SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ मूलं-३४ २८५ तदाविर्भावतिरोभावमात्रं, यथा सर्पस्य उत्फणत्वविफणत्वे, तस्मात्सर्वं वस्तु नित्यमिति, एवंच तन्मतचिन्तायां संशयः किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेकरूपेति, ततः संशयापनोदार्थं भगवन्तं भूयः पृच्छति-'पउमवरवेइया ण'मित्यादि, पद्मवरवेदिका प्राग्वत् भदन्त ! कालतः कियच्चिरं-कियन्तंकालं यावद्भवति?, एवंरूपाहि कियन्तंकालमवतिष्ठतिइति?, भगवानाहगौतम! नकदाचिन्नासीत् सर्वदैवासीदितिभावः अनादित्वात्, तथा न कदाचिन्नभवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः सदैवभावात्, तथान कदाचिन्न भविष्यति, किंतु भविष्यचिन्तायांसर्वदैव भविष्यतीतिप्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायांनास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति-'भुविंच' इत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् ध्रुवा मेर्वादिवत् ध्रुवत्वादेव सदैव स्वस्वरूपनियता नियतत्वादेव च । शाश्वती-शश्वद्भवनस्वभावा शाश्वतत्वादेव च सततं गङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोच्चटनसंभवादक्षा, न विद्यते यो-यथोक्तस्वरूपाकारपरिभरंशो यस्याःसाअक्षया, अक्षयत्वादेव अव्यया–अव्ययशब्दवाच्या मनागपि स्वरूपचलनस्य चातुचिदप्यभावात्, अव्ययत्वादेव सदैव स्वस्वप्रमाणेऽवस्थिता, मानुषोत्तराद्वहि समुद्रवत्, एवं स्वप्रमाणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् । से 'मित्यादि, सा 'ण' मिति वाक्यालङ्कारे पद्मवरवेदिका एकेन वनखण्डेन सर्वतः समन्तात् परिक्षिप्ता, स च वनखण्डो देशोने द्वे योजने चक्रवालविष्कम्भवतः उपकारिकालयनपरिक्षेपपिणामो, वनखण्डवर्णकः 'किण्हे किण्होभासे' इत्यादिरूपःसमस्तोऽपिप्राग्वत्यावद्विहरन्ति, 'तस्सण'मित्यादि, तस्-उकारिकालयनस्य चउद्दिसं'ति चतुर्दिशिचतसृषुदिक्षुएकैकस्यां दिशिएकैकभावेनचत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रज्ञप्तानि, त्रिसोपानवर्णको यानविमानवत् वक्तव्यः । तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकमेकैकं तोरणं, तोरणवर्णकोऽपि तथैव, 'तस्सण मित्यादि, तस्य उपकारिकालयनस्य 'बहुसमरमणिज्जे भूमिभागे' इत्यादिना भूमिभागवर्णनकं यानविमानवर्णकवत्तावद्वाच्यं यावन्मणीनां स्पर्शः॥ ___ मू. (३५) तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगे पासाथवडेंसए पन्नत्ते, सेणं पासायवडिंसते पंच जोणसयाई उठं उच्चत्तेणं अड्डाइज्जाइंजोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय वण्णतो भूमिभागो उल्लोसो सीहासनं सपरिवार भाणियव्वं, अट्ठमंगलगा झया छत्ताइच्छत्ता। सेणंमूलपासायवडेंसगेअन्नेहिं चउहिं पासायवडेंसएहिं तयद्धच्चत्तप्पमाणमेत्तेहिंसव्वतोसमंता संपरिखित्ता, तेणं पासायवडेंसगा अड्डाइजाइंजोयणसयाइंउटुंउच्चत्तेणंपणवीसंजोयणसयं विक्खंभेणं जाव वण्णओ, ते णं पासायवडिंसया अण्णेहिं चउहिं पासायवडिंसएहिं तय चत्तप्पमाणमेत्तेहिं सव्वओसमंता संपरिखित्ता, तेणं पासायवडेंसया पणवीसंजोयणसयं उर्ल्ड उच्चत्तेणं बावठिं जोयणाइं अद्धजोयणं च विखंभेणं अब्भुग्गयमूसिय वण्णओ भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy