________________
राजप्रश्नीयउपाङ्गसूत्रम्- २३
उपदर्श्य चैतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत । 'तए णमि' त्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च सूर्याभेन देवेन एवमुक्ताः सन्तो हृष्टा यावत्प्रतिशृष्वन्ति, अभ्युपगच्छन्तीत्यर्थः, प्रतिश्रुत्य च यत्र श्रमणो भगवान्महावीरस्तत्रोपागच्छति उपागत्य च श्रमणं भगवन्तं महावीरं त्रिकृत्व आदक्षिणप्रदक्षिणीकुर्वन्ति कृत्वा च वन्दन्ते नमस्यन्ति वन्दित्वा नमस्यित्वा च यस्मिन्प्रदेशे गौतमादयः श्रमणास्तत्र समकालमेव - एककालमेव समवसरन्ति, मिलन्तीत्यर्थः, समवसृत्य च समकमेव-एककालमेव अवनमन्ति - अधो नीचा भवन्ति, अवनम्य च समकमेव उन्नमन्ति, ऊर्ध्वमवतिष्ठन्ते इति भावः ।
२४८
तदनन्तरं चैवं क्रमेण सहितं सङ्गतं स्तिमितं चावनमनमुन्नमंन च वाच्यम्, अमीषां च सहितादीनां भेदः सम्यक्काशलोपेतनाटयोपाध्यायादेवागन्तव्यः, ततः स्तिमितं समयमुन्नमय समकमेव प्रसरन्ति, प्रसृत्य च मसकमेव यथायोगमातोद्यविधानानि गृह्णन्ति, गृहीत्वा च समकमेव प्रवादितवन्तः समकमेव प्रगीतवन्तः समकमेव प्रनर्तितवन्तः, किन्ते' इत्यादि किञ्च ते देवकुमारा देवकुमारिकाश्च एवं प्रगीता अप्यभवन्निति योगः, कथमित्याह - 'उरेण मंद' मित, सर्वत्र सप्तम्यर्थे तृतीया, उरसि मन्दं यथा भवति एवं प्रगीताः, 'शिरेण तारं कण्ठेन वितार' मिति शिरसि कण्ठेच तारं अतशयेन यथावल्लक्षणोपेतं किमुक्तं भवति ? उरसि प्रथमतो गीतमुत्क्षिप्यते उत्क्षेपकाले च गीतं मन्दं भवति, 'आदिमिउमारभंता' इति वचनात्, अन्यथा गीतगुणक्षतेः, तत उक्तं 'उरसि मन्द' मिति, ततो गायतां मूर्द्धानमभिधन् स्वर उच्चैरतरो भवति, स्थानकं च द्वितीयं तृतीयं वा समधिरोहति ।
ततः शिरसि तारमित्युक्तं, शिरसश्च प्रतिनिवृत्तः सन् स्वरः कण्ठे घुलति घुलंश्चातिमधुरो भवति ततः कण्ठे वितारमित्युक्तं तिविहंतिसमयरेयगरइयमिति, 'गुंजावंककुहरोवगूढं' गुञ्जनं गुञ्जा गुञ्ज प्रधानानि यानि अवक्राणि - शब्दमार्गाप्रतिकूलानि कुहराणि तेषूपगूढं गुञ्जाऽवक्रकहरोपगूढं, किमुक्तं भवति ? - तेषां देवकुमाराणां देवकुमारिकाणां च तमिन् प्रेक्षागृहमण्डपे गायता गीतं तेषु प्रेक्षागृहमण्डपसक्तेष्वन्येषु च कुहरेषु स्वानुरूपाणि प्रतिशब्दसहस्राण्युत्पापयद्वर्त्तते इति, 'रत्तमिति रक्तं इह यत् येगरागानुरक्तेन गीतं गीयते तत् रक्तमिति तद्विदा प्रसिद्धां 'तिट्ठाणकरणसुध्ध' मिति त्रीणि स्थानानि - उरःप्रभृतीनि तेषु करणेन क्रियया शुद्धं त्रिस्थानकरणशुद्धं, तद्यथा - उरः शुद्धं कण्ठशुद्धं शिरोविशुद्धंच, तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं स एव यदि कण्ठे वर्त्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्धं, यदि वा यत उरः कण्ठशिरोभि श्लेष्मणा अव्याकुलितैर्विशुद्धैर्गीयते तत उरः कण्ठशिरोविशुद्धत्वात्रिस्थानकरणविशुद्धं, तथा सकुहरो गुञ्जन् यो वंशो ये च तन्त्रीतलताललयग्रहास्तेषु सुष्ठु - अतिशयेन सम्प्रयुक्तं सकुहरगुञ्जद्वंशतन्त्रीतलताललयग्रहसुसम्प्रयुक्तं, किमुक्तं भवति ?
सकुहरे वंशे गुञ्जति तन्त्र्यांच वाद्यमानायां यद्वंशतन्त्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जद्वंशतन्त्रीसुसम्प्रयुक्तं, तथा परस्परहतहस्ततलस्वरानुवरत्तिं यत् यत् तलसुसम्प्रयुक्तं, यत् मुरजकंशिकादीनामातोद्यानामहतानां यो ध्वनि पादोत्क्षेपो यश्च नृत्यतां नर्त्तिकापादोत्क्षेपस्तेन समं तत् तालसुसम्प्रयुक्तं, तथा शृङ्गमयो दारूमयोदन्मयो वा योऽङ्गुलिकोशिकस्तेनाहतायास्तन्त्रयाः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org