________________
मूलं-9
१९५
शरीरविनाशकारिभिर्ग्रन्थिभेदैः ग्रन्थिच्छेदैः तस्करैः खण्डरक्षैः - दण्डपाशिकै रहिता, अनेन तत्रोपद्रवकारिणामभावमाह, 'क्षेमा' अशिवाभावात्, 'निरवद्दवा' राजादिकृतोपद्रवाभावात्, 'सुमिक्षा' भिक्षुकाणां भिक्षायाः सुलभत्वात्, 'विसत्यसुहावासा' विश्वस्तो- निर्भयः सुखमावासो लोकानां यस्यां सा तथा ।
‘अनेगकोडिकोडुंबियाइण्णनिव्वुत्तसुहा' अनेककोटीभिः - अनेककोटिसङ्ख्याकैः कौटुम्बिकैराकीर्णा निरवृत्ता सन्तुष्टजनयोगात् शुभा शुभवस्तूपेतत्वात्, ततः पदर्यस्य कर्मधारयः, “नडनट्टजल्लमल्लमुट्ठियवे लंबगकहगपवकलासक आइकखयलं खमखतूणइल्लतुं बवीणिय अनेगतालाचराणुचरिया" नटा-नाटयितारो, नर्त्तका ये नृत्यन्ति, जल्ला - राज्ञः स्तोत्रपाठकाः, मुल्लाः प्रतीता मौष्ठिका - मल्ला एव ये मुष्टिभि प्रहरन्ति, विडम्बकाः - विदूषकाः कथकाः - प्रतीताः प्लवका - ये उत्पल्वन्ते नद्यादिकं वा तरन्ति, लासका - ये रासकन् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायिका - ये सुभाशुभमाख्यान्ति लङख्या - महावंशाग्रखेलका मङ्खाःचित्रफलकहस्ता भिक्षुकाः, 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः तुम्बवीणिकाःतुम्बवीणावादका,
अनेके च ये तालाचराः - तालादानेन प्रेक्षाकारिणः, एतैः सर्वैरनुचरिता - आसेविता या सातथा, “आरामुज्जाण अगडतलागदीहियवप्पिणिगुणो ववेया" आरामा यत्र माधवीलतागृहादिषु दम्पत्यादीन्यागत्य रमन्ते, उद्यानामि - पुष्पादिमदृक्षसङ्कुलान्युत्सवादी बहुजनभोग्यानि अगडत्तिअवटाः कूपास्तकाडानि - प्रतीतानि दीर्घिकाः -सारिण्यः, विप्पिणित्ति - केदाराः, एते गुणोपपेतारम्यतादिगुणोपपेता यस्यां सा तथा, 'उव्विद्धविउलगं मीरखातफलिहा' उव्विद्धं-उण्डं विउलंविस्तीर्णगम्भीरम् - अलब्धमध्यं खातम् - उपरिविस्तीर्णमधः सङ्कुचितं परिखाच - अधउपरि च समखातरूपा यस्यां सा तथा, 'चक्कगयमुसंढिओरोहसयग्धिजमलकवाडघणदुप्पवेसा' चक्रणिप्रहरणविशेषरूपाणि गदाः प्रहरणविशेषाः मुषण्ढयोऽप्येवंरूपा अवरोधः - प्रतोलीद्वारेष्वन्तः प्राकारः सम्भाव्यते, शतध्यो महायष्यटो महासिला वा याः पातिताः शतानि पुरुषाणां घ्नन्ति यमलानि - समस्थितद्रव्यरूपामि यानि कपाटानि धनानि च निश्छिद्राणि तैर्दुष्प्रवेश या
सा तथा ।
'धणुकुडिलवंकपागारपरिखित्ता' धनुकुडिलं-कुटिलं धनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितसंस्थितैःवर्तुलकृतसंस्थानैर्विराजमाना - शोभमाना या सा तथा, 'अट्टालयचरियदारगोपुरतोरणउन्नयसुविभत्तरायमग्गा' अट्टालकाः - प्राकारोपरिमृत्याश्रयविशेषाः चरिका - अष्टहस्तप्रमाणो मार्गः द्वाराणि-भवनदेवकुलादीनां गोपुराणि - प्राकारद्वारामि तोराणानि च उन्नतानि - उच्चानि यस्यां सा तथा, सुविभक्ता - विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्म्मधारयः, 'छेयायरियरइयदढफलिहइंदकीला' छेकेन - निपुणेनाचार्येण - शिल्पोपाध्याये रचितो ध्ढो बलवान् परिधः - अर्गला - वणिकपथानां हट्टमाग्र्गाणा वणिजां च क्षेत्रं स्थानं सा विवणिवणिकक्षेत्रं तथा शिल्पिभिः कुम्भप्रकारादिभिर्निवृत्तैः - सुखिभि शुभैः - स्वस्वकर्मकुशलैराकीर्मा, प्राकृतत्वाच्च सूर्तेऽन्यथा पदोपन्यासः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org