SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयउपाङ्गसूत्रम्- ४४ तशालभञ्जिकाव्यालकरूपाणां लोमहस्तकेन प्रमार्जनं जलधारयाऽभ्युक्षणंचन्दनचर्चा पुष्पाद्यारोहणं धूपदानं च कृत्वा सिद्धायतनमनुप्रक्षिणीकृत्योत्तरस्यां नन्दापुष्करिण्यां समागत्य पूर्ववत्तस्या अर्चनिकां करोति, तत उत्तराहे मेहन्द्रध्वजे तदनन्तरमुत्तराहे चैत्यवृक्षे तत उत्तराहे चैत्यस्तूपे ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमानां पूर्ववत् पूजां विधायोत्तराहे प्रेक्षागृहमण्डपे समागच्छति तत्र दाक्षिणात्यप्रेक्षागृमण्डपवत् सर्वा वक्तव्यता वक्तव्या, ततो दक्षिणस्तम्भपंक्त्या विनिर्गत्योत्तराहे मुखमण्डपे समागच्छति, तत्रापि दाक्षिणात्यमुखमंडपवत् सर्वं पश्चिमोत्तरपूर्वद्वारक्रमेणं कृत्वा दक्षिणस्तम्भपंक्त्या विनिर्गत्य सिद्धायतनस्योत्तरद्वारे समागत्य पूर्ववदर्चनिकां कृत्वा पूर्वद्वारेण समागच्छति, तत्रार्चनिकां पूर्ववत् कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणद्वारे पश्चिमस्तम्भपंक्योत्तरपूर्वद्वारेषु क्रमेणोक्तरूपां पूजां विधाय पूर्वद्वारेण विनिर्गत्य पूर्वप्रेक्षागृहमण्डपे समागत्य पूर्ववत् द्वारमध्यभागदक्षिणद्वारपश्चिमस्तम्भपंक्त्योत्तरपूर्वद्वारेषु पूर्ववदर्चनिकां करोति ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजिनप्रतिमाचैत्यवृक्षमहेन्द्रध्वजनंदापुष्करिणीनां, ततः सभायां सुधर्मायां पूर्वद्वारेण प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्राऽऽगच्छति, आलोके च जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्र माणकचैत्यस्तम्भो यत्र वज्रमया गोलवृत्ताः समुद्गकाः तत्रागत्य समुद्गकान् गृह्णाति, गृहीत्वा विघाटयति विघाटय च लोमहस्तकं परामृश्य तेन प्रामर्योदकधारया अभ्युक्ष्यं गोशीर्षचन्दनेनानुलिप्रति ततः प्रधानैर्गंधमालैयरर्त्यति धूपं दहति तदनन्तरं भयोऽपि वज्रमयेषु गोलवृत्तसमुद्गेषु प्रतिनिक्षिपति, प्रतनिक्षिप्यतान् वज्रमवान् गालवृत्तसमुद्गकान् स्वस्थान प्रीतीनीक्षपीत, तषु पुष्पगन्धम पवाभरणानि चारपियात्त, ततो लोमहस्तकेन माणकचैत्यस्तम्भं प्रमार्योदकधारयाऽभ्युक्षणचन्दनचर्चापुष्पाद्यारोपणं धूपदानंच करोति, कृत्वा च सिंहासनप्रदेशे समागत्य मणिपीठिकायाः सिंहासनस्य च लोमहस्तकेन प्रमार्जनादिरूपां पूर्वदर्चनिका करोति, कृत्वा यत्र मणिपीठिका यत्र च देवशयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च द्वारवदर्चनिकां करोति, तत् उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजे पूजां करोति, ततो यत्र चोप्पालको नाम प्रहरणकोशस्तत्र समागत्य लोमहस्तकेन परिधरत्नप्रमुखाणि प्रहरणरत्नानि प्रमार्जयति, ३१२ प्रमाज्योर्दकधारयाऽभ्युक्षणं चंदनचर्चां पुष्पाद्यारोपणं धूपदानं च करोति, तत सभायाः सुधर्माया बहुमध्यदेशभागेऽर्चनिकां पूर्ववत् करोति, कृत्वा सुधर्मायाः सभाया दक्षिणद्वारे समागत्य तस्य अर्चनिकां पूर्ववत् कुरुते, ततो दक्षिणद्वारेण विनिर्गच्छति, इत ऊर्ध्वं यथैव सिद्धायतनान्निष्क्रमतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशतः उत्तरनन्दापुष्करिण्यादिका उत्तरद्वारान्ता ततो द्वितीयद्वारान्निष्क्रमतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्यता सैव सुधर्मायां सभायामप्यन्यूनातिरिक्ता वक्तवया, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वा उपपातसभां पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्राग्वदर्चनिकां विदधाति । ततो दक्षिणद्वारे समागत्य तस्यार्चनिकां कुरुते, अत ऊर्ध्वमत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य ह्रदे समागत्य पूर्ववत् तोरणार्चनिकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसभां प्रविशति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy