________________
१६४
औपपातिकउपाङ्गसूत्रम्-४८
सेsविय थिमिओदए नो चेव णं कद्दोदए, सेऽविय बहुपसण्णे नो चेव णं अबहुपसण्णे, सेऽविय परिपूए नो चेव णं अपरिपुए, सेऽविय णं दिन्ने नो चेव णं अदिन्ने, सेऽविय पिबित्तए नो चेवणं हत्थपायचरुचमसपक्खालणठ्ठाए सिणाइत्तए वा ।
तेसि णं परिव्वायगाणं कप्पइ मागहए अद्धाढए जलस्स पडिग्गाहित्तए, सेऽविय वहमाणे नो चेव णं अवहमाणे जाव नो चेव णं अदिन्ने, सेऽविय हत्थपायचरुचमसपक्खालणठ्ठयाए नो चेव णं पिबित्तए सिणाइत्तए वा, ते णं परिव्वायगा एयारूवेणं विहारेणं विहरमाणा बहूइं वासाई परियायं पाउणंति बहूइं वासाइं परियायं पाउणित्ता कालमासे कालं किच्चा उक्कसेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवंति ।
तहिं तेसिं गई तहिं तेसिं ठिई दस सागरोवमाइं ठिई पन्नत्ता, सेसं तं चैव १२ ॥
बृ. 'रिउवेदज' जुव्वेदसामवेयउहव्वणवेद त्ति इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानामिति दृश्यं, 'इतिहासपंचमाणं' ति इतिहासः पुराणमुच्यते ' निग्घंटुछठ्ठाणं' ति निर्घण्टुः-नामकोशः 'संगोवंगाणं' ति अङ्गानि - शिक्षादीनि उपाङ्गानि - तदुक्तप्रपञ्चनपराः प्रबन्धाः 'सरहस्साणं' ति ऐदम्पर्ययुक्तानामित्यर्थः 'चउण्हं वेयाणं' ति व्यक्त 'सारय'त्ति अध्यापनद्वारेण प्रवर्तकाः स्मारका वा अन्येषां विस्मृतस्य स्मारणात् 'पारय'त्ति पर्यन्तगामिनः 'धारय 'त्ति धारयितुं क्षमाः 'सडंगवी 'त्ति । षडङ्गविदः- शिक्षादिविचारकाः
'सठ्ठितंतविसारय'त्ति कापिलीयतन्त्रपण्डिताः 'संखाणे ' त्ति सङ्ख्याने - गणितस्कन्दे सुपरिनिष्ठिता इति योगः, अथ षडङ्गानि दर्शयन्नाह - 'सिक्खाकप्पे' त्ति शिक्षा च - अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च तथाविधसमाचारनिरूपकं शास्त्रमेवेति शिक्षा- कल्पस्तत्र, 'वागरणे' त्ति शब्दलक्षणशास्त्रे 'छंदे' त्ति पद्यवचनलक्षणशास्त्रे 'निरुत्ते' त्ति शब्दनिरुक्तिप्रतिपादके 'जोइसामयणे 'त्ति ज्योतिषामयने - ज्योतिशास्त्रे अन्येषु च बहुषु 'बंभण्णएसुय'त्ति ब्राह्मणकेषु च - वेदव्याख्यानरूपेषु ब्राह्मणसंबन्धि शास्त्रेष्वागमेषु वा, वाचनान्तरे 'परिव्वायएसु य नएसु'त्ति परिव्राजकसम्बन्धिषुच नयेषु - न्यायेषु 'सुपरिनिठ्ठिया यावि होत्थ' त्ति सुनिष्णाताश्चाप्यभूवन्निति
'आघवेमाण'त्ति आख्यायन्तः -- कथयन्तः 'पन्नवेमाण' त्ति बोधयन्तः 'परूवेमाण' त्ति उपपत्तिभि स्थापयन्तः 'चोक्खा चोक्खायार' त्ति चोक्षा-विमलदेहनेपथ्याः चोक्षाचारानिरवद्यव्यवहाराः, किमुक्तं भवतीत्याह - 'सुई सुईसमायर'त्ति, 'अभिसेयजलपूयप्पाणो त्ति अभिषेकतो जलेन पूयत्ति-पवित्रित आत्मा यैस्ते तथा 'अविग्घेणं' विघ्राभावेन, 'अगडं व 'त्ति अवटं - कूपं 'वाविं वत्ति वापी - चतुरस्रजलाशयविशेषः 'पुक्खरिणीं व' त्ति पुष्करिणी वर्तुलः स एव पुष्करयुक्तो वा 'दीहियं व' त्ति दीर्घिका-सारणी ।
'गुंजालियं व 'त्ति गुञ्जालिका - वक्रसारणी 'सरसिं व 'त्ति क्वचिदृश्यते तत्र महत्सरः सरसीत्युच्यते, 'नन्नत्थ अद्धामगमणेणं' ति न इति यो निषेधः सोऽन्यतराध्वगमनादित्यर्थः, ‘सगडं वे’त्यत्र यावत्करणादिदं दृश्यं - 'रहं वा जाणं वा जुग्गं वा गिल्लिं वा थिल्लिं वा पवहणं वा सीयं वे 'ति एतानि च प्रागिव व्याख्येयानीति, 'हरियाणं लेसणया व' त्ति संश्लेषणता 'घट्टणया व' त्ति सङ्घट्टनं 'थंभणया व 'त्ति स्तम्भनम् - ऊर्ध्वकरणं 'लूसणया व 'त्ति कचित्तत्र लूषणं - हस्तादिना पनकादेः सम्मार्जनं ‘प्पाडणया वा' उन्मूलनं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org