SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ मूलं - ५१ १७७ महानविमाणे देवत्ताएउववत्तारो भवंति, तहिं तेसिं गई तेत्तीसं सागरोवमाई ठिई आराहगा, सेसं तं चेव २१ । सेजे इमे गामागर जाव सन्निवेसेसु मणुआ भवंति, तंजहा - सव्वकामविरया सव्वरागविरया सव्वसंगातीता सव्वसिणेहातिक्कंता अक्कोहा निक्कोहा खीणक्कोहा एवं माणमायालोहा अणुपुव्वेणं अट्ठ कम्मपयडीओ खवेत्ता उपिं लोयग्गपइट्ठाणा हवंति ।। बृ. 'अयसकारण 'त्ति पराक्रमकृता सर्वदिग्गामिनी वा प्रख्यातिर्यशः तत्प्रतिषेधादयशः ‘अवण्णकारय’त्ति अवज्ञा - अनादरः अवर्णो वा-वर्णनाया अकरणं 'अकित्तिकारग' त्ति दानकृता एकदिग्गामिनी वा प्रसिद्धिः कीर्तिस्तन्निषेधादकीर्तिः 'असब्भावुब्भावणाहिं' ति असद्भावानाम्अविद्यमानार्थानामुद्भावना - उत्प्रेक्षणानि असद्भावोद्मद्भावनास्ताभिः 'मिच्छत्ताभिनिवेसेहि य'त्ति मिध्यात्वे-वस्तुविपर्यासे मिध्यात्वाद्वा-मिथ्यादर्शनाख्यकर्मणः सकाशाद् अभिनिवेशा:चित्तावष्टम्भामिथ्यात्वाभिनिवेशास्तैः 'वुग्गाहेमाण' त्ति व्युद्ग्राह्यमाणाः - कुग्रहे योजयन्तः 'वुप्पाएमाण 'त्ति व्युत्पादयमानाः - असद्भावोद्भावनासु समर्थीकुर्वन्त इत्यर्थः, 'अणालोइयअपडिक्कंत 'त्ति गुरूणां समीपे अकृतालोचनास्ततो दोषादनिवृत्ताश्चेत्यर्थः, एतेषां च विशिष्टश्रामण्यजन्यं देवतावं प्रत्यनीकताजन्यं च किल्बिषिकत्वं, ते हि चण्डालप्राया एव देवमध्ये भवन्तीति १५ ॥ 'सण्णीपुव्वजाईसरणे' त्ति संज्ञिनां सतां या पूर्वजातिः - प्राक्तानो भवस्तस्या यत्स्मण तत्तथा १६ ॥ आजीविकागोशालकमतानुवर्तिनः 'दुघरंतरिय 'त्ति एकत्र गृहे भिक्षां गृहीत्वा येऽभिग्रहविशेषाद् गृहद्वयमतिक्रम्य पुनर्भिक्षां गृह्णन्ति न निरनन्तरमेकान्तरं वा ते द्विगृहान्तरिकाः, द्वे गृहे अन्तरं भिक्षाग्रहणे येशषामस्ति ते द्विगृहान्तरिका इति निर्वचनम्, एवं त्रिगृहान्तरिकाः सप्तगृहान्तरिकाश्च 'उप्पलबेंटिय'त्ति उत्पलवृन्तानि नियमविशेषात् ग्राह्यतया भैक्षत्वेन येषां सन्ति ते उत्पलवृन्तिकाः 'घरसमुदानिय'त्ति गृहसमुदानं प्रतिगृहं भिक्षा येषां ग्राह्यतयाऽस्ति ते गृहसमुदानिकाः 'विजयंतरियत्ति विद्युति सत्यां अन्तरं भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिकाः, विद्युत्सम्पाते भिक्षां नाटन्तीति भावार्थ:, 'उट्टियासमण' त्ति उष्ट्रिका - महामृण्मयो भाजनविशेषस्तत्र प्रविष्टा ये स्नम्यन्ति–तपस्यन्तीत्युष्ट्रिकाश्रमणाः, एषां च पदाना मुठप्रेक्षया व्याख्या कृतेति १७ । 'अत्तुक्कोसिय'त्ति आत्मोत्कर्षोऽस्ति येषां ते आत्मोत्कर्षिकाः, 'परपरिवाइय'त्ति परेषां परिवादो-निन्दाऽस्ति येषां ते परपरिवादिकाः 'भूइकम्मिय'त्ति भूतिकर्म - ज्वरितानामुपद्रवरक्षार्थं भूतिदानं तदस्ति येषां ते भूतिकर्मिकाः, 'भुज्जो भुज्जो कोउगकारग' त्ति भूयो भूयः पुनः पुनः कौतुकं - सौभाग्यादिनिमित्तं परेषां स्नपनादि तत्कर्तारः कौतुककारकाः 'आभिओगिएसु' त्ति अभियोगे - आदेशकर्मणि नियुक्ता आभियोगिका आदेशकारिण इत्यर्थः एतेषां च देवत्वं चारित्रादाभियोगिकत्वं चात्मोत्कर्षादिरिति १८ । बहुषु समयेषु रता - आसक्ताः बहुभिरेव समयैः कार्यं निष्पद्यते नैकसमयेनेत्येवंविधवादिनो बहुरताः - जमालिमतानुपातिनः, 'जीवपएसि' त्ति जीवः प्रदेश एवैको येषां मतेन ते जीवप्रदेशाः, एकेनापि प्रदेशेन न्यूनो जीवो न भवत्ययो येनैकेन प्रदेशेन पूर्णः सन् जीवो भवति स एवैकः 8 12 Jain Education International 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy