________________
मूलं - २३
२४९
स्वरप्रकारो लयस्तमनुसरन् गेयलयसुसम्प्रयुक्, तथा यः प्रथमं वंशतन्त्रयादिभि स्वरो गृहीतस्तनमार्गानुसारि ग्रहसुसम्प्रयुक्तं, तथा 'महुरि' ति मधुरस्वरेण गीयमानं, मधुरं कोकिलारुतवत्, तथा 'सममिति तलवंशस्वरादिसमनुगतं समं 'सललियं' ति यत्स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन - ललनेन वर्त्तते इति सललितं, यदि वा इति यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत्सललितमिति, अत एव मनोहरं, पुनः कथम्भूतमित्याह-‘मउरिभितपदसञ्चारं' तत्र मृदुर्मृदुनास्वरेण युक्तो न निष्ठुरेण तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेषेषु च सञ्चरन् रङ्गतीव प्रतिभासते (स) पदसञ्चारो रिभित उच्यते ।
मृदुरिभितः पदेषु गेयनिबद्धेषु संचारो यत्र गेये तन्मृदुरिमितपदसञ्चारं, तथा 'सुरइ' इति शोभना रतिर्यस्मिन् श्रोतॄणां ततः सुरति तथा शोभना नतिर्नामोऽवसानो यस्मिन् तत् सुनति तथा वरं- प्रधानं चारु-विशिष्टचङ्गिमोपेतं रूपं-स्वरूपं यस्य तद्वरचारुरूपं दिव्यं प्रधानं नृत्तसज्जं गेयं प्रगीता अप्यभवन्, 'किं ते' इत्यादि, किञ्च ते देवकुमारा देवकुमारिकाश्च प्रगीतवन्तः प्रनर्त्तितवन्तश्च 'उद्धमंताणं संखाणमित्यादि, अत्र सर्वत्रापि षष्ठी सप्तम्यर्थे, ततोऽयमर्थो - यथायोगमुदध्याममानादिषु शङ्खादिषु, इह शङ्खशृङ्गशद्विकाखरमुहीपेया पिरिपिरिकाणां वानमुद्धयानमिति प्रसिद्धं, प्रणवपटहानामामोटनं भंभाहोरम्भाणामास्फालनं भेरीझल्लरीदुन्दुभीनां ताडनं मुरजमृदङ्गनन्दीमृदङ्गानामालपनं ।
आलिङ्गकुस्तुम्बगोमुखीमर्दलानामुत्तालनं वीणाविपञ्चीवल्लकीनां मूर्च्छनं भ्रामरीषडभ्रामरीपरिवादनीनां स्यन्दनं वध्वासा (वव्वीसा) सुघोषनन्दिघोषाणां सारणं महतीकच्छपीचित्रवीणानां कुट्टनं आमोदझञ्झानकुलानामामोटनं तुम्बतूणवीणानां स्पर्शनं मुकुन्दहुडुक्काविचिक्काकडबानां मूर्च्छनं करटाडिंडिमकिणिककडंबानां वादनं दर्दरदर्द्दरिकाकुस्तुम्बरुकलसिकामड्डकानामुत्ताडनं तलतालकंतालानामाताडनं रिङ्गिसिकालत्तिकामकरिकाशिशुमारिकाणां घट्टनं वंशवेणुवालीपिरलीपिरलीबध्धगानां फुंकनमत उक्तं 'उद्धमंताणं संखाण' मित्यादि, 'तए णं से दिव्वे गीए' इत्यादि यत एवं प्रगीतवन्त इत्यादि, ततो णमिति पूर्ववत् तद्दिव्यं गीतं दिव्यं वादितं दिव्यं नृत्तमभवदितियोगः, दिव्यं नाम प्रधानं, 'एवमब्भुए गीए' इत्यादि, 'अब्भुए गीए अब्भुए वाइए अब्भुए नट्टे' अद्भुतं - आश्चर्यकारि 'सिंगारे वाइए सिंगारे नट्टे' सिंगारं-शृङ्गारं शृङ्गाररसोपेतत्वात् ।
अथवा शृङ्गारंनामलङकृतमुच्यते, तत्र यदन्यान्यविशेषकरमेनालङकृतमिव गीतं वादनं नृत्तं वा तत् शृङ्गारमिति, 'उरले गीए उराले वाइए उराले नट्टे' उदारं- स्फारं परिपूर्णगुणोपेतत्वात्, नतु कचिदपि हीनं, 'मणुणे गीए मणुण्णे वाइए मणुन्ने नट्टे' मनोज्ञं - मनोऽनुकूलं द्रष्टणां श्रोतॄणां च मनोनिर्वृतिकरमिति भावः, तच्च मनोनिर्वृतिकरत्वं सामान्यतोऽपि स्यात् अतः प्रकर्षविशेषप्रतिपानार्थमाह- 'मनहर' इति, 'मनहरे गीए मनहरे वाइए मनहरे नट्टे' मनो हरति-आत्मवशं नयति तद्विदामप्यतिचमत्कारकारितयेति मनोहरम्, एतदेवाह - 'उप्पञ्जलभूते' उप्पिंजलम् - आकुलकं उत्पिञ्जलभूते आकुलके भूते, किमुक्तं भवति ।
महर्द्धिकदेवानामप्यतिशायितया परमक्षोभोत्पादकत्वेन सकलदेवासुरमनुजसमुहचित्ताक्षेपकारीति, 'कहकहभूते' इति कहकहेत्यनुकरणं, कहकहेति भूतं प्राप्तं कहकहभूतं, किमुक्तं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org