________________
मूलं-६ शयनासनयानवाहनाकीर्णानि यस्य स तथा । 'बहुधणबहुजायस्वरयते' बहु-प्रभूतं धनंगणिमादिकं बहुनीचजातरूपरजते सुवर्णरौप्येयस्यसतथा आओगपसोगसंपउत्ते' आयोगस्यअर्थलाभस्य प्रयोगा-उपायाः सम्प्रयुक्ताः-व्यापारितायेन, तेषुवा सम्प्रयुक्तो व्यापृतोयःसतथा____ 'विच्छड्डियपउरभत्तपाणे विच्छर्दिते-त्यक्तेबहुजनभोजनदानेनाविशिष्टोच्छिष्टसम्भवात् सातविच्छट्टै वा नानाविधे प्रचुरे भक्तपाने-भोजनपानीये यस्य स तथा । 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहवो दासीदासा गोमहिषगवेलकाश्च प्रभूता यस्य स तथा, गवेलकाउरभ्राः । पडिपुन्न जंतकोसकोट्ठागाराउधागारे' प्रतिपूर्णानि यन्त्राणिच पाषाणक्षेपयन्त्रादीनि कोशो-भाण्डागारः कोष्ठागारश्च-धान्यगृहं आयुधागारश्च-प्रहरणशाला यस्य स तथा।
'बलवं'ति प्रभूतसैन्यः । 'दुब्बलपच्चामित्ते' दुर्बलाः प्रत्यमित्राः-प्रातिवेश्मिकनृपा यस्य सतथा। 'ओहयकंटयंति उपहता–विनाशिताः कण्टकाः-प्रतिस्पर्धिगोत्रजा यत्र राज्ये तत्तथा, क्रियाया वा विशेषणमेतत्, एवमन्यान्यपि, नवरं निहताः कृतसमृद्धयपहाराः, मलिताःकृतमानभङ्गाः, उद्धृता-देशानिर्वासिताः, अत एवाविद्यमाना इति।
तथा शत्रवः-अगोत्रजाः निर्जिताः-स्वसौन्दर्यातिशयेन परिभूताः, पराजितास्तुतद्विधराज्योपार्जने कृतसम्भावनाभङ्गाः, 'ववगयदुब्मिखं मारिभयविप्पमुक्क' मिति व्यक्तम्। 'पसंतडिंबडमरं'ति डिम्बाः-विघ्नाः डमराणि-राजकुमारादिकृतवैराज्यादीनि, 'पसंताहियडमरं'त्ति कवचित्पाठः, तत्राहितडमरंशत्रुकृतविड्वरोऽधिकविड्वरोवा । रज्जंपसासेमामे'त्तिप्रशासयन्पालयन् ‘पसाहेमाणे त्ति कचित्पाठः, तत्राप्ययमेवार्थ, 'विहरति' वर्तते ॥
मू. (७) तस्स णं कोणियस्स रन्नो धारिणी नामं देवी होजा, सुकुमालपाणिपाया अहीनपडिपुन्नपंचिंदियसरीरा लकखणवंजणगुणोववेआ माणुम्माणप्पमामपडिपुण्णसुजायसव्वंगसुंदरंगी ससिसोमाकारकंतपियदसणा सुरूवा करयलपरिमिअपसत्थतिवलियवलियमज्झा कुंडलुल्लिहिअगंडलेहा कोमुइरयणियरविमलपडिपुन्नसोमवयणा।
सिंगारागारचारुवेसा संगयगयहसिअभणिअविहिअविलाससललिअसंलावणिउणजुत्तोवयारकुसला पासादीआ दरिसणिज्जा अभिरूवा पडिरूवा, कोणिएणं रन्ना भंभसारपुत्तेणं सद्धिं अनुरत्ता अविरत्ता इढे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पञ्चणुब्बवमाणी विहरति।
वृ. राज्ञीवर्णके लिख्यते-'अहीनपडिपुन्पंचिंदियसरीरा' कवचित्तु 'अहीनपुन्नपंचिंदियसरीरा' अहीनानि-अन्यूनानि लक्षणतः, पूर्णानि-स्वरूपतः, पुण्यानि वा-पवित्राणि पञ्चापीन्द्रियाणि यत्रतत्तथाविधं शरीरंयस्याः सा तथा। लक्खणवंजणगुणोववेया' लक्षणानिस्वस्तिकचक्रादीनि व्यञ्जनानि-मषीतिलकादीनि तेषां यो गुणः-प्रशस्तत्वं तेनोपपेता-युक्ता या सा तथा।
'माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' तत्र मानं-जलद्रोणप्रमाणता, कथम्?-जलस्यातिभृते कुण्डे प्रमातव्यमानुषेनिवेशितेयज्जलंनिस्सरतितद्यदि द्रोणमानस्यात्तदा तन्मानुषंमानप्राप्तमुच्यते, तथा उन्मानम्-अर्द्धभारप्रमाणता, कथम्?,तुलारोपितंमानुषंयद्यर्द्धभारं तुलतितदातदुन्मानप्राप्तमित्युच्यते, प्रमाणं तु-स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्चमानोन्मान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org