SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९६ राजप्रश्नीयउपाङ्गसूत्रम्-१ ततः पूर्वपदेनकर्मधारयः, 'सिंघाडगतियचउक्चरचरपणियापणविविहवसुपरिमंडिया' शृङ्गाटकत्रिकचतुष्कचत्वरैः पणितानि-क्रयाणकानि तत्प्रधानेषु आपणेषु यानि विवधानि वसनि-द्रवाणि तैश्च परिमण्डिता, शृङ्गाटकं-त्रिकोणं स्थानं, त्रिकं-यत्र रथ्यात्रयं मिलति, चतुष्कं-रथ्याचतुष्कमीलनात्मकं, चत्वरं-बहुरथ्यापातस्थानं, 'सुरम्मा' सुरम्या-अतिरम्या, 'नरवइपविइन्नमहवइपहा' नरपतिना-राज्ञा प्रविकीर्णोगमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गो यस्यां सा तथा, 'अनेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइण्णजाणजोगा' अनेकैर्वतरतुरगाणांमत्तकुञ्जराणां रथानांच पहकरैः-सङ्घातैः तथा शिबिकाभिः स्यदमानीभिर्यानयुग्यैश्चाकीर्णा-व्याप्तायासातथा, आकीर्णशब्दस्यमध्यनिपातः प्राकृतत्वात्, तत्रशिबिकाः-कूटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाःपुरुषप्रमाणाजम्पानविशेषा यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येव, 'विमउलनवनलिणसोमियजला विमुकुलैः-विकसितैर्नवैलिनैः-समलैः शोभितानि जलानि यस्यां सा तथा, 'पंडुरवरभवनपंतिपहिया उत्ताणयनयणपिच्छणिज्जा' इति सुगमं । _ 'पासाइया' इत्यादि, प्रासादेषु भवाप्रासादीया, प्रासादबहुला इत्यर्थ, अत एव दर्शनीया द्रष्टुंयोग्या, प्रासादानामतिरमणीयत्वात्, तथा अभिद्रष्टन्प्रतिप्रत्येकमभिमुखतीवचेतोहारित्वात् रूपम्-आकारो यस्यां-साअभिरूपा, एतदेव व्याचष्टे-प्रतिरूपा, प्रतिविशिष्टम्-असाधारणण् रूपण-आकारो यस्यां सा प्रतिरूपा। मू. (२) तीसेणं आमलकप्पाए नयरीए बहिया उत्तरपुरस्थिमे दिसीमा अंबसालवने नामं चेइए होत्था, पोराणे जाव पडिरूवे । वृ. "तीसेण"मित्यादि, तस्यांणमिति पूर्ववत् आमलकल्पायांनगर्यां वहि उत्तरपौरस्त्येउत्तरूपरिपेईशाणकोणे इत्यर्थः, दिग्भागे अम्बसालवने इतिआप्रैः शालैश्वातिप्रचुरतयोपलक्षितं यद्वनं तदाम्रशालवनं तद्योगाचैत्यमपि आम्रशालवनं, चितेःलेप्यादिचयनस्य भावः कर्म वा चैत्यंतच्चइहसंज्ञाशब्दत्वात् देवताप्रतिबिम्वे प्रसिद्धं ततस्तदाश्रयभूतंयदेवनाया गृहंतदप्युपचारात् चैत्यं, तच्चेह व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामर्हतामायतनं, ‘होत्थ'त्ति अभवन् तच्च किंविशिष्टमित्याहचिरातीते पुराणे यावच्छब्दकरणात् ‘सद्दिए कत्तिए नाए स्छत्ते सज्झए' इत्याद्यौपपातिकग्रन्थप्रसिद्धवर्णकपरिग्रहः । एवंरूपंचचैत्यवर्णकमुकत्वावनखण्डवक्तव्यता वक्तव्या, साचैवं-'सेणंअंबसालवने चेइए एगेणं मइया वनसंडेणं सव्वओ समंता संपरिक्खित्ते, से णं नसंडे किण्हामासे इत्यादि यावत्पासाइएदरिसणिज्जेअभिरुवेपडिरूवे तत्र प्रसादीयं-कृष्णावभासत्वादिना गुणेनमनःप्रसादहेतुत्वाद्दर्शनीयं चक्षुरानन्दहेतुत्वात्, अभिरूपप्रतिरूपशब्दार्थप्राग्वत्, तत उक्तं-'जावपडिरूवे' मू. (३) असोयवरपायवपुढविसिलावट्टयवत्तव्वया उववातियगमेणं नेया॥ वृ. अशोकवरपादपस्य पृथिवीशिलापट्टकस्य च वक्तव्यता औपपातिकग्रन्थानुसारेण ज्ञेया, सा चैवं-'तस्स णं वनसंडस्स बहुमज्झदेसभाए इत्थ णं महं एगे असोगवग्पायवे पन्नत्ते जावपडिरूवे, सेणंअसोगवरपायवे अन्नेहिं बहूहिं तिलएहिंजाव नंदिरुकखेहिं सव्वओ समंता संपरिकाखित्ते, ते णं तिलगा जाव नन्दीरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy