SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८८ औपपातिकउपाङ्गसूत्रम्-५७ वृ.अलोके-अलोकाकाशास्तिकाये प्रतिहताः-स्खलिताः सिद्धा-मुक्ताः, प्रतिस्खलनं चेहानन्तर्यवृत्तिमात्रं, तथा लोकाग्रेच-पञ्चास्तिकायात्मकलोकमूर्धनिच प्रतिष्ठिताअपुनरागत्या व्यवस्थिता इत्यर्थः, तथा इह-मनुष्यक्षेत्रे बोन्दि-तनु परित्यज्य तत्रेति-लोकाग्रे गत्वा सिन्झईति-सिध्यन्ति निष्ठितार्था भवन्ति॥ मू. (५८) जेसंठाणं तुंइहं भवं चयं तस्स चरिमसमयंमि। . आसीय पएसघणं तं संठाणं तहिं तस्स ।। वृ.किञ्च-जं संठाणं' गाहा व्यक्ता, नवरं प्रदेशघनमिति त्रिभागेन रन्ध्ररपूरणादिति, 'तहिं ति सिद्धिक्षेत्रे 'तस्स'त्ति सिद्धस्येति॥ मू (१९) वीहं वा हस्सं वाजं चरिमभवे हवेज संठाणं। तत्तो तिभागहीणं, सिद्धाणोगाहणा भणिया॥ वृ. तथा चाह–'दीहं वा गाहा, दीर्घ वा-पञ्चधनुःशतमानं हस्वं वा-हस्तद्वयमानं, वाशब्दान्मध्यमं वा, यच्चरमभवे भवेत्संस्थानं 'ततः तस्मात् संस्थानात् त्रिभागहीना त्रिभागेन शुषिकपूरणात् सिद्धानामवगाहना-अवगाहन्ते-अस्यामवस्थायामितिअवगाहना स्वावस्थैवेति भावः, भणिता-उक्ता जिनैरिति ॥ मू. (६०) तिन्नि सया तेत्तीसा धणूत्तिभागो य होइ बोद्धव्वा। एसा खलु सिदअघाणं, उक्कोसोगाहणा भणिया । मू. (६१) चत्तारि य रयणीओ रयणित्तिभागूणिया य बोद्धव्वा। एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया॥ मू. (६२) एक्का य होइ रयणी साहीया अंगुलाइं अट्ठ भवे । एसा खलु सिद्धाणं जहन्नओगाहणा भणिया। वृ.अथावगाहनामेवोत्कृष्टादिभेदतआह-'तिन्निसयेत्यादि, इयंचपञ्चधनुःशतमानानां, 'चत्तारिये'त्यादि तु सप्तहस्तानाम् ‘एगा ये' त्यादि द्विहस्तमानानामिति । इयं च त्रिविधाऽप्यूर्ध्वमानमानश्रित्यान्यथा सप्तहस्तमानानां च उपविष्टानां सिद्धयतामन्यथाऽपि स्यादिति। आक्षेपपरिहारौपुनरेवमत्र-ननु नाभिकुलकरः पञ्चविंशत्यधिकपञ्चधनुःशतमानःप्रतीत एव, तद्भार्याऽपिमरुदेवीतप्रमाणैव, उच्चत्तंचेवकुलगरेहिंसम'मितिवचनात्, अतस्तदवगाहना उत्कृष्टावगहनातोऽधिकतरा प्राप्नोतीति कथं न विरोधः?,अत्रोच्यते, अद्यप्युच्चत्वं कुलकरतुल्यं तद्योषितामित्युक्तं, तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुम्भ्यो लघुतरत्वात् पञ्चैव धनुःशतान्यसावभवत्, वृद्धकाले वा सङ्कोचात् पञ्चधनुःशतमाना साअभवद्, उपविष्टा वाऽसौ सिद्धेति न विरोधः, अथवा बाहुल्यापेक्षमिदमुत्कृष्टावगाहनामानं, मरुदेवी त्वाश्चर्यकल्पेत्येवमपि न विरोधः, ननु जघन्यतः सप्तहस्तोच्छ्रितानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना अष्टाङ्गुलाधिकहस्तप्रमाणा भवतीति?, अत्रोच्यते, सप्तहस्तोच्छ्रितेषुसिद्धिरिति तीर्थङ्करापेक्षं, तदन्येतु द्विहस्ताअपिकूर्मपुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्ये त्वाहुः-सप्तहस्तमानस्य संवर्तिताङ्गोपाङ्गस्य सिद्धयतो जघन्यावगाहना स्यादिति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy