SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३१३ मूलं-४४ प्रविश्यमणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य चक्रमेण पूर्ववदनिकां करोति। ततोऽत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेणालङ्कारिकसभांप्रविशति, प्रविश्यमणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य चक्रमेण पूर्वदनिकां करोति, तत्रापि क्रमेण सिद्धायतनवत् दक्षिणद्वाराऽऽदिकापूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण व्यवसायसभांप्रविशति, प्रविश्य पुस्तकरलं लोमहस्तकेन प्रमृज्योदकधारयाअभ्युक्ष्य चन्दनेनचर्चयित्वावरगन्धमाल्यैरर्चयित्वा पुष्पाद्यारोपणंधूपदानंचकरोति, तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण पूर्वदर्चनिकां करोति। तदनन्तरमत्रापिसिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाअर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागवत् अर्चनिकां करोति, कृत्वा चाभियोगिकदेवान् शब्दापयति, शब्दापयित्वा एवमवादीत् । 'खिप्पामेवे'त्यादिसुगमयावत् ‘तमाणत्तियंपञ्चप्पिणंति' नवरंशृङ्गाटक-शृङ्गाटकाऽऽकृतिपथयुक्तंत्रिकोणंस्थानं त्रिकंयत्ररथ्यात्रयं मिलति, चतुष्कं चतुष्पथयुक्तं, चत्वरं-बहुरथ्यापातस्थानं, चतुर्मुखं यस्माच्चतसुष्वपिदिक्षुपन्थानो निस्सरन्ति, महापथोः-राजपथः शेषः सामान्यः पन्थाः पंथाःप्रकारःप्रतीः, अट्टालकाः-प्राकारस्योपरिबृत्याश्रयविशेषाः, चरिका अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गद्वाराणि-प्रासादादीनांगोपुराणि-प्राकारद्वाराणि तोरणानि-द्वरादिसम्बन्धीनि आरमन्ते यत्रमाधवीलतागृहादिषु दम्पत्यावित्यसावारामः, पुष्पादिमयवृक्षसंकुलमुत्सवादौ बहुजनोपभोग्यमुद्यानं, सामान्यवृक्षवृन्दनगरासन्नं काननं, नगरविप्रकृष्टंवनम्, एकाऽनेकजातीयोत्तमवृक्षसमूहो वनखण्डः, एकजातीयोत्तमवृक्षसमूहो वनराजी। __'तएण' मित्यादि, ततःसूर्याभदेवोबलिपीठे बलिविसर्जनं करोति, कृत्वा चोत्तरपूर्वानन्दापुष्करिणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति, अनुप्रविष्यच हस्तौ पादौ प्रक्षालयतिप्रक्षाल्य नन्दापुष्कारण्याः प्रत्यवतीर्यसामानिकादिपरिवारसहितः सर्वायावद्दुन्दुभिनिर्घोषनादितरवेण सूर्याभविमाने मध्यंमध्येन समागच्छन् यत्र सुधर्माम सभा तत्रागत्य तां पूर्वद्वारेण प्रविशति, प्रविश्य मणिपीठिकाया उपरि सिंहासने पूर्वाभिमुखो निषीदति ॥ मू. (४५) तए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं दिसिभाएणं चत्तारि य सामानियसाहस्सीओ चउसु भद्दासमसाहस्सीसु निसीयंति तए णं तस्स सूरियाभस्स देवसुस पुरथिमिल्लेणं चत्तारि अग्गमहिसीओ चउसु भद्दासनेसु निसीयंति। तएणंतस्स सूरियाभस्स देवस्स दाहिणपुरस्थिमेणंअभिंतरियपरिसाए अट्ठदेवसाहस्सीओ अट्ठसु भद्दासनसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीसु निसीयंति । तएणं तस्स सूरियाभस्स देवस्स दाहिणपञ्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीतो बारससु भद्दासनसाहस्सीसु निसीयंति, तए णं तरस सूरियाभस्स देवस्स पञ्चत्थिमेणं Jain Education International anal For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy