________________
२१८
राजप्रश्नीयउपाङ्गसूत्रम्-१०
-
चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्राः, 'उरस्सबलसमण्णागए' इति उरसि भवं उरस्यं तच्च तद्बलं च उरस्यबलं तत्समन्वा गतः-समनुप्राप्तः उस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्त इतिभावः, तलजमलयुगलवाहू तली-तालवृक्षौतयोर्यमलयुगलंसमश्रेणीकं युगलंतलयमलयुगलं तदतिसरलौ पीवरौ च बाहु यस्य स तलयमलयुगलबाहुः ‘लंघमपवणजइणपमद्दणसमत्थे' इति लखने-अतिक्रमणे प्लवने-मनाक्पृथुतरविक्रमवतिगमनेजवने-अतिशीघ्रगतौ प्रमर्दनेकठिनस्यापि वस्तुनश्रूण्र्णनकरणे समर्थ लङ्घनप्लवनजनवप्रमईनसमर्थः।।
कवचित् ‘लंघणपवणजइणवायामणसमत्थे' इति पाठः, तत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, छेको-द्वासप्ततिकलापण्डितो, दक्षः-कार्याणामविलम्बितकारी प्रष्ठो-वाग्मी कुशलः-सम्यकक्रियापरिज्ञानवान् मेघावी परस्पराव्याहतः पूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए' इति निपुणः तथा भवति एवं शिल्पं-क्रियासु कौशलं उपगतः-प्राप्तो निपुणशिल्पोपगतः एकंमहान्तं शिलाकाहस्तक-सरित्पर्णादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सम्मार्जनीमित्यर्थः, वाशब्दो विकल्पार्थो, दंडसंपुच्छणिवा' इति दण्डयुक्ता सम्पुच्छनीसन्मार्जनी दण्डसम्पुच्छनीतांवा 'वेणुसिलागिगंवा' इति वेणुः-वंशस्तस्य शलाका वेणुशलाकास्ताभिर्निवृत्ता वेणुशलाकाकी-वेणुशलाकामयी सम्मार्जनीतांवा गृहीत्वा राजाङ्गणंराजान्तःपुरं वादेवकुलं वा ‘सभांवा' सन्तो भान्त्यस्यामिति सभा-ग्रामप्रधानानां नगरप्रधानानां यथासुखमवस्थानहेतुर्मण्डपिका तां वा।
___ 'प्रपां वा' पानीयशाला 'आरामं वेति' आगत्यागत्य भोगपुरुषा वरतरुणीभि सह यत्र रमन्ते-क्रिडन्ति स आरामो नगरान्नातिदूरवत्तीक्रिडाश्रयः तरुखण्डः तं 'उज्जाणं वेति' ऊर्द्ध विलम्बितानि प्रयोजनाभावात् यानानि यत्र तदुद्यानं-नगरात्प्रत्यासन्नवर्ती यानवाहनक्रिडागृहाद्याश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे वा सम्यक्कचवराद्यपगमासम्भवात्, निरन्तरंनत्वपान्तरालमोचनेन, सुनिपुणंश्लक्ष्णस्याप्यचोक्षस्यापसारणेन, सर्वतः-सर्वासुदिक्षु विदिक्षुसमन्ततः-समास्त्येन सम्प्रमार्जयेत्, एवमेवे त्यादि, सुगमं यावत् खिप्पामेव पच्चुवसमंती'त्यादि, एकान्तेतृणकाष्ठाद्यपनीय क्षिप्रमेव-शीघ्रमेवप्रत्युपशाम्यन्ति प्रत्येकं ते आभियोगिका देवाः “उपशाम्यन्ति' संवर्तकवायुविकुर्वण्णान्निवर्तन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः, ततो 'दोचंपि वेउब्वियसमुग्धाएणंसमोहणंति' संवर्तकवातविकुर्वमाहियढेलाद्वयमपिवैक्रयसमुद्घातेनसमवहननंतत्किलैकंइदं त्वअवार्दलकविकुर्वणार्थ द्वितीयमतउक्तं-द्वितीयमपिवारंवैक्रयसमुद्घातेनसमवहन्यन्ते (नन्ति),समवहत्य चाब्अवार्दलकानि विकुर्वन्ति, वाः-पानीयं तस्य दलानि वार्दलानि तान्येव वार्दलकानि मेघा इत्यर्थ, अपो बिभ्रतीति अप्राणि-मेघाः, अाणि सन्त्यस्मिन्निति ‘अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः,
आकाशमित्यर्थ, अब्भ्रे वादलकानि अब्भ्रवादलकानि तानि विकुर्वन्ति, आकासे मेघानि विकुर्वन्तीत्यर्थः।
‘से जहानामए भइगदारगे सिया' इत्यादि पूर्ववत् निउणसिप्पोवगए एगं महमित्यादि, सयथानामको भृतिकदारक एकं महान्तं 'दकवारकंवा' मृत्तिकामयभाजनविशेषंदगकुंभगंवा 'ति दकघटं दकस्थालकं वा-कंसादियमयमुकदमृतं भाजनं दककलसं वा-उदकभृत भङ्गारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org