________________
१८०
औपपातिकउपाङ्गसूत्रम्-५२
वेयणिदजं आउयं नामं गुत्तं, सव्वबहुए से वेयणिज्जे कम्मे भवइ, सव्वत्थोवे से आउए कम्मे भवइ, विसमं समं करेइ बंधणेहिं ठिईहिं य, विसमसमकरणयाए बंधणेहिं ठिइहि य एवं खलु केवली समोहणंति एवं खलु केवली समुग्घायं गच्छति । सव्वेविणंभंते! केवली समुग्घायं गच्छंति?, नो इणढे समढे,
वृतदेवमुक्तो विवक्षितोपपातः, अधुनाऽनन्तरोक्तसिद्धोपपातसम्बन्धेनतत्कारणभूतसमुद्घातादिवक्तव्यतां दर्शयन्नाह-'अनागारेण मित्यादि व्यक्तं, नवरं 'केवलिसमुग्घाएणं'ति नकषायादिसमुद्घातेन समोहए'त्तिसमवहतो-विक्षिप्तप्रदेशः 'केवलकपंतिकेवलज्ञानकल्पं सम्पूर्णमित्यर्थः, वृद्धव्याख्यातुकेवलः-सम्पूर्णःकल्पत इतिकल्पः-स्वकार्यकरणसमर्थः वस्तुरूप इतियावत्, केवलश्चासौ कल्पश्चेति समासोऽतस्तं 'निज्जरापोग्गलेहिंति निर्जराप्रधानाःपुद्गला निर्जरापुद्गलाः, जीवेनाकर्मतामापादिताः कर्मप्रदेशा इत्यर्थः, अतस्तैर्निर्जरापुद्गलैः 'फुडे'त्ति स्पृष्टो व्याप्तः 'छउमत्थे णं'ति छद्मस्थो निरतिशयज्ञानयुक्त इह प्रतिपत्तव्यो यतः छद्मस्थोऽपि विशिष्टावधिज्ञानयुक्तो निर्जरापुद्गलान् जानात्येव 'रूवगयं(चेव)लहइ सव्व'मिति वचनात् 'वण्णेणवण्णं'तिवर्णेन-वर्णतयायाथास्येनेत्यर्थःवर्ण-कालवर्णादिकंजानाति विशेषतः पश्यति सामान्यतः, नोइणडेत्ति नायमर्थः ‘समडेत्तिसमर्थः-सङ्गतः, कर्मपुद्गलानांसातिशयज्ञान-गम्यत्वात्,
____ “सव्वब्धंतराए'त्ति सर्वाभ्यन्तरकः ‘सव्वखुड्डाए'त्तिसर्वक्षुल्लकः, दीर्घत्वंचात्र प्राकृतत्वात्, 'वट्टे'त्तिवृत्तः, वृत्तश्चमोदकवद्घनवृत्तोऽपिस्यादतस्तद्वयवच्छेदेनप्रतरवृत्तताभिधानार्थमाह'तेल्लापूयसंठाणसंठिए'त्ति उपलक्षणत्वादस्य घृतापूपादेरप्यत्र ग्रहः, रहचक्कवाल'त्तिचक्रवालंमण्डलं मण्डलत्वधर्मयोगाच्च रथचक्रमपि रथचक्रवालं 'पुक्खरकण्णिय'त्तिपद्मबीजकोशः, जाव इणामेवत्तिकट्ठ'त्ति यावदिति परिमाणार्थस्तावदित्यस्य गम्यमानस्य सव्यपेक्षः,
'इणामेव';त्तिइदं-गमनम्, एवमिति-चप्पुटिकारूपशीघ्रत्वावेदकहस्तव्यापारोपदर्शनपरः, अनुस्वाराश्रवणं च प्राकृतत्वात्, द्विर्वचनं च शीघ्रतातिशयोपदर्शनपरम्, इतिरुपप्रदर्शनार्थः, कृत्वा-विधाय तिहिंअच्छरानिवाएहिं तितिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिस्सत्तखुत्तो'त्तित्रिगुणाः सप्तत्रिसप्तत्रिसप्तवारास्त्रिःसप्तकृत्वः एकविंशतिवारा इत्यर्थः, 'हव्वं'तिशीघ्रं घाणपोग्गलेहिति गन्धपुद्गलैः, इह स्थाने यावदित्यस्य सव्यपेक्षस्तावदित्ययंशब्दो दृश्यः, 'एस्सुहुमाणं'ति एतत्सूक्ष्माः,कोऽर्थः ? एवं नाम सूक्ष्मास्ते यथा तांश्छद्मस्थो वर्णादिभिर्न जानातीति
_ 'समणाउस्सो'तिहेश्रमण! हेआयुष्मन्!,अथवाश्रमणश्चासावायुष्माँश्चेति समासस्तस्यामन्त्रणंहे श्रमणायुष्मन्!, यथा अतिसूक्ष्मत्वाद्गन्धपुद्गलान्न जानातीत्येवं निर्जरापुद्गलानपीति दृष्टान्तोपनयः । 'कम्हाणं भंते ! केवली समोहणंति'त्ति समवधान्ति-प्रदेशान् दिक्षु प्रक्षिपन्ति, एतदेव सुखप्रतिपत्तयेवाक्यान्तरेणाह-'कम्हाणं केवली समुग्घायं गच्छंति'त्ति, अपलिक्खीणे'त्ति स्थितेरक्षयात् 'अवेइया अनिज्जिण्ण'त्ति क्वचिद्-श्यते, तत्र अवेदितास्तद्रसस्याननुभूतत्वात् अनिर्जीर्णाः-तत्प्रदेशानांजीवप्रदेशेभ्योऽपरिशटनात् 'बहुए से वेयणिज्जेत्तिसे-तस्य केवलिनो यः समुद्घातं प्रतिपद्यते न पुनः सर्वस्यैव, केषाञ्चिदकृतसमुद्घातानामपि समभावस्येष्टत्वात् 'बंधणेहिं'तिप्रदेशबन्धानुभागबन्धावाश्रित्येत्यर्थः, 'ठिईहिय'त्ति स्थितिबन्धविशेषानाश्रित्येत्यर्थः, 'विसमसमकरणयाए बन्धणेहिं ठिईहि य एवं खलु केवली समोहणंति' इहैवमक्षरघटना-एवं खलु विषमसमकरणाय बन्धनादिभिः केवलिनःसमुद्घातयन्तीति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org