SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ मूलं-१६ २३७ अनेगवरपंचवण्णकुडभीसहस्सुस्सिए (परिमंयाभिरामे) वाद्धयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिते तुंगे गगनतलमणुलिहंतसिहरे जोअणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुबीए संपत्थिए। तयानंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सव्वालंकारभूसिया महया भडचडगहपहगरेणं पंचअणीयाहिवईणो पुरतो अहानुपुविए संपत्थिया। तयानंतरंचणं बहवे आभिओगिया देवा देवीओ य सएहिं २ रूवेहिं सएहिं २ विसेसेहिं सएहिं २ विदेहिंसएहिं २ नेजाएहिं सएहिं २ नेवत्थेहिं पुरतो अहाणुपुब्बीए संपत्थिया) तयानंतरं चणंसूरियाभविमाणवासिणो बहवेवेमाणिया देवाय देवीओय सचिड्ढीएजावरूवेणंसुरियाभं देवं पुरतो पासतो य मग्गतो य समनुगच्छंति ॥ वृ.'तएणंसे सेख्याभेदेवे' इत्यादि, दिव्यं प्रधानंजिनेन्द्रस्य-भगवतोवर्थमानस्वामिनोऽभिगमनाय-अभिमुखं गमनाय योग्यम्-उचितं जिनेन्द्राभिगमनयोग्यमुत्तरवैक्रियरूपं विकुति, विकुर्खित्वा चतसृभिरग्रमहिषीभि सपरिवाराभिभ्यिामनीकाभ्यां, तद्यथा-गन्धर्वानीकेन नाट्यानीकेन च, सार्द्धं, तत्र सहभावः स्वस्वाभिभावमन्तरेणापि दृष्टो, यथा समानगुणविभवयोर्द्वयोर्मित्रयोः, अतः स्वस्वामिभावप्रकटनार्थमाह-‘संपरिबुडे' सम्यगाराधकभावं बिभ्राणैः परिवृतः-सम्परिवृतः तदिव्यंयानावमानमनुप्रदक्षिणीकुर्वन्-पूर्वतोरणानुकूल्येन प्रदक्षिणीकुर्वन् पूर्वेण तोरणेनानुप्रविशति-स्विंहासनानुकूलं प्रविशति, प्रविशन् पूर्वेण 'त्रिसोपानप्रतिरूपकेण' प्रतिविशिष्टरूपेण त्रिसोपानेन तद् यानविमानं 'दुरुहइत्ति आरोहति, आरुह्य च 'जेणेव'ति यस्मिन्नेव देशे तस्यमणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य च सिंहासनवरगतः सन्पूर्वाभिमुखः सन्निषण्णः सम्यक् सकलसेवकजनचमत्कारकारिण्या उपवेशनस्थित्योपविष्टः ___'तएणमित्यादि, ततस्तस्य सूर्याभस्य देवस्य चत्वारि सामानिकदेवसहस्राणि तद् दिव्य यानविमानमनुप्रदक्षिणीकुर्वन्ति, उत्तरेण त्रिसोपानप्रतिरूपकेणारोहन्ति, 'पुव्वनवत्थेहिं' इत्यादि, अत्र सम्पम्यर्थे तृतीया, पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति, अवशेषाः-अभ्यन्तरपर्षदादयो देवा देव्यश्च दक्षिणेन त्रिसोपानप्रतिरूपकेणारोहन्ति, आरुह्य च स्वेषु भद्रासनेषु निषीदन्ति । तएणमि'त्यादि, ततस्तस्य सूर्याभस्य देवस्यत दिव्यंयानविमानमारूढस्य पुरतोऽष्टाष्टमङ्गलकानि यथानुपूर्व्या-वक्ष्यमाणपाठक्रमेणेत्यर्थः, सम्प्रस्थितानि, तद्यथा-'सोत्थियसिरिवच्छे'त्यादि, पूर्व स्वस्तिकः तदनन्तरं श्रीवत्सस्तदनन्तरंपूर्णकलशभृङ्गारदिव्यातपत्रपताकाः सचामराः, कथम्भूताः? इत्याह-'दर्शनरतिका' दर्शने-अवलोकने रतिर्यासुता दर्शनरतिकाः, इह दर्शनरतिकमपि किञ्चिदालोकदर्शनीयंन भवत्यमङ्गलत्वात् यता गर्भवती युवतिः, अत आह-आलोकेबहि प्रस्थानसमयभाविनि दर्शनीया-द्रष्टुं योग्या मङ्गल्यत्वात्, अन्ये त्वाहुः-आलोके दर्शनीया न पुनरत्युच्चा आलोकदर्शनीया, तथा वातोद्भुता विजयसुचिका वैजयन्तीति विजयवैजयन्तीच उत्सृता-ऊर्वीकृता गगनतलम्-अम्बरतलमनुलिखन्ती-भिलङ्घयन्ती 'पुरतो' यथानुपूर्व्या सम्प्रस्थिता। 'तयानंतरंचणमित्यादि, तदनन्तरं वेरुलियभिसंतविमलदंड मिति वैडूर्यो' वैडूर्यरलमयो भिसंतो-दीप्यमानो विमलोनिमलो दण्डो यस्य तत्तथा 'पलंबकोरंटमल्लदामोवसोहिय'मिति, प्रलम्बते इति प्रलम्बि तेन-प्रलम्बमानेन कोरण्टमाल्यदाम्ना-कोरण्टपुष्पमालयोपशोभितं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy