________________
२५८
राजप्रश्नीयउपाङ्गसूत्रम्-२७ सव्वतवणिज्जमया उल्लोया नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अंकामया पक्खा पखवाहाओ जोइरसामया वंसा वंसकवेल्लुयाओ रयणामयाओ पट्टियाओजायरूवमईओ ओहाडणीओ वइरामईओ उवरिपुच्छणाओ सव्वसेयरययामयाच्छायणे अंकामया कणगकूडतवणिज्जथूभियागा सेया संखतलविमलनिम्मलदधिधणगोखीरफेरययणिगरप्पगासा तिलगरयणद्धचंदचित्ता नानामणिदामालंकिया अंतो बहिं च सहा तवणिजवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा।
वृ.कवसूर्याभस्य देवस्य सूर्याभं विमानं प्रज्ञप्तं ?, भगवानाह-गौतमः अस्मिन्जम्बूद्वीपे यो मन्दरः पर्वतरतस्य दक्षिणतोऽस्या रलप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वं चन्द्रसूर्यग्रहणगनक्षत्रतारारूपाणामापिपुरतो बहूनि योजनानि बहूनि योजनशतानि ततो बुद्धया बहुबहुतरोत्पवनेन बहूनि योजनसह साप्येवमेव बहूनि योजनशतसहस्राणि एवामेव च बहीर्योजनकोटीरमेवचबहीर्योजनकोटीकोटीरूर्द्धदूरमुत्पलुत्यअत्र-सार्द्धरजुप्रमाणेप्रदेशे सौधर्मों नाम कल्पःप्रज्ञप्तः, सचप्राचीनापाचीनायतः पूर्वापरायतः इत्यर्थः, उदग्दक्षिणविस्तीर्ण, अर्द्धचन्द्रसंस्थानसंस्थितो, द्वौ हि सौधर्मेशानदेवलोकौ समुदितौ परिपूर्णचन्द्रमण्डलसंस्थानसंस्थिती, तयोश्च मेरोदक्षिणवर्तीसौधर्मकल्प उत्तरवर्ती ईशानकल्पः ततो भवति सौधर्मकल्पः चन्द्रसंस्थानसंस्थितः, 'अच्चिमाली' इति अर्चीषि-किरणानितेषांमाला अर्चिाला साअस्यास्तीति अर्चिाली किरणमालासङ्कुल इत्यर्थः।
असङ्ख्येययोजनकोटीकोटीः ‘आयामविवखंभेणं तिआयामश्चविष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वरतेन, आयामेन च विष्कम्भेन चेत्यर्थः, असङ्ग्य्येया योजनकोटीकोट्यः 'परिआयामश्च विष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वरतेन, आयामेन च विष्कम्भेनचेत्यर्थः, असङ्ख्येयायोजन-कोटीकोट्यः परिक्खेवेणं" परिधिना सव्वरयणामए' इति सर्वात्मनारलमयः 'जावपडिरूवे' इति यावत्करणात् 'अच्छेसण्हे घटेम?' इत्यादिविशेषणकदम्बकपरिग्रहः, 'तत्य ण' मित्यादि, तत्र सौधर्मे कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति त्याख्यातं मया शेषैश्च तीर्थक-द्भिः।
तेणंविमाणे त्यादि, तानि विमानानि सूत्रेपुस्त्वंप्राकृतत्वात् सर्वरत्नमयानि-सामस्त्येन रत्नमयानि 'अच्छानि' आकाशस्फटिकवदतिनिर्मलानि अत्रापि यावत्करणात् ‘सण्हा लण्हा घट्टा मट्ठा नीरया' इत्यादि विशेषणजातंद्रष्टव्यं, तच्च प्रागेवानेकशोव्याख्यातं 'तेसिण' मित्यादि, तेषां विमानानां बहुमध्यदेशभागे त्रयोदशप्रस्तटे सर्वत्रापि विमानवतं सकानां स्वस्वकल्पचरमप्रस्तटस्तित्वात् पञ्चावंतसकाः-पञ्च विमानावतंसकाः प्रज्ञप्ताः, तद्यथा-अशोकावतंसकःअशोकावतंसकनामा,सचपूर्वस्यां दिशि, ततो दक्षिणस्यांसप्तपर्णावतंसकः पश्चिमायां चम्पकावसतंसकः उत्तरस्यांचूतावतंसकः मध्ये सौधर्मावतंसकः, तेचपञ्चापि विमानावतंसकाः सर्वरलमया 'अच्छाजावपडिरूवा इतियावत्करणादत्रापिसण्हालण्हाघट्टामट्ठा' इत्यादि विशेषणजातमव-गन्तव्यम्
___अस्य च सौधर्मावतंसकस्य पूर्वस्यां दिशि तिर्यक् असङ्ख्येयानियोजनशतसहस्राणि व्यतिव्रज्य-अतिक्रम्यात्र सूर्याभस्य देवस्य सूर्याभं नाम विमानंप्रज्ञप्तं, अर्द्ध त्रयोदशं येषांतानि अर्द्धत्रयोदशानि, सार्द्धानि द्वादशेत्यर्थः, योजनशतसहस्राण्यायामविष्कम्भेन, एकोनचत्वारिंशत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org