए उवट्ठाणसालाए अणेगगणनायगदंडनायगराईसरतलवरमाडंबि अकोडंबिअमंतिमहामंतिगणगदोवारिअअमञ्चचेडपीढमद्दनगरनिगमसेठ्ठिसेणावइसत्थवाहदूतसंधिवाल सद्धिं संपरिवुडे विहरइ ॥ वृ. 'भंभसारपुत्ते 'त्ति श्रेणिकराजसूनुः । 'अनेगगणे' त्यादि, अनेके ये गणनायकाःप्रकृतिमहत्तराः, दण्डनायकाः- तन्त्रपालाः राजानो - मण्डलिका ईश्वरा - युवराजाः, मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः, तलवराः - परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः राजस्थानीयाः, ‘माडंबिया’ छिन्नमडम्बाधिपाः, 'कोडंबिया' कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः प्रतीताः महामन्त्रिणो-मन्द्रिमण्डलप्रधानाः ष हस्तिसाधनोपरिका इति वृद्धाः, गणका - ज्योतिषिकाः, भाण्डागारिका इति वृद्धाः, दौवारिकाः -- प्रतीहाराः राजदौवारिका वा, - - अमात्या-राज्याधिष्ठायकाः, चेटा:- पादमूलिकाः, पीठमर्दा - आस्थाने आसनासन्नसेवकाः, वयस्या इत्यर्थः, नगरं - नगरवासिप्रकृतयः, निगमाः - कारणिकाः वणिजो वा, श्रेष्ठिनः - श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो - नृपतिनिरूपित चतुरङ्गसैन्यनायकाः, सार्थवाहाः - सार्थवाहकाः, दूता - अन्येषां राजादेशनिवेदकाः, सन्धिपालाः- राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः इह तृतीयाबहुवचनलोपो द्रष्टव्यः, 'सद्धिं ति सार्द्धं सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपि तु तैः समित - समन्तात्परिवृतः - परिकरित इति ।। 1 ८१ मू. (१०) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्दे पुरिसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अभयदए चक्खुदए मग्गदए सरणदए जीवदए दीवो ताणं सरणं गई पइट्ठा धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदंसणधरे विअट्टच्छउमे । जिणे जाणए तिण्णे तारए मुत्ते मोयए बुद्धे बोहए सव्वन्नू सव्वदरिसी सिवमयलमरुअमनंतमक्खयमव्वाबाहमपुणरावत्तिअं सिद्धिगइनामधेयं ठाणं संपाविउकामे अरहा जिने केवली सत्तहत्थूस्सेहे समचउरंससंठाणसंठिए वज्ररिसहनारायसंघयणे अनुलोमवाउवेगे कंकग्गहणी कवोयपरिणामे सउणिपोसपिट्टंतरोरुपरिणए । वृ. महावीरवर्णके लिख्यते - 'श्रमणो' महातपस्वी नामान्तरं वा इदमन्तिमजिनस्य 'भगवान्' समग्रैश्वर्यादियुक्तः 'महावीरे' देवादिकृतोपसर्गादिष्वचलितसत्वतया देवप्रतिष्ठितनामा, ' आदिकरः' आदी प्रथमतया श्रुतधर्मस्य करणशीलत्वात्, 'तीर्थङ्करः' सङ्घकरणशीलत्वात् 'सहसम्बुद्धः' स्वयमेव सम्यग्बोद्धव्यस्य बोधात्, - कुत एतदित्याहयतः ‘पुरुषोत्तमः ' तथाविधातिशयसम्बन्धेन पुरुषप्रधानः, उत्तमत्वमेवोपमात्रयेणाह–‘पुरुषसिंहः' शौर्यातिशयात्, 'पुरुषवरपुण्डरीकः' पुरुष एव वरपुण्डरीकम्धवलपद्मं पुरुषवरपुण्डरीकं, धवलता चास्य सर्वाशुभमलीमसरहितत्वात्, एवं 'पुरुषवरगंधहस्ती' गन्धहस्तिता चास्य सामान्यगजकल्पपरचक्रदुर्भिक्षजनमरकादिदुरितविनाशनात्, तथा न भयं दयते - ददाति प्राणापहारकरणरसिकोपसर्गकारिण्यपि प्राणिनीत्यभयदयः, अभया वासर्वप्राणिभयपरिहारवती दया - घृणा यस्य सोऽभयदयः, न केवलमयमनर्थं न करोति अपि 8 6 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy