________________
मूलं - ८
२१५
नस्सिया हरिसवसविसप्पमाणहियया' इति द्रष्टव्यं, 'करयलपरिग्गहिय' मित्यादि, द्वयोर्हस्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां करतलाभ्यां परिगृहीता - निष्पादिता करतलपरिगृहीता तां दशनखा यस्यां एकैकस्मिन् हस्ते नखपञ्चकसम्भवात् दशनखातां तथा आवर्त्तमानवर्त्तः शिरस्यावर्त्तो यस्याः सा शिरस्यावर्त्ता 'कण्ठेकाल उरसिलोमे' त्यादिवत् अलुक् समासः, ताम्, अत एवाह
मस्तके कृत्वा विनयेन वचनं सूर्याभस्य देवस्य प्रतिशृण्वन्ति - अभ्युपगच्छन्ति, कथम्भूतेन विनयेनेत्याह- 'एवं देवो तहत्ति आणाए' इति हे देव ! ' एवं ' यथैव यूयमादिशत तथैवाज्ञयाभवदादेशेन कुर्म्म इत्येवंरूपेण, देवो इत्यत्रौकार आमन्त्रणे प्राकृतलक्षणवशात्, यथा 'अज्जी' इत्यत्र, प्रतिश्रुत्य वचनं 'उत्तरपुरच्छिमं' उत्तरपूर्वदिग्मागं, ईशानकोणमित्यर्थः, तस्यात्यन्तप्रशस्तत्वात्, अपक्रमन्ति–गच्छन्ति, अपक्रम्य च वैक्रियसमुद्घातेन - वैक्रियकरणाय प्रयत्नविशेषेण समोहनन्ति-समवहन्यन्ते समवहता भवन्तीत्यर्थः, समवहताश्चात्मप्रदेशातन् दूरतो विक्षिपन्ति, तथा चाह- 'संखेज्जाणि जोयणाणि दंडं निस्सरन्ति' दण्ड इव दण्डः -- ऊर्द्धाध आयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तं शरीराद्वहि सङ्ख्येयानि योजनानि यावन्निसृजन्ति निष्काशयन्ति निसृज्य तताविधान पुद्गलानाददते, एतदेव दर्शयति, तद्यथा -
रत्नानां कर्केतनादीनां १ वज्राणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लाणं ५ हंसगर्भाणां ६ पुद्गलानां ७ सुगन्धिकानां ८ ज्योतीरसानां ९ अञ्जनपुलकानां १० अञ्जनानां ११ रजतानां १२ जातरूपाणां १३ अङ्कानां १४ स्फटिकानां १५ रिष्ठानां १ ६ योग्यान् यथाबादरान्- असारान् पुद्गलान् परिशातयन्ति यथासूक्ष्मान् सारान् पुद्गलान् पर्याददते पर्यादाय चिकीर्षितरूपनिर्माणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते, समवहत्य च यथोक्तानां रत्नादीनामयोग्यान् यथाबादरान् पुद्गलान् परिशातयन्ति यथासूक्ष्मानाददते आदाय च ईप्सितानि उत्तरवै क्रियाणि विकुर्वन्ति, ननु रत्नादीनां प्रायोग्याः पुद्गला औदारिका उत्तरवैक्रयरूपयोग्याश्च पुद्गला ग्राह्या वैक्रियास्ततः कथमेवं युक्तमिति ?
उच्यते, इह रत्नादिग्रहणं सारतामात्रप्रतिपादनार्थं, ततो रत्नादीनामिवेति द्रष्टव्यमिति न कश्चिद्दोषः, अथवा औदारिका अपि तैः गृहीताः सन्तो वैक्रयतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात् (तथा) तथापरिणमनस्वभावत्वादतोऽपि न कश्चिद्दोषः, तत एवमुत्तरवैक्रियाणि रूपाणि कृत्वा तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोग तिनामोदयात् प्रशस्तया शीघ्रसञ्चरणात् ‘त्वरितया' त्वरा सञ्जाता अस्या इति त्वरिता तया प्रदेशान्तरक्रभणवती चपला तया क्रोधाविष्टस्येव श्रमासंवेदनाद् चण्डेव चण्डा तया निरन्तरं शीघ्रत्वगुणयोगात् शीघ्रा तया शीघ्रया परमोत्कृष्टवेगपरिणामोपेता जवना तया वातोद्धूतस्य दिगन्तव्यापिनो रजस इव या गति ।
सा उद्धूता तया दिव्यया- दिवि देवलोके भवा दिव्या ताय देवगत्या तिर्यगसङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन, मध्येनेत्यर्थ, गृहंगृहेण मध्यंमध्येन पदंपदेन सुखंमुखेनेत्यादयः शब्दाश्चिरन्तनव्याकरणेषु सुसाधवः प्रतिपादिता इति नायमपप्रयोगः, अवपतन्योऽवपतन्तः, समागच्छन्त इति भावः, पूर्वान् पूर्वान् द्वीपसमुद्रा व्यतिक्रमन्तो व्यतिक्रमन्तः, उल्लङ्घयन्त इत्यर्थः, शेषं सुगमं यावत्
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org