________________
राजप्रश्नीयउपाङ्गसूत्रम् - ५३
वृ. 'केसीनामं कुमारसमणे जाइसंपन्ने' इत्यादि, जातिसंपन्नः - उत्तममातृपक्षयुक्त इति प्रतिपत्तव्यम्, अन्यथा मातृपितृपक्षसंपन्नत्वं पुरुषमात्रस्यापीति नास्योत्कर्ष कश्चिदुक्तो भवति, उत्कर्षाभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि नवरं कुलं- पितृपक्षः बलं - संहननविशेषसमुत्थः प्राणः रूपम् - अनुपमं शरीरसौन्दर्यं विनवादीनि प्रतीतानि, नवरं लाघवं - द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः 'लज्जा' मनोवाक्कायसंयमः 'ओयंसी' ति ओजो - मानसोऽवष्टम्भस्तद्वान् ओजस्वी तेजः- शरीरप्रभा तद्वान् तेजस्वी 'वचो' वचनं सौभाग्याद्युपेतं यस्यास्ति स वचस्वी अथवा वर्च - तेजः प्रभाव इत्यर्थस्तद्वान् वर्चस्वी यशस्वी - ख्यातिमान्, इह च विशेषणचतुष्टयेऽप्यनुस्वारः प्राकृतत्वात्, जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय उदयप्राप्तक्रोधदिविफलीकरणतोऽवसेयः, तथा जीवितस्य-प्राणधोरणस् आशाः वाञ्छा मरणाद्भयं ताभ्यां विप्रमुक्तो जीविताशामरणभयविप्रमुक्तः, तदुभयोपेक्षक इत्यर्थ: ।
३२०
तथा तपसा प्रधानः-उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपःप्रधानः, एवं गुणप्रधान नवरं गुणाः - संयमगुणाः, एतेन च विशेषणद्वयेन तपःसंयमौ पूर्वबद्धाभिनवयोः कर्मणोनिर्जरानुपादानहेतू मोक्षसाधने मुमुक्षूमामुपादेयौ प्रदर्शितौ, गुणप्राधान्यप्रपञ्चनार्थमेवाह 'करणप्पहाणे' इति यावत् 'चरित्तप्पहाणे' इति, करणं-पिण्डविशुद्धयादि, उक्तञ्च“पिंडविसोही समिई भावन पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ।।" - चरणं - महाव्रतादि, उक्तञ्च
119 11
119 11
निग्रहः – अनाचारप्रवृत्तेर्निषेधनं । निश्चयः - तत्त्वानां निर्णयः विहितानुष्ठानेष्ववश्यमभ्युपगमो वा आर्जवं मायानिग्रहो लाघवं क्रियासु दक्षत्वं क्षान्ति - क्रोधनिग्रहः गुप्ति – मनोगुप्त्यायादिका मुक्ति-निर्लोभता विद्या--प्रज्ञप्तयादिदेवताऽधिष्ठिता वर्णानुपूर्व्याः मन्त्रा - हरिणेगमेष्यादिदेवताधिष्ठिताः अथवा ससाधना विद्या साधनरहिता मन्त्रा, ब्रह्मचर्यं - बस्तिनिरोधः सर्वमेव वा कुशलानुष्ठानं वेदः - आगमो लौकिकलोकोत्तरिककुप्रावचनिकभेदभिन्नः ।
नया - नैगमादयः सप्त प्रत्येकं शतविधा, नियमा-विचित्रा अभिग्रहविशेषाः सत्यं - भूतहितं वचः शौचं - द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञानं-मत्यादि दर्शनं सम्यक्त्वं चारित्रं - बाह्यं सदनुष्ठानं, यच्चेह चरणकरणग्रहणेऽपि आर्जवादिग्रहणं तत् आर्जवादीनां प्राधान्यख्यापनार्थं, ननु जितक्रोधत्वादीनामार्जवादीनां च कः प्रतिविशेषः ?
उच्यते, जितक्रोधादिविशेषणेषु तदुदयविफलीकरणं मार्दवप्रधानादिषु उदयनिरोधः, अथवा यत एव जितक्रोधादि अत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावाद् विशेषः, तथा ज्ञानसम्पन्न इत्यादौ ज्ञानादिमत्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तद्वतां मध्ये तस्य प्राधान्यमत्येवमन्यत्राप्यपौनरुक्त्यं भावनीयं, तथा 'ओराले' इति उदारः - स्फाराकारः 'घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी ओच्छूढसरीरे संखित्तविउलतेउलेसे चउद्दसपुव्वी चउनाणोवगए' इति पूर्ववत्,
For Private & Personal Use Only
www.jainelibrary.org
वय समणधम्म संजम वेयावच्चं च बंभगुत्तीओ। नामाइतियं तव कोहनिग्गहाई चरणमेयं ॥
Jain Education International