________________
२१३
मूलं-७ नमंसह वंदित्ता नमंसित्ता साइंसाइं नामगोयाइं साहेह साहित्ता समणस्स भगवओ महावीरस्स (सव्वओ समंता) जोयणपरिमंडलं
-जंकिंचि तणं वा पत्तं वा कटुं वा सक्करं वा असुइं अचोक्खं वा पूइअंदुभिगंधं सव्वं आहुणिय आहुणिय एगंते एडेह एडेता नचोच्दगं नाइमट्टियं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभिगंधोदयवासं वसह वासित्ता निहयरयं नट्टरयं भट्टरयं उवसंतरयं पसंतरयं करेह करित्ता जलथलयभासुरप्पभूयस्सबिंटट्ठाइस्स दसद्धवणस्स कुसुमस्स जाणुस्सेहपमाममित्तंओहिं वासं वासह वासित्ता।
कालागुरुपवरकुंदुरुक्कतुरुक्कधवमधमधंतगंधुझ्याभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोग्गं करेह कारवेह करित्ता यकारवेत्ताय खिप्पामेव (मम) एयमाणत्तियं पञ्चप्पिण्णह।
वृ. 'तं गच्छह णमित्यादि, यस्मादेवं भगवान् विहरन् वर्तते तत्-तस्माद्देवानां प्रिया ! यूयंगच्छत जम्बूद्वीपं २ तत्रापि भारतं वर्षं तत्राप्यामलकल्पां नगरी तत्राप्याम्रशालवनं चैत्यं श्रमणंभगवन्तं महावीरंत्रिकृत्वः-त्रीन वारान् आदक्षिणप्रदक्षिणंकुरुत, आदक्षिणाद्दक्षिणहस्तादारभ्यप्रदक्षिणः-परितो भ्राम्यतो दक्षिणआदक्षिणप्रदक्षिणस्तं कुरुत, कृत्वाचवन्दध्वं नमस्यत, वन्दित्वा नमस्यित्वा च साइंसाइंति स्वानि २ आत्मीयानि २ नामगोत्राणि, गोत्रम्-अन्वर्थस्तेन युक्तानि नामानि नामगोत्राणि, राजदन्तादिदर्शनान्नामशब्दस्य पूर्वनिपातः, सादयत-कथयत्, कथयित्वा च श्रमणस्य भगवतो महावीरस्य सर्व्वतः-सर्वासु दिक्षु समन्ततः सर्वासु विदिक्षु योजन परिमण्डलं-परिमाण्डल्येन योजनप्रमाणं यत् क्षेत्रं तत्र यत् 'तृणं' किलिश्चादि काष्ठं वा काष्ठशकलं वा पत्रं वा निम्बाऽश्वत्थादिपत्रजातं कचवरं वा-श्लक्ष्णतुणधूल्यादिपुञ्जकूपं, कथम्भूतमित्याह - ___'अशुचि' अशुचिसमन्वितमचोक्षम्-अपवित्रंपूयितं कुथितमतएव दुरभिगन्धंतत्संवर्तकवातविकुर्वणेनाहत्याहत्य एकान्ते-योजनपरिमण्डलाक्षेत्राद्दवीयसि देशे ‘एडयत' अपनयत एडयित्वाचनात्युदकंनाप्यतिमृत्तिकंयथा भवति एवं सुरभिगन्धोदकवर्षं वर्थ, कथम्भूतमित्याहदिव्यं-प्रधानं सुरभिगन्धोपेतत्वात्, पुनः कथम्भूतमित्याह-'पविरलपप्फुसिय मितित प्रकर्षण यावद्रेणवः स्थगिता भवन्तितावन्मात्रेणोत्कर्षेणेतिभावः, स्पर्शनानि प्रस्पृष्टानिप्रविरलानिधनभावे कर्दमसम्भवात्प्रस्पृष्टानि-प्रकर्षवन्ति स्पर्शनानिमन्दस्पर्शनसम्भवेरेणुस्थगनासम्भवात् यस्मिन्वर्षे तप्रविरलप्रस्पृष्टं, अत एव ‘रयरेणुविणासणं' श्लक्ष्णतरा रेणुपुद्गला-रजःत एव स्थूला रेणवः, रजांसि च रेणवश्व रजौरेणवस्तेषां विनाशनं ।
__ एवम्भूतंच सुरभिगन्धोदकंवर्षवर्षित्वा योजनपरिमण्डलं क्षेत्रं निहतरजः कुरुतेतियोगः, निहतंरजोभूय उत्थानासम्भवात्यत्रतनिहतरजः, तत्र निहतत्वंरजसःक्षणमात्रमुत्थानाभावेनापि सम्भवतितत आह-नष्टरजः नष्टं सर्वथाऽद्दश्यीभतं रजोयत्रतन्नष्टरजः, तथा भ्रष्टं-वातोद्भूततया योजमनमात्रात्क्षेत्रात्दूरतः पलायितंरजो यस्मात्तभ्रष्टरजः, एतदेव एकार्थिकद्वयेनप्रकटयतिउपशान्तरजःप्रशान्तरजः कुरुत, कृत्वाच कुसुमस्य जातावेकवचनंकुसुमजातस्य जानूत्सेधप्रमाणमात्रमोघेन-सामान्येन सर्वत्र योजनपरिमण्डले क्षेत्रे वर्षं वर्षत, किंविशिष्टस्य कुसुमस्येत्याह
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only