________________
विपाकश्रुताङ्गसूत्रम् १/२/१३
'अहम्मपलज्जणे' अधर्म एव-हींसादौप्ररज्यते-अनुरागवान्भवतीत्यधर्मप्ररजनः अहम्मसमुदाचारों अधर्मरूपः समुदाचारः-समाचारोयस्यसतथा 'अहम्मेणंचेव वित्तिंकप्पेमाणे तिअधर्मेणपापकर्मणा वृत्तिं-जीविकां कल्पयमानः-कुर्वाणःतच्छील इत्यर्थः 'दुस्सीले दुष्टशीलः 'दुव्वए' अविद्यमाननियमइति दुप्पडियाणंदे' दुष्प्रत्यानन्दः-बहुभिरपिसन्तोषकारणैर-नुत्पद्यमानसन्तोष इत्यर्थः । 'अहीण'त्ति 'अहीणपुण्णपंचेंदियसरीरे'त्यादि दृश्यम् । 'आवन्नसत्त'त्ति गर्भे समापन्नजीवेत्यर्थः । ४ 'धन्नाओ णं ताओ अम्मयाओ'त्ति अम्बा-जनन्यः, इह यावत्करणादिदं दृश्यं-'पुन्नाओणंताओअम्मयाओ कयत्थाओणंताओ अम्मायओ कयलक्खणाओणंताओ, तासिं अम्मयाणसुलद्धे जम्मजीवियफले'त्ति व्यक्तं च ।
'ऊहेहियत्तिगवादीनांस्तनोपरिभागैः 'थणेहिय'त्तिव्यक्तं वसणेहियत्तिवृषणैः-अण्डैः 'छेप्पाहि यत्ति पुच्छैः ककुदैः-स्कन्धशिखरैः ‘वहेहि यत्ति वहै:-स्कन्धैः कर्णादीनि व्यक्तानि 'कंबलेहि यत्ति सास्नाभिः 'सोल्लिएहि यत्ति पक्कः 'तलिएहि यत्तिस्नेहेन पक्कः 'भज्जिएहि भ्रष्टैः 'परिसुक्कहिय'त्ति स्वतः शोषमुपगतैः ‘लावणेहियत्ति लवणसंस्कृतैः सुरातन्दुलधवादिछल्लीनिष्पन्न मधु च-माक्षिकनिष्पन्नं मेरकं-तालफलनिष्पन्नं जातिशेच-जातिकुसुमवर्णं मद्यमेव सीधु च-गुडधातकीसंभवं प्रसन्ना द्राक्षादिद्रव्यजन्या मनः प्रसत्तिहेतुरिति ।
आसाएमाणीओ'त्ति ईषत्स्वादयन्त्योबहुचत्यज्यन्त्य इक्षुखण्डादेरिव विसाएमाणीओ'त्ति विशेषेणखादयन्त्योऽल्पमेव त्यजन्त्यखजूरादेरिव परिभाएमाणीओ ति ददत्यः परिभुंजमाणीओ त्ति सर्वमुपभुजानाः अल्पमप्यपरित्यज्यन्त्यः शुष्का-शुष्केव शुष्का रुधिरक्षयात् 'भुक्ख'त्ति भोजनाकरणाद्धीनबलतया बुभुक्षायुक्तेव बुभुक्षा अत एव निर्मांसा ‘ओलुग्ग'त्ति अवरुग्णाभग्नमनोवृत्तिः 'ओलुग्गसरीरा' भग्नदेहा 'णित्तेय'त्तिगतकान्तिः 'दीनविमणवयणति दीनादैन्यवती विमनाः-शून्यचित्ता हीणा च-भीतेति कर्मधारयः, 'दीनविमणवयण'त्ति पाठान्तरं, तत्र विमनस इव-विगतचेतसइव वदनं यस्याः सा तथा, दीना चासौ विमनवदनाचेति समासः, 'पंडुल्लइयमुहा' पाण्डुकितमुखी पाण्डुरीभूतवदनेत्यर्थ; 'ओमंथियनयनवयणकमले'ति 'ओमंथिय'त्तिअधोमुखीकृतानिनयनवदनरूपाणि कमलानिययासा तथा, 'ओहय'त्ति 'ओहयमणसंकप्पा' विगतयुक्तायुक्तविवेचनेत्यर्थः, इहयावत्करणादिदंश्यं-'करतलपल्लत्थमुहा करतले पर्यस्तं-निवेशितं मुखं यया सा तथा 'अट्टज्झाणोवगया भूमीगयदिट्ठीया झियाइ'त्ति ध्यायतीचिन्तयति । इमंचणं'ति इतश्चेत्यर्थः ‘भीमे कूडग्गाहेजेणेव उप्पलाकूडग्गाही तेणेव उवागच्छति उवागच्छित्ता उप्रलं कूडग्गाहिणिं ओहयमाणसकप्प' इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण परिपूर्ण कृत्वाऽध्येयं, सूचामात्रत्वात्पुस्तकस्य ।
___'ताहिं इठ्ठाहि' इत्यत्र पञ्चकलक्षणादकादिदं दृश्यं-'कंताहिं पियाहिमणुन्नाहिं मणामाहिं' एकार्थाश्चैते, 'वग्गूहिति वग्भिः ‘एगे'त्ति सहायाभावात् 'अबीए'त्ति धर्मरूपसहायभावात् । ‘सन्नद्धबद्धवम्मियकवए' पूर्ववत्यावत्करणात् 'उप्पीलियसरासणपट्टीए' इत्यादि 'गहियाउपहरणे इत्येतदन्तं दृश्यम् ‘संपुन्नदोहल'त्ति समस्तवाञ्छितार्थपूरणात् 'सम्माणियदो हल'त्ति वाञ्छितार्थसमानयनात् ‘विणीयदोहल'त्ति वाञ्छाविनयनात् 'विच्छिन्नदोहल'त्ति विवक्षितार्थवाञ्छाऽनुबन्धविच्छेदात् ‘संपन्नदोहल'त्ति विवक्षितार्थभोगसंपाद्यानन्दप्राप्तेरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org