________________
__राजप्रनीयउपाङ्गसूत्रम् - ११
हस्त्यादिसैन्येन सर्वसमुदायेन - स्वस्वाभियोग्यादिसमस्तपरिवारेण, सर्वादरेण समस्तयावच्छक्तिकुलनेन सर्वविभूत्या - सर्वया अभ्यन्तरवैक्रियकरमादिबाह्यरत्नादिसम्पदा सर्वाविभूषया यावच्छक्तिस्फारोदारशृङ्गारकरणेन सव्वसंभणेणंति सर्वोत्कृष्टेन संभ्रमेन, सर्वोत्कृष्टसम्भ्रमो नामेह स्वनायकविषयबुमानख्यापनपरा स्वनायकोपदिष्टकार्यसम्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्ति, 'सव्वपुप्फवत्थगंधमल्लालंकारेणं' अत्र गन्धावासाः माल्यानि - पुष्पदामानि अलङ्काराआभरणविशेषाः, ततः समाहारो द्वन्द्वस्ततः सर्वशब्देन सह विशेषणसमासः ।
२२०
'सव्वदिव्वतुडियसद्दसंनिनाएणमिति सर्वाणि च तानि दिव्यत्रुटितानि च सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दाः तेषामेकत्र मीलनेन यः सङ्गतेन नितरां नादो - महान् घोषः सर्वत्रुटितदिव्य शब्दसन्निनादस्तेन, इह अल्पेष्वपि सर्वशब्दो द्दष्टो यथा 'अनेन सर्वं पीतं धृत' मिति, तत आह-‘महता इड्ढीए' इत्यादि महत्या यावच्छ्रिततुलितया ऋद्धया परिवारादिकया, एवं 'महता जूईए' इत्याद्यपि भावनीयं, तथा महतां - स्फूर्त्तिमतां वराणां प्रदानानां तुडितानांआतोद्यानां यमकसमकम्-एककालं पटुभि पुरुषैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे संखपणवपडहमेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदंदुभिनिग्धोसनाइतरवेण' शङ्खः - प्रतीतः, पणवो भाण्डानां, पडहः प्रतीतः भेरी - ढक्काझल्लरी - चर्मावनद्धा विस्तीर्णा वलयाकारा खरमुहीकाहला हुडुक्क-प्रतीता महाप्रमाणो मर्द्दलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभि - भेर्याकारा सङ्कटमुखी एतेषां द्वन्द्वस्तासां निर्घोषो महान् ध्वानो नादितं च- घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो रवस्तेन, 'नियगपरिवार सद्धिं संपरिवुडा' इति निजकः - परिवाररीत्या परिवृताः सम्परिवृताः, 'अकालपरिहीणं चेवे' ति परिहानि-परिहीनं कालस्य परिहीनं कालविलम्ब इति भावः न विद्यते कालपरिहीनं यत्र प्रादुर्भवने तदकालपरिहीनं, क्रियाविशेषणमेतत्, 'अंतिए पाउब्भवह' अन्तिके - समीपे प्रादुर्भवत, समागच्छतेति भावः ॥
सू. (१२) तए णं से पायत्ताणियाहिवती देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्ठतुट्ठजावहियए एवं देवा ! तहत्ति आणाए विनएणं वयणं पडिसुणेति, पडि २ त्ता जेणेव सूरियामे विमाने जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छति २ त्ता तं मेघोघरसितगंभीरमहुरसद्दं जोयणपरिमंडलं सुसरं घंटं तिखुत्तो उल्लालेति ।
तए णं तीसे मेघोघरसितगंभीरमहुरसद्दाते जोयणपरिमंडलाते सुसराते घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सुरियामे विमाणे पासायविमाननिक्खुडावडियसद्दघंटापडिसुयासयसहस्ससंकुले जाए यावि होत्था ।
तए णं ते सूरियाभविमाणवासिणं बहूणं वेमामियाणं देवाण य देवीण य एगंतरइपसत्तनिच्चप्पमत्तविसयसुहमुच्छियाणं सुसरघंटारवविउलबोल (तुरियचवल) पडिबोहणे कए समाणे घोसणकोउहलादिन्नकन्नएगग्गचित्तउवउत्तमाणसाणं से पायत्तानीयाहिवई देवे तंसि घंटारवंसि निसंतपसंतंसि महया महया सद्देणं उग्घोसेमाणे उग्घोसेमाणे एवं वदासी
हंतं सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य ! सूरियाभविमाणवइणो वयणं हियसुहत्थं आणवणियं भो ! सूरियाभे देवे गच्छइ णं भो सूरियाभे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International