________________
१६७
मूलं-४९ भोजयितुं भुआनं वाऽनुमोदयितुमिति व्याख्येयं । _ 'तिदंडए'त्ति त्रयाणां दण्डकानां समाहारस्त्रिदण्डकानि 'कुंडियाओ यत्ति कमण्डलवः 'कंचणियाओय'त्ति काञ्चनिकाः-रुद्राक्षमयमालिकाः ‘करोडियाओय'त्तिकरोटिकाः-मृण्मयभाजनविशेषाः 'भिसियाओय'त्ति वृषिकाःउपवेशनपट्टडिकाः 'छन्नालए यत्तिषण्नाल-कानि त्रिकाष्ठिकाः 'अंकुसाएय'त्ति अङ्कुशकाः-देवार्चनार्थं वृक्षपल्लवाकर्षणार्थं अकृशकाः 'केसरिया
ओय'त्ति केशरिकाः-प्रमार्जनानिचीवरखण्डानि 'पवित्तएय'त्ति पवित्रकाणि-ताम्रमयान्यकुलीयकानि 'गणेत्तियाओ यत्ति गणेत्रिकाः-हस्ताभरणविशेषः छत्रकाण्युपानहश्च प्रतीताः।
___'धाउरत्ताओ यत्ति धातुरक्ता-गैरिकोपरञ्जिताः शाटिका इति गम्यं, 'पडिसुणेति त्ति प्रतिश्रृण्वन्ति-अभ्युपगच्छन्ति, 'संपलियंकनिसन्न'त्ति सम्पर्यङ्क:-पद्मासनं, प्राणातिपातादिव्याख्या पूर्ववत्, शरीरविशेषणव्याख्या त्वेवम्-'इठं'ति वल्लभं 'कंतं'ति कान्तं काम्यत्वात् 'पिय'त्तिप्रियं सदा प्रेमविषयत्वात् 'मणुण्णं'तिमनोज्ञं-सुन्दरमित्यर्थः, 'मणोमंतिमनसअम्यतेप्राप्यतेपुनः पुनः संस्मरणतोयत्तन्मनोऽमं पेजंति सर्वपदार्थानांमध्ये अतिशयेन प्रियत्वात्प्रेयः।
प्रकर्षेण वा इज्या-पूजाऽस्येति प्रेज्यं, प्रेर्यं वा कालान्तरनयनात्, 'थेचं ति क्वचित्तत्र स्थैर्यम्, अस्थिरेऽपि मूढैः स्थैर्यसमारोपणात्, वेसासियंति विश्वासःप्रयोजनमस्येतिवैश्वासिकं, परशरीरमेव हि प्रायेणाविश्वासहेतुर्भवतीति, 'समय'ति सम्मतं तत्कृतकार्याणां सम्मतत्वात् 'बहुमयंति बहुसो बहूनां वा मध्ये मतम्-इष्टं यत्तद्बहुमतम् 'अणुमय'ति वैगुण्यदर्शनस्यापि पश्चान्मतमनुमतं 'भंडकरंडगसमाणं'ति आभरणकरण्डकतुल्यमुपादेयमित्यर्थः, तथा।
_ 'माणं सीय' मित्यादि व्यक्तं, नवरं माशब्दो निषेधार्थ, णङ्कारो वाक्यालङ्कारार्थ, इहच स्पृशत्वितियथायोगं योजनीयम्, अथवा 'माणं'तिमाएतच्छरीरमिति व्याख्येयं, 'माणंवाल'त्ति व्यालाः-श्वापदभुजगाः 'रोगायंक'त्ति रोगाः-कालमहाव्याधयः आतङ्काः-तएव सद्योघातिनः 'परीसहोवसग्ग'त्ति परीषहाः-क्षुदादयो द्वाविंशति उपसर्गा-दिव्यादयः 'फुसंतु' स्पृश्न्तु 'इतिकट्ठ'त्ति इतिकृत्वा इत्येवमभिसन्धाय यत्पालितमिति शेषः ।
'एयंपिणं'ति एतदपिशरीरं "वोसिरामित्ति कटुइत्यत्र त्तिकट्ठत्ति-इतिकृत्वा इति विसर्जनं विधाय विहरन्तीति योगः, 'संलेहनाथूसिय'त्ति संलेखना-शरीरस्य तपसा कृशीकरणं तां तया वा 'झूसित्तिजुषटा वासेवितायेते तथा 'संलेहणझूसणाझूसिय'त्तिकवचित्तत्रसंलेखनायांकषायशरीरकृशीकरणे या जोषणा-प्रीति सेवा वा 'जुषी प्रीतिसेवनयो' रितिवचनात् सा तथा तया तां वा ये जुष्टाः-सेवितास्ते तथा संलेखनाजोषणाया वा झूसियत्ति-झूषि क्षीणा येते तथा।
____ 'भत्तपाणपडियाइक्खिय'त्ति प्रत्याख्यातभक्तपानाः 'पाओवगया' पादपोपगता वृक्षवनिष्पन्दतयाऽवस्थिताइत्यर्थः, 'कालं अणवकंखमाण'त्तिमरणमनवकाङ्क्षन्तः,आकाक्षन्ति हि मरणमतिकष्टं गताः केचनेति तन्निषेध उक्तः 'अणसणाए छेइंति'त्ति अनशनेन व्यवच्छिन्दन्ति-परिहरन्तीत्यर्थः, एतेच यद्यपि देशविरतिमन्तस्तथापि परिव्राजकक्रयया ब्रह्मलोकंगता इत्यवसेयम्, अन्यथैतद्भणनं वृथैव स्याद्, देश विरिफलं त्वेषां परलोकाराधकत्वमेवेति, न च ब्रह्मलोकगमनं परिव्राजकक्रियाफलमेषामेवोच्यते, अन्येषामपि मिथ्याध्शां कपिलप्रभृतीनां तस्योक्तत्वादिति १३॥
मू. (५०) बहुजने णं भंते ! अन्नमन्नस्स एवमाइक्खइ एवं भासइ एवं परूवेइ एवं खलु
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org