________________
मूलं-३१
२७५ कथं घट्टिता इत्याह-क्षोभितानां, स्वस्थानाच्चालमपि कुत इत्याह-उदीरितानामुत्-प्राबल्येन प्रेरितानां, कीशः शब्दः प्रज्ञप्तः?, भगवानाह
___'गोयमे' त्यादि, गौतम ! स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य वा, तत्र सिबिया जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घो जम्पानविशेषः पुरुषस्वप्रमाणावकाशदा या स्यन्दमानिका, अनयोश्चशब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतो वेदितव्यः, रथश्चेह संग्रामरथः प्रत्येयोऽग्रेतनविशेषणानामन्यथाऽसंभवात्, तस्य च फलकवेदिका यस्मिन् काले ये पुरुषास्तदपेक्षया ततिप्रमाणाऽवसेया, तस्य च रथस्य विशेषणान्यभिधत्ते ___'सछत्तस्स' इत्यादि, सच्छत्रस्य सध्वजस्य सघण्टाकस्य-उभयपाविलम्बिमहाप्रमाणघण्टोपेतस्य सपताकरय सह तोरणवरं-प्रधानतोरणं यस्य ससतोरणवरस्तस्य, सह नन्दीघोषो-द्वादशतूर्यनिनादो यस्यससन्दिघोषस्तरय, तथा सह किङ्किण्यः-क्षुद्रघण्टा येषामिति सकिङ्किणीकानि, हेमजालानि-यानि हेममयदामसमूहास्तैः सर्वासु दिक्षु पर्यन्तेषु-बहिप्रदेशेषु परिक्षिप्तो-व्याप्तस्तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्र-विचित्रमनोहारिविशेषोपेतं तिनिशतरुसंबन्धि कनकविच्छुरितंदारु-काष्ठंयस्यसहैमवतचित्रतैनिकशकनकनियुक्तदारुकस्तस्य, सूत्रे च द्वितीयः ककारः रवार्थिकः पूर्वस्य च दीर्घत्वं प्राकृतत्वात् ।
तथा सुष्ठु-अतिशयेन सम्यक् पिनद्धं बद्धमरकमण्डलं धूश्च यस्य स सुसंपिनद्धारकमंडलघूःकस्तस्य, तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृतं नेमेः-बाह्यपरिघेर्यन्त्रस्य च-अरकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायसकृतनेमियन्त्रकर्मा तस्य, तथा आकीर्णा-गुणैव्यार्पता ये वराः-प्रधानास्तुरगास्ते सुष्टु-अतिशयेन सम्यक् प्रयुक्ता-योजिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः तस्य, प्राकृतत्वात् बहुव्रीहावपि क्तान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्ये अतिशयेन छेको-दक्षः सारथिस्तेन सुष्टुसम्यक् परिगृहीतस्य।
तथा 'सरसयबत्तीसतोणपरिमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरशतानि तानिचतानि द्वात्रिंशत्तूणानि तैर्मण्डितः शरशतद्वात्रिंशत्तूणमण्डितः, किमुक्तंभवति?-एवं नाम तानि द्वात्रिंशत् शरशतभृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि संग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कण्टकः-कवचं सह कण्टको यस्य स सकण्टकः सकङ्कटोऽवतंसः-शेखरो यस्य ससकङ्कटावतंसस्तस्य, तथा सहचापं येषां ते सचाया ये शरा यानि च कुन्तभल्लिमुसण्ढिप्रभृतीनि नानाप्रकाराणि प्रहरणानि यानि च कवचकष्टकपप्रमुखानि आवरणानि तै तः-परिपूर्ण, तथा योधानां युद्धं तन्निमित्तं सद्यः-प्रगुणीभूतो यः स योधयुद्धसज्जरततः पूर्वपदेन सह विशेषणसमासः तस्य, इत्थंभूतस्य राजाङ्गणे वा अन्तःपुरे वा रम्ये वा मणिकुद्दिमतले–मणिबद्धभूमितले अभीक्ष्णमभीक्ष्णं कुडिमतलप्रदेशे वा। _ 'अभिघट्टिजमाणस्से तिअभिखच्यमानस्य वेगेन गच्छतो ये उदारामनोज्ञा कर्णमनोनिवृतिकराः सर्वतः समन्तात् जीवाभिगममूलटीकायामपि उप्पित्थं' श्वासुयुक्तमिति, तथाउत्प्राबल्येन अतितामलमस्थानतालं वा उत्तालं, श्लक्ष्णस्वरेण काकस्वरं, सानुनासिकं अनुनासि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org