________________
२८६
राजप्रश्नीयउपाङ्गसूत्रम्-३५ - अट्ठमंगलगाझया छत्तातिच्छत्ता, तेणं पासायवडेंसगा अन्नेहिं चउहिं पासायवडेंसएहिं तदद्धच्चत्तपमाणमेत्तेहिं सव्वतो समंता संपरिखित्ता, तेणंपासायवडेंसगाबावठिंजोयणाइंअद्धजीयणंच उडं उच्चत्तेणं एकवीसंजोयणाई कोसंच विक्खंभेणं वण्णओ उल्लोओ सीहासणं सपरिवारं पासायउवरिं अट्ठमंगलगा झया छत्तातिछत्ता।
वृ.तस्य च बहुसममणीयस्य भूमिभागस्य बहुमध्यदेशभागेअत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः स च पञ्च योजनशतान्यूर्ध्वमुच्चैस्ल अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'अब्भुग्गयमूसियपहसियाविवे'त्यादितस्यवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनंद्वारबहिस्थितप्रासादवद्भावनीयं, तस्यचमूलप्रासादावतंसकस्य बहुमध्ये देशभागेऽत्र महती एकामणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणकदम्बकं प्राग्वत्।
__ 'तीसेण मित्यादि, तस्याश्चमणिपीठिकायाउपरिमहदेकंसिंहासनंप्रज्ञप्तं, तस्य सिंहासनस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि, 'सेण' मित्यादि, समूलप्रासादावतंसकोऽन्यैश्चतुर्भिःप्रासादावतंसकैस्तदर्बोच्चत्वप्रमाणैः सर्वतः समन्ततः परिक्षिप्तः, तद च्चत्वप्रमाणमेवदर्शयति-अर्द्धतृतीयानि योजनशतान्यूर्ध्वमुच्चैस्त्वेन, पञ्चविंशंयोजनशतं विष्कम्भेन, तेषामपि 'अब्भुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनं मध्यभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत्, तेषां च प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं २ सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र शेषाणि परिवारभूतानि भद्रासनानि वक्तव्यानि । । तेणं पासायवडेंसया' इत्यादि, तेप्रासादवतंसा अन्यैश्चतुर्भिप्रासादवतंसकैः ‘तयछुच्चत्तपमाणमेत्तेहिं तेषां मूलप्रासादावतंसकपरिवारभूतानांप्रासादावतंसकानां यदर्द्धतदुच्चत्वप्रमाणमात्रैः-मूलप्रासादावतंसकापेक्षया चतुर्भागमात्रप्रमाणैः सर्वतः समन्तात्संपरिक्षिप्ताः, तदर्घोच्चत्वप्रमाणमेव दर्शयति। ___ 'तेण'मित्यादि, तेप्रासादवतंसकाःपंचविंशंयोजनशतमूर्ध्वमुच्चैस्त्वेन द्वाषष्टियोजनानि अर्द्धयोजनंचविष्कम्भतः, तेषामपिअब्भुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनंमध्यभागे भूमिवर्णनमुल्लोकवर्णनं सिंहासनवर्णनंचसर्वं प्राग्वत्, केवलमत्रापिसिंहासनंसपरिवारंवक्तव्यं, 'ते ण' मित्यादि, ते च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकै स्तदोच्चत्वप्रमाणैः अनन्तरोक्तप्रासादावतंसकार्डोच्चत्वप्रमाणैर्मूलप्रासादवतंसकापेक्षया (अष्ट) भागप्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमाणमेव दर्शयति।
तेणमित्यादि, ते च प्रासादावतंसका द्वाषष्टिर्योजनानि अर्धयोजनं च ऊर्ध्वमुच्चैस्त्वेन एकत्रिंशतंयोजनानिक्रोशंच विष्कम्भतः, एषामपि 'अब्भुग्गयमूसिए'त्यादिस्वरूपवर्णनमध्यभागे भूमिवर्णनं उल्लोकवर्णनं सिंहासनवर्णनं च परिवाररहितं प्राग्वत्, ‘ते ण' मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणैःअनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणैर्मूलप्रासादावतंसकापेक्षयाषोडशभागप्रमाणैः सर्वतः समंतात्संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-एकत्रिशद्योजनानि क्रोशं च ऊर्ध्वमुच्चैस्त्वेन पञ्चदश योजनानि अर्द्धतृतीयांश्चैव क्रोशान् विष्कम्भतः, एतेषामपि स्वरूपादिवर्णनमनन्तरोक्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org