SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १८२ औपपातिकउपाङ्गसूत्रम्-५४ सकलोलोकः पूरितोभवति, लोयंपडिसाहरइत्तिपञ्चमेसमयेमन्थान्तरापूरकत्वेन येलोकपूरकाः प्रदेशास्ते लोकशब्देन उच्यन्ते, अतोमन्थान्तरालपूरकान्प्रदेशान्संहरतिमथिस्थो भवतीतियावत्, 'मंथं पडिसाहरइत्ति मथ्याकारव्यवस्थापितप्रदेशान् संहृत्य कपाटस्थो भवतीतियावत्, ‘कवाडं पडिसाहरइ'त्ति सप्तमसमये कपाटाकारधारकप्रदेशसंहरणाद्दण्डस्थो भवतीत्यर्थः, 'अट्ठमे समए दंडं पडिसाहरइ, साहरित्ता सरीरत्थे भवइत्ति, इह यद्यपि संहत्येत्यनेन संहरणस्य पूर्वकालता शरीरस्थभवनस्य च पश्चात्कालता शब्दवृत्त्या प्रतीयते, तथाऽप्यर्थवृत्त्या न कालभेदोऽस्ति, द्वयोरप्यष्टमसमयभावित्वेनोक्तत्वादिति।। 'नो मनजोगं नो वयजोगं जुंजइ'त्ति प्रयोजनाभावात्, काययोगचिन्तायां सप्तविधः काययोगः, तत्र-'ओरालियसरीरकायजोगंति योगो-व्यापारः स च वागादेरप्यस्तीति कायेन विशेषितत्वात्काययोगः सचानेकधेतिऔदारिकशरीरेणंविशिष्यते, तत्रोदारैः-शेषपुद्गलापेक्षया स्थूलैः पुद्गलैर्निवृत्तमित्यौदारिकं, तच्च तच्छरीरं चेति समासस्तस्य काययोगऔदारिकशरीरकाययोगः, 'ओरालियमीससरीकायजोगं'ति औदारिकमिश्रकं नाम यच्छरीरं तस्य यः काययोगः स यथा, स च कार्मणोदारिकयोयुगपद्वयापाररूप औदारिकशरीररिणामुत्पत्तिकाले केवलिसमुद्घाते वा, औदारिकवैक्रिययोरौदारिकाहारकयोर्वा युगुपद्वयापाररूपः, औदारिकशरीरिणां वैक्रियकरणकाले आहारककरणकाले चेति, 'वेउव्वियसरीरकायजोगं'तिपूर्ववन्नवरं विक्रिया प्रयोजनमस्येति वैक्रियं-सूक्ष्मतरविशिष्टकार्यकरणक्षमपुद्गलनिवृत्तमित्यर्थः, अयंच वैक्रियलब्धिमतां बादरवायुकायिकपञ्चेन्द्रियतिर्यग्मनुष्याणां देवनारकाणां च स्यादिति। 'वेउब्वियमिस्ससरीरकायजोगं'ति वैक्रियं सन्मिश्रं यत्कार्मणादिना तद्वैक्रियमिश्रं तच्च तच्छरीरंचेति समासस्तस्य काययोगो वैक्रियमिश्रशरीरकाययोगः, सच वैक्रियकार्मणयोर्युगपद्वयापाररूपः, स च देवनारकाणामुत्पत्तिकाले यावत् वैक्रियमपरिपूर्णमिति, वैक्रियलब्धिमतां वा तिर्यग्मनुष्याणां विहितवैक्रियशरीराणां तत्त्यागेनौदारिकं गृह्णतामिति, ‘आहारगसरीरकायजोगं तिप्राग्वत् नवरम्-आहारका-विशिष्टतरपुद्गलास्तन्निष्पन्नमाहारकम्, अयंच चतुर्दशपूर्वधरस्य समुत्पन्नविशिष्टप्रयोजनस्य कृताहारकशरीरस्य भवतीति, 'आहारगमीससरीरकायजोगं'तिआहारकंसन्मिश्रंयदौदारिकेणतदाहारकमिश्रंतच्चतच्छरीरंचेति, शेषस्तथैव, अयंचाहारकौदारिकयोयुगपद्वयापाररूपः, सचकृताहारकस्यतत्त्यागेनौदारिकंगृह्णतो भवतीति, 'कम्मगसरीरकायजोगं'तिप्राग्वत्, अयंचापान्तरालतौ केवलिसमुद्घाते वा स्यादिति, 'पढमट्ठमेसु समएसु'इत्यादेरयमभिप्रायः-जीवप्रदेशानां दण्डतया प्रक्षेपे संहारे च प्रथमाष्टमसमययोरौदारिककायव्यापारादौदारिककाययोग एव, द्वितीयषष्ठसप्तमसमयेषु पुनः प्रदेशानां प्रक्षेपसंहारयोरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, तृतीयचतुर्थपञ्चमेषु तु बहिरौदारिकात्कार्मणकायव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनाद्, इहच यद्यपिमन्थकरणेकपाटन्यायेनौदारिकस्यापिव्यापारःसम्भाव्यतेतथाऽपीत एववचनागदसौ कथञ्चिन्नास्तीति मन्तव्यमिति। ‘सच्चमनदजोगंजुंजइ, असच्चामोसामणजोगंपिजुंजइत्तिमनःपर्यायज्ञानिनाअनुत्तरसुरेण वामनसा पृष्टोमनसैवअस्तिजीवएवंकुर्वित्यादिकमुत्तरंयच्छन्, 'सच्चवइजोगं'तिजीवादिपदार्थान् प्ररूपयन् ‘असच्चमोसावयजोगं ति आमन्त्रणादिष्विति, समुद्घातान्निवृत्तश्चान्तर्मुहूर्तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy